मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 35

श्रीमद्भागवत दशम स्कन्ध अध्याय 35 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.35.1

गोप्यः कृष्णे वनं याते तम् अनुद्रुतचेतसः । कृष्णलीलाः प्रगायन्त्यो निन्युर् दुःखेन वासरान् ॥ 1 ॥

श्लोक 10.35.2

वामबाहुकृतवामकपोलो वल्गितभ्रुर् अधरार्पितवेणुम् । कोमलाङ्गुलिभिर् आश्रितमार्गं गोप्य ईरयति यत्र मुकुन्दः ॥ 2 ॥

श्लोक 10.35.3

व्योमयानवनिताः सह सिद्धैर् विस्मितास् तद् उपधार्य सलज्जाः । काममार्गणसमर्पितचित्ताः कश्मलं ययुर् अपस्मृतनीव्यः ॥ 3 ॥

श्लोक 10.35.4

हन्त चित्रम् अबलाः शृणुतेदं हारहास उरसि स्थिरविद्युत् । नन्दसूनुर् अयम् आर्तजनानां नर्मदो यर्हि कूजितवेणुः ॥ 4 ॥

श्लोक 10.35.5

वृन्दशो व्रजवृषा मृगगावो वेणुवाद्यहृतचेतस आरात् । दन्तदष्टकवला धृतकर्णा निद्रिता लिखितचित्रम् इवासन् ॥ 5 ॥

श्लोक 10.35.6

बर्हिणस्तबकधातुपलाशैर् बद्धमल्लपरिबर्हविडम्बः । कर्हिचित् सबल आलि स गोपैर् गाः समाह्वयति यत्र मुकुन्दः ॥ 6 ॥

श्लोक 10.35.7

तर्हि भग्नगतयः सरितो वै तत्पदाम्बुजरजो ऽनिलनीतम् । स्पृहयतीर् वयम् इवाबहुपुण्याः प्रेमवेपितभुजाः स्तिमितापः ॥ 7 ॥

श्लोक 10.35.8

अनुचरैः समनुवर्णितवीर्य आदिपूरुष इवाचलभूतिः । वनचरो गिरितटेषु चरन्तीर् वेणुनाह्वयति गाः स यदा हि ॥ 8 ॥

श्लोक 10.35.9

वनलतास् तरव आत्मनि विष्णुं व्यञ्जयन्त्य इव पुष्पफलाढ्याः । प्रणतभारविटपा मधुधाराः प्रेमहृष्टतनवो ववृषुः स्म ॥ 9 ॥

श्लोक 10.35.10

दर्शनीयतिलको वनमालादिव्यगन्धतुलसीमधुमत्तैः । अलिकुलैर् अलघु गीताम् अभीष्टम् आद्रियन् यर्हि सन्धितवेणुः ॥ 10 ॥

श्लोक 10.35.11

सरसि सारसहंसविहङ्गाश् चारुगीताहृतचेतस एत्य । हरिम् उपासत ते यतचित्ता हन्त मीलितदृशो धृतमौनाः ॥ 11 ॥

श्लोक 10.35.12

सहबलः स्रग्अवतंसविलासः सानुषु क्षितिभृतो व्रजदेव्यः । हर्षयन् यर्हि वेणुरवेण जातहर्ष उपरम्भति विश्वम् ॥ 12 ॥

श्लोक 10.35.13

महद्अतिक्रमणशङ्कितचेता मन्दमन्दम् अनुगर्जति मेघः । सुहृदम् अभ्यवर्षत् सुमनोभिश् छायया च विदधत् प्रतपत्रम् ॥ 13 ॥

श्लोक 10.35.14

विविधगोपचरणेषु विदग्धो वेणुवाद्य उरुधा निजशिक्षाः । तव सुतः सति यदाधरबिम्बे दत्तवेणुर् अनयत् स्वरजातीः ॥ 14 ॥

श्लोक 10.35.15

सवनशस् तद् उपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनतकन्धरचित्ताः कश्मलं ययुर् अनिश्चिततत्त्वाः ॥ 15 ॥

श्लोक 10.35.16

निजपदाब्जदलैर् ध्वजवज्र नीरजाङ्कुशविचित्रललामैः । व्रजभुवः शमयन् खुरतोदं वर्ष्मधुर्यगतिर् ईडितवेणुः ॥ 16 ॥

श्लोक 10.35.17

व्रजति तेन वयं सविलास वीक्षणार्पितमनोभववेगाः । कुजगतिं गमिता न विदामः कश्मलेन कवरं वसनं वा ॥ 17 ॥

श्लोक 10.35.18

मणिधरः क्वचिद् आगणयन् गा मालया दयितगन्धतुलस्याः । प्रणयिनो ऽनुचरस्य कदांसे प्रक्षिपन् भुजम् अगायत यत्र ॥ 18 ॥

श्लोक 10.35.19

क्वणितवेणुरववञ्चितचित्ताः कृष्णम् अन्वसत कृष्णगृहिण्यः । गुणगणार्णम् अनुगत्य हरिण्यो गोपिका इव विमुक्तगृहाशाः ॥ 19 ॥

श्लोक 10.35.20

कुन्ददामकृतकौतुकवेषो गोपगोधनवृतो यमुनायाम् । नन्दसूनुर् अनघे तव वत्सो नर्मदः प्रणयिणां विजहार ॥ 20 ॥

श्लोक 10.35.21

मन्दवायुर् उपवात्य् अनकूलं मानयन् मलयजस्पर्शेन । वन्दिनस् तम् उपदेवगणा ये वाद्यगीतबलिभिः परिवव्रुः ॥ 21 ॥

श्लोक 10.35.22

वत्सलो व्रजगवां यद् अगध्रो वन्द्यमानचरणः पथि वृद्धैः । कृत्स्नगोधनम् उपोह्य दिनान्ते गीतवेणुर् अनुगेडितकीर्तिः ॥ 22 ॥

श्लोक 10.35.23

उत्सवं श्रमरुचापि दृशीनाम् उन्नयन् खुररजश्छुरितस्रक् । दित्सयैति सुहृद्आसिष एष देवकीजठरभूर् उडुराजः ॥ 23 ॥

श्लोक 10.35.24

मदविघूर्णितलोचन ईषत् मानदः स्वसुहृदां वनमाली । बदरपाण्डुवदनो मृदुगण्डं मण्डयन् कनककुण्डललक्ष्म्या ॥ 24 ॥

श्लोक 10.35.25

यदुपतिर् द्विरदराजविहारो यामिनीपतिर् इवैष दिनान्ते । मुदितवक्त्र उपयाति दुरन्तं मोचयन् व्रजगवां दिनतापम् ॥ 25 ॥

श्लोक 10.35.26

एवं व्रजस्त्रियो राजन् कृष्णलीलानुगायतीः । रेमिरे ऽहःसु तच्चित्तास् तन्मनस्का महोदयाः ॥ 26 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ