मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 33

श्रीमद्भागवत दशम स्कन्ध अध्याय 33 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.33.1

इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः । जहुर् विरहजं तापं तद्अङ्गोपचिताशिषः ॥ 1 ॥

श्लोक 10.33.2

तत्रारभत गोविन्दो रासक्रीडाम् अनुव्रतैः । स्त्रीरत्नैर् अन्वितः प्रीतैर् अन्योन्याबद्धबाहुभिः ॥ 2 ॥

श्लोक 10.33.3

रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः । योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर् द्वयोः । प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः यं मन्येरन् नभस् तावद् विमानशतसङ्कुलम् । दिवौकसां सदाराणाम् औत्सुक्यापहृतात्मनाम् ॥ 3 ॥

श्लोक 10.33.4

ततो दुन्दुभयो नेदुर् निपेतुः पुष्पवृष्टयः । जगुर् गन्धर्वपतयः सस्त्रीकास् तद्यशो ऽमलम् ॥ 4 ॥

श्लोक 10.33.5

वलयानां नूपुराणां किङ्किणीनां च योषिताम् । सप्रियाणाम् अभूच् छब्दस् तुमुलो रासमण्डले ॥ 5 ॥

श्लोक 10.33.6

तत्रातिशुशुभे ताभिर् भगवान् देवकीसुतः । मध्ये मणीनां हैमानां महामरकतो यथा ॥ 6 ॥

श्लोक 10.33.7

पादन्यासैर् भुजविधुतिभिः सस्मितैर् भ्रूविलासैर् भज्यन् मध्यैश् चलकुचपटैः कुण्डलैर् गण्डलोलैः &अम्प्; स्विद्यन्मुख्यः कवररसनाग्रन्थयः कृष्णवध्वो गायन्त्यस् तं तडित इव ता मेघचक्रे विरेजुः ॥ 7 ॥

श्लोक 10.33.8

उच्चैर् जगुर् नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः । कृष्णाभिमर्शमुदिता यद्गीतेनेदम् आवृतम् ॥ 8 ॥

श्लोक 10.33.9

काचित् समं मुकुन्देन स्वरजातीर् अमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्व् इति । तद् एव ध्रुवम् उन्निन्ये तस्यै मानं च बह्व् अदात् ॥ 9 ॥

श्लोक 10.33.10

काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः । जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ 10 ॥

श्लोक 10.33.11

तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तम् आघ्राय हृष्टरोमा चुचुम्ब ह ॥ 11 ॥

श्लोक 10.33.12

कस्याश्चिन् नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् । गण्डं गण्डे सन्दधत्याः प्रादात् ताम्बूलचर्वितम् ॥ 12 ॥

श्लोक 10.33.13

नृत्यती गायती काचित् कूजन् नूपुरमेखला । पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात् स्तनयोः शिवम् ॥ 13 ॥

श्लोक 10.33.14

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् । गृहीतकण्ठ्यस् तद्दोर्भ्यां गायन्त्यस् तम् विजह्रिरे ॥ 14 ॥

श्लोक 10.33.15

कर्णोत्पलालकविटङ्ककपोलघर्मवक्त्रश्रियो वलयनूपुरघोषवाद्यैः &अम्प्; गोप्यः समं भगवता ननृतुः स्वकेशस्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ 15 ॥

श्लोक 10.33.16

एवं परिष्वङ्गकराभिमर्शस्निग्धेक्षणोद्दामविलासहासैः । रेमे रमेशो व्रजसुन्दरीभिर् यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ 16 ॥

श्लोक 10.33.17

तद्अङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुचपट्टिकां वा । नाञ्जः प्रतिव्योढुम् अलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह ॥ 17 ॥

श्लोक 10.33.18

कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः । कामार्दिताः शशाङ्कश् च सगणो विस्मितो ऽभवत् ॥ 18 ॥

श्लोक 10.33.19

कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः । रेमे स भगवांस् ताभिर् आत्मारामो ऽपि लीलया ॥ 19 ॥

श्लोक 10.33.20

तासां रतिविहारेण श्रान्तानां वदनानि सः । प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ 20 ॥

श्लोक 10.33.21

गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्गण्डश्रिया सुधितहासनिरीक्षणेन &अम्प्; मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ 21 ॥

श्लोक 10.33.22

ताभिर् युतः श्रमम् अपोहितुम् अङ्गसङ्गघृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः । गन्धर्वपालिभिर् अनुद्रुत आविशद् वाः श्रान्तो गजीभिर् इभराड् इव भिन्नसेतुः ॥ 22 ॥

श्लोक 10.33.23

सो ऽम्भस्य् अलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः प्रहसतीभिर् इतस् ततो ऽङ्ग । वैमानिकैः कुसुमवर्षिभिर् ईद्यमानो रेमे स्वयं स्वरतिर् अत्र गजेन्द्रलीलः ॥ 23 ॥

श्लोक 10.33.24

ततश् च कृष्णोपवने जलस्थल प्रसूनगन्धानिलजुष्टदिक्तटे । चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरदः करेणुभिः ॥ 24 ॥

श्लोक 10.33.25

एवं शशाङ्कांशुविराजिता निशाः स सत्यकामो ऽनुरताबलागणः । सिषेव आत्मन्य् अवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः ॥ 25 ॥

श्लोक 10.33.26

संस्थापनाय धर्मस्य प्रशमायेतरस्य च । अवतीर्णो हि भगवान् अंशेन जगद्ईश्वरः ॥ 26 ॥

श्लोक 10.33.27

स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपम् आचरद् ब्रह्मन् परदाराभिमर्शनम् ॥ 27 ॥

श्लोक 10.33.28

आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् । किम्अभिप्राय एतन् नः शंशयं छिन्धि सुव्रत ॥ 28 ॥

श्लोक 10.33.29

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा ॥ 29 ॥

श्लोक 10.33.30

नैतत् समाचरेज् जातु मनसापि ह्य् अनीश्वरः । विनश्यत्य् आचरन् मौढ्याद् यथारुद्रो ऽब्धिजं विषम् ॥ 30 ॥

श्लोक 10.33.31

ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत् स्ववचोयुक्तं बुद्धिमांस् तत् समाचरेत् ॥ 31 ॥

श्लोक 10.33.32

कुशलाचरितेनैषाम् इह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ 32 ॥

श्लोक 10.33.33

किम् उताखिलसत्त्वानां तिर्यङ्मर्त्यदिवौकसाम् । ईशितुश् चेशितव्यानां कुशलाकुशलान्वयः ॥ 33 ॥

श्लोक 10.33.34

यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः &अम्प्; स्वैरं चरन्ति मुनयो ऽपि न नह्यमानास् तस्येच्छयात्तवपुषः कुत एव बन्धः ॥ 34 ॥

श्लोक 10.33.35

गोपीनां तत्पतीनां च सर्वेषाम् एव देहिनाम् । यो ऽन्तश् चरति सो ऽध्यक्षः क्रीडनेनेह देहभाक् ॥ 35 ॥

श्लोक 10.33.36

अनुग्रहाय भक्तानां मानुषं देहम् आस्थितः । भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत् ॥ 36 ॥

श्लोक 10.33.37

नासूयन् खलु कृष्णाय मोहितास् तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ 37 ॥

श्लोक 10.33.38

ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर् गोप्यः स्वगृहान् भगवत्प्रियाः ॥ 38 ॥

श्लोक 10.33.39

विक्रीडितं व्रजवधूभिर् इदं च विष्णोः श्रद्धान्वितो ऽनुशृणुयाद् अथ वर्णयेद् यः &अम्प्; भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ 39 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ