मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 32

श्रीमद्भागवत दशम स्कन्ध अध्याय 32 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.32.1

इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश् च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ 1 ॥

श्लोक 10.32.2

तासाम् आविरभूच् छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान् मन्मथमन्मथः ॥ 2 ॥

श्लोक 10.32.3

तं विलोक्यागतं प्रेष्ठं प्रीत्य्उत्फुल्लदृशो ऽबलाः । उत्तस्थुर् युगपत् सर्वास् तन्वः प्राणम् इवागतम् ॥ 3 ॥

श्लोक 10.32.4

काचित् कराम्बुजं शौरेर् जगृहे ऽञ्जलिना मुदा । काचिद् दधार तद्बाहुम् अंसे चन्दनभूषितम् ॥ 4 ॥

श्लोक 10.32.5

काचिद् अञ्जलिनागृह्णात् तन्वी ताम्बूलचर्वितम् । एका तद्अङ्घ्रिकमलं सन्तप्ता स्तनयोर् अधात् ॥ 5 ॥

श्लोक 10.32.6

एका भ्रुकुटिम् आबध्य प्रेमसंरम्भविह्वला । घ्नन्तीवैक्षत् कटाक्षेपैः सन्दष्टदशनच्छदा ॥ 6 ॥

श्लोक 10.32.7

अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम् । आपीतम् अपि नातृप्यत् सन्तस् तच्चरणं यथा ॥ 7 ॥

श्लोक 10.32.8

तं काचिन् नेत्ररन्ध्रेण हृदि कृत्वा निमील्य च । पुलकाङ्ग्य् उपगुह्यास्ते योगीवानन्दसम्प्लुता ॥ 8 ॥

श्लोक 10.32.9

सर्वास् ताः केशवालोकपरमोत्सवनिर्वृताः । जहुर् विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ 9 ॥

श्लोक 10.32.10

ताभिर् विधूतशोकाभिर् भगवान् अच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ 10 ॥

श्लोक 10.32.11

ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः । विकसत्कुन्दमन्दार सुरभ्य्अनिलषट्पदम् ॥ 11 ॥

श्लोक 10.32.12

शरच्चन्द्रांशुसन्दोहध्वस्तदोषातमः शिवम् । कृष्णाया हस्ततरला चितकोमलवालुकम् ॥ 12 ॥

श्लोक 10.32.13

तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैर् उत्तरीयैः कुचकुङ्कुमाङ्कितैर् अचीकॢपन्न् आसनम् आत्मबन्धवे ॥ 13 ॥

श्लोक 10.32.14

तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदि कल्पितासनः । चकास गोपीपरिषद्गतो ऽर्चितस् त्रैलोक्यलक्ष्म्य्एकपदं वपुर् दधत् ॥ 14 ॥

श्लोक 10.32.15

सभाजयित्वा तम् अनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा । संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत् कुपिता बभाषिरे ॥ 15 ॥

श्लोक 10.32.16

भजतो ऽनुभजन्त्य् एक एक एतद्विपर्ययम् । नोभयांश् च भजन्त्य् एक एतन् नो ब्रूहि साधु भोः ॥ 16 ॥

श्लोक 10.32.17

मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद् धि नान्यथा ॥ 17 ॥

श्लोक 10.32.18

भजन्त्य् अभजतो ये वै करुणाः पितरौ यथा । धर्मो निरपवादो ऽत्र सौहृदं च सुमध्यमाः ॥ 18 ॥

श्लोक 10.32.19

भजतो ऽपि न वै केचिद् भजन्त्य् अभजतः कुतः । आत्मारामा ह्य् आप्तकामा अकृतज्ञा गुरुद्रुहः ॥ 19 ॥

श्लोक 10.32.20

नाहं तु सख्यो भजतो ऽपि जन्तून् भजाम्य् अमीषाम् अनुवृत्तिवृत्तये । यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन् निभृतो न वेद ॥ 20 ॥

श्लोक 10.32.21

एवं मद्अर्थोज्झितलोकवेद स्वानाम् हि वो मय्य् अनुवृत्तये ऽबलाः । मयापरोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत् प्रियं प्रियाः ॥ 21 ॥

श्लोक 10.32.22

न पारये ऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । या माभजन् दुर्जरगेहशृङ्खलाः संवृश्च्य तद् वः प्रतियातु साधुना ॥ 22 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ