मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 34

श्रीमद्भागवत दशम स्कन्ध अध्याय 34 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.34.1

एकदा देवयात्रायां गोपाला जातकौतुकाः । अनोभिर् अनडुद्युक्तैः प्रययुस् ते ऽम्बिकावनम् ॥ 1 ॥

श्लोक 10.34.2

तत्र स्नात्वा सरस्वत्यां देवं पशुपतिं विभुम् । आनर्चुर् अर्हणैर् भक्त्या देवीं च णृपते ऽम्बिकाम् ॥ 2 ॥

श्लोक 10.34.3

गावो हिरण्यं वासांसि मधु मध्व्अन्नम् आदृताः । ब्राह्मणेभ्यो ददुः सर्वे देवो नः प्रीयताम् इति ॥ 3 ॥

श्लोक 10.34.4

ऊषुः सरस्वतीतीरे जलं प्राश्य यतव्रताः । रजनीं तां महाभागा नन्दसुनन्दकादयः ॥ 4 ॥

श्लोक 10.34.5

कश्चिन् महान् अहिस् तस्मिन् विपिने ऽतिबुभुक्षितः । यदृच्छयागतो नन्दं शयानम् उरगो ऽग्रसीत् ॥ 5 ॥

श्लोक 10.34.6

स चुक्रोशाहिना ग्रस्तः कृष्ण कृष्ण महान् अयम् । सर्पो मां ग्रसते तात प्रपन्नं परिमोचय ॥ 6 ॥

श्लोक 10.34.7

तस्य चाक्रन्दितं श्रुत्वा गोपालाः सहसोत्थिताः । ग्रस्तं च दृष्ट्वा विभ्रान्ताः सर्पं विव्यधुर् उल्मुकैः ॥ 7 ॥

श्लोक 10.34.8

अलातैर् दह्यमानो ऽपि नामुञ्चत् तम् उरङ्गमः । तम् अस्पृशत् पदाभ्येत्य भगवान् सात्वतां पतिः ॥ 8 ॥

श्लोक 10.34.9

स वै भगवतः श्रीमत् पादस्पर्शहताशुभः । भेजे सर्पवपुर् हित्वा रूपं विद्याधरार्चितम् ॥ 9 ॥

श्लोक 10.34.10

तम् अपृच्छद् धृषीकेशः प्रणतं समवस्थितम् । दीप्यमानेन वपुषा पुरुषं हेममालिनम् ॥ 10 ॥

श्लोक 10.34.11

को भवान् परया लक्ष्म्या रोचते ऽद्भुतदर्शनः । कथं जुगुप्सिताम् एतां गतिं वा प्रापितो ऽवशः ॥ 11 ॥

श्लोक 10.34.12

अहं विद्याधरः कश्चित् सुदर्शन इति श्रुतः । श्रिया स्वरूपसम्पत्त्या विमानेनाचरन् दिशः ॥ 12 ॥

श्लोक 10.34.13

ऋषीन् विरूपाङ्गिरसः प्राहसं रूपदर्पितः । तैर् इमां प्रापितो योनिं प्रलब्धैः स्वेन पाप्मना ॥ 13 ॥

श्लोक 10.34.14

शापो मे ऽनुग्रहायैव कृतस् तैः करुणात्मभिः । यद् अहं लोकगुरुणा पदा स्पृष्टो हताशुभः ॥ 14 ॥

श्लोक 10.34.15

तं त्वाहं भवभीतानां प्रपन्नानां भयापहम् । आपृच्छे शापनिर्मुक्तः पादस्पर्शाद् अमीवहन् ॥ 15 ॥

श्लोक 10.34.16

प्रपन्नो ऽस्मि महायोगिन् महापुरुष सत्पते । अनुजानीहि मां देव सर्वलोकेश्वरेश्वर ॥ 16 ॥

श्लोक 10.34.17

ब्रह्मदण्डाद् विमुक्तो ऽहं सद्यस् ते ऽच्युत दर्शनात् । यन्नाम गृह्णन्न् अखिलान् श्रोतॄन् आत्मानम् एव च । सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते ॥ 17 ॥

श्लोक 10.34.18

इत्य् अनुज्ञाप्य दाशार्हं परिक्रम्याभिवन्द्य च । सुदर्शनो दिवं यातः कृच्छ्रान् नन्दश् च मोचितः ॥ 18 ॥

श्लोक 10.34.19

निशाम्य कृष्णस्य तद् आत्मवैभवं व्रजौकसो विस्मितचेतसस् ततः &अम्प्; समाप्य तस्मिन् नियमं पुनर् व्रजं णृपाययुस् तत् कथयन्त आदृताः ॥ 19 ॥

श्लोक 10.34.20

कदाचिद् अथ गोविन्दो रामश् चाद्भुतविक्रमः । विजह्रतुर् वने रात्र्यां मध्यगौ व्रजयोषिताम् ॥ 20 ॥

श्लोक 10.34.21

उपगीयमानौ ललितं स्त्रीजनैर् बद्धसौहृदैः । स्व्अलङ्कृतानुलिप्ताङ्गौ स्रग्विनौ विरजोऽम्बरौ ॥ 21 ॥

श्लोक 10.34.22

निशामुखं मानयन्ताव् उदितोडुपतारकम् । मल्लिकागन्धमत्तालिजुष्टं कुमुदवायुना ॥ 22 ॥

श्लोक 10.34.23

जगतुः सर्वभूतानां मनःश्रवणमङ्गलम् । तौ कल्पयन्तौ युगपत् स्वरमण्डलमूर्च्छितम् ॥ 23 ॥

श्लोक 10.34.24

गोप्यस् तद्गीतम् आकर्ण्य मूर्च्छिता नाविदन् नृप । स्रंसद्दुकूलम् आत्मानं स्रस्तकेशस्रजं ततः ॥ 24 ॥

श्लोक 10.34.25

एवं विक्रीडतोः स्वैरं गायतोः सम्प्रमत्तवत् । शङ्खचूड इति ख्यातो धनदानुचरो ऽभ्यगात् ॥ 25 ॥

श्लोक 10.34.26

तयोर् निरीक्षतो राजंस् तन्नाथं प्रमदाजनम् । क्रोशन्तं कालयाम् आस दिश्य् उदीच्याम् अशङ्कितः ॥ 26 ॥

श्लोक 10.34.27

क्रोशन्तं कृष्ण रामेति विलोक्य स्वपरिग्रहम् । यथा गा दस्युना ग्रस्ता भ्रातराव् अन्वधावताम् ॥ 27 ॥

श्लोक 10.34.28

मा भैष्टेत्य् अभयारावौ शालहस्तौ तरस्विनौ । आसेदतुस् तं तरसा त्वरितं गुह्यकाधमम् ॥ 28 ॥

श्लोक 10.34.29

स वीक्ष्य ताव् अनुप्राप्तौ कालमृत्यू इवोद्विजन् । विषृज्य स्त्रीजनं मूढः प्राद्रवज् जीवितेच्छया ॥ 29 ॥

श्लोक 10.34.30

तम् अन्वधावद् गोविन्दो यत्र यत्र स धावति । जिहीर्षुस् तच्छिरोरत्नं तस्थौ रक्षन् स्त्रियो बलः ॥ 30 ॥

श्लोक 10.34.31

अविदूर इवाभ्येत्य शिरस् तस्य दुरात्मनः । जहार मुष्टिनैवाङ्ग सहचूडमणिं विभुः ॥ 31 ॥

श्लोक 10.34.32

शङ्खचूडं निहत्यैवं मणिम् आदाय भास्वरम् । अग्रजायाददात् प्रीत्या पश्यन्तीनां च योषिताम् ॥ 32 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ