मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 36

श्रीमद्भागवत दशम स्कन्ध अध्याय 36 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.36.1

अथ तर्ह्य् आगतो गोष्ठम् अरिष्टो वृषभासुरः । महीम् महाककुत्कायः कम्पयन् खुरविक्षताम् ॥ 1 ॥

श्लोक 10.36.2

रम्भमाणः खरतरं पदा च विलिखन् महीम् । उद्यम्य पुच्छं वप्राणि विषाणाग्रेण चोद्धरन् । किञ्चित् किञ्चिच् छकृन् मुञ्चन् मूत्रयन् स्तब्धलोचनः ॥ 2 ॥

श्लोक 10.36.3

यस्य निर्ह्रादितेनाङ्ग निष्ठुरेण गवां नृणाम् । पतन्त्य् अकालतो गर्भाः स्रवन्ति स्म भयेन वै ॥ 3 ॥

श्लोक 10.36.4

निर्विशन्ति घना यस्य ककुद्य् अचलशङ्कया । तं तीक्ष्णशृङ्गम् उद्वीक्ष्य गोप्यो गोपाश् च तत्रसुः ॥ 4 ॥

श्लोक 10.36.5

पशवो दुद्रुवुर् भीता राजन् सन्त्यज्य गोकुलम् । कृष्ण कृष्णेति ते सर्वे गोविन्दं शरणं ययुः ॥ 5 ॥

श्लोक 10.36.6

भगवान् अपि तद् वीक्ष्य गोकुलं भयविद्रुतम् । मा भैष्टेति गिराश्वास्य वृषासुरम् उपाह्वयत् ॥ 6 ॥

श्लोक 10.36.7

गोपालैः पशुभिर् मन्द त्रासितैः किम् असत्तम । मयि शास्तरि दुष्टानां त्वद्विधानां दुरात्मनाम् ॥ 7 ॥

श्लोक 10.36.8

इत्य् आस्फोत्याच्युतो ऽरिष्टं तलशब्देन कोपयन् । सख्युर् अंसे भुजाभोगं प्रसार्यावस्थितो हरिः ॥ 8 ॥

श्लोक 10.36.9

सो ऽप्य् एवं कोपितो ऽरिष्टः खुरेणावनिम् उल्लिखन् । उद्यत्पुच्छभ्रमन्मेघः क्रुद्धः कृष्णम् उपाद्रवत् ॥ 9 ॥

श्लोक 10.36.10

अग्रन्यस्तविषाणाग्रः स्तब्धासृग्लोचनो ऽच्युतम् । कटाक्षिप्याद्रवत् तूर्णम् इन्द्रमुक्तो ऽशनिर् यथा ॥ 10 ॥

श्लोक 10.36.11

गृहीत्वा शृङ्गयोस् तं वा अष्टादश पदानि सः । प्रत्यपोवाह भगवान् गजः प्रतिगजं यथा ॥ 11 ॥

श्लोक 10.36.12

सो ऽपविद्धो भगवता पुनर् उत्थाय सत्वरम् । आपतत् स्विन्नसर्वाङ्गो निःश्वसन् क्रोधमूर्च्छितः ॥ 12 ॥

श्लोक 10.36.13

तम् आपतन्तं स निगृह्य शृङ्गयोः पदा समाक्रम्य निपात्य भूतले । निष्पीडयाम् आस यथार्द्रम् अम्बरं कृत्वा विषाणेन जघान सो ऽपतत् ॥ 13 ॥

श्लोक 10.36.14

असृग् वमन् मूत्रशकृत् समुत्सृजन् क्षिपंश् च पादान् अनवस्थितेक्षणः । जगाम कृच्छ्रं निरृतेर् अथ क्षयं पुष्पैः किरन्तो हरिम् ईडिरे सुराः ॥ 14 ॥

श्लोक 10.36.15

एवं कुकुद्मिनं हत्वा स्तूयमानः द्विजातिभिः । विवेश गोष्ठं सबलो गोपीनां नयनोत्सवः ॥ 15 ॥

श्लोक 10.36.16

अरिष्टे निहते दैत्ये कृष्णेनाद्भुतकर्मणा । कंसायाथाह भगवान् नारदो देवदर्शनः ॥ 16 ॥

श्लोक 10.36.17

यशोदायाः सुतां कन्यां देवक्याः कृष्णम् एव च । रामं च रोहिणीपुत्रं वसुदेवेन बिभ्यता । न्यस्तौ स्वमित्रे नन्दे वै याभ्यां ते पुरुषा हताः ॥ 17 ॥

श्लोक 10.36.18

निशम्य तद् भोजपतिः कोपात् प्रचलितेन्द्रियः । निशातम् असिम् आदत्त वसुदेवजिघांसया ॥ 18 ॥

श्लोक 10.36.19

निवारितो नारदेन तत्सुतौ मृत्युम् आत्मनः । ज्ञात्वा लोहमयैः पाशैर् बबन्ध सह भार्यया ॥ 19 ॥

श्लोक 10.36.20

प्रतियाते तु देवर्षौ कंस आभाष्य केशिनम् । प्रेषयाम् आस हन्येतां भवता रामकेशवौ ॥ 20 ॥

श्लोक 10.36.21

ततो मुष्टिकचाणूर शलतोशलकादिकान् । अमात्यान् हस्तिपांश् चैव समाहूयाह भोजराट् ॥ 21 ॥

श्लोक 10.36.22

भो भो निशम्यताम् एतद् वीरचाणूरमुष्टिकौ । नन्दव्रजे किलासाते सुताव् आनकदुन्दुभेः ॥ 22 ॥

श्लोक 10.36.23

रामकृष्णौ ततो मह्यं मृत्युः किल निदर्शितः । भवद्भ्याम् इह सम्प्राप्तौ हन्येतां मल्ललीलया ॥ 23 ॥

श्लोक 10.36.24

मञ्चाः क्रियन्तां विविधा मल्लरङ्गपरिश्रिताः । पौरा जानपदाः सर्वे पश्यन्तु स्वैरसंयुगम् ॥ 24 ॥

श्लोक 10.36.25

महामात्र त्वया भद्र रङ्गद्वार्य् उपनीयताम् । द्विपः कुवलयापीडो जहि तेन ममाहितौ ॥ 25 ॥

श्लोक 10.36.26

आरभ्यतां धनुर्यागश् चतुर्दश्यां यथाविधि । विशसन्तु पशून् मेध्यान् भूतराजाय मीढुषे ॥ 26 ॥

श्लोक 10.36.27

इत्य् आज्ञाप्यार्थतन्त्रज्ञ आहूय यदुपुङ्गवम् । गृहीत्वा पाणिना पाणिं ततो ऽक्रूरम् उवाच ह ॥ 27 ॥

श्लोक 10.36.28

भो भो दानपते मह्यं क्रियतां मैत्रम् आदृतः । नान्यस् त्वत्तो हिततमो विद्यते भोजवृष्णिषु ॥ 28 ॥

श्लोक 10.36.29

अतस् त्वाम् आश्रितः सौम्य कार्यगौरवसाधनम् । यथेन्द्रो विष्णुम् आश्रित्य स्वार्थम् अध्यगमद् विभुः ॥ 29 ॥

श्लोक 10.36.30

गच्छ नन्दव्रजं तत्र सुताव् आनकदुन्दुभेः । आसाते ताव् इहानेन रथेनानय मा चिरम् ॥ 30 ॥

श्लोक 10.36.31

निसृष्टः किल मे मृत्युर् देवैर् वैकुण्ठसंश्रयैः । ताव् आनय समं गोपैर् नन्दाद्यैः साभ्युपायनैः ॥ 31 ॥

श्लोक 10.36.32

घातयिष्य इहानीतौ कालकल्पेन हस्तिना । यदि मुक्तौ ततो मल्लैर् घातये वैद्युतोपमैः ॥ 32 ॥

श्लोक 10.36.33

तयोर् निहतयोस् तप्तान् वसुदेवपुरोगमान् । तद्बन्धून् निहनिष्यामि वृष्णिभोजदशार्हकान् ॥ 33 ॥

श्लोक 10.36.34

उग्रसेनं च पितरं स्थविरं राज्यकामुकं । तद्भ्रातरं देवकं च ये चान्ये विद्विषो मम ॥ 34 ॥

श्लोक 10.36.35

ततश् चैषा मही मित्र भवित्री नष्टकण्टका । जरासन्धो मम गुरुर् द्विविदो दयितः सखा ॥ 35 ॥

श्लोक 10.36.36

शम्बरो नरको बाणो मय्य् एव कृतसौहृदाः । तैर् अहं सुरपक्षीयान् हत्वा भोक्ष्ये महीं नृपान् ॥ 36 ॥

श्लोक 10.36.37

एतज् ज्ञात्वानय क्षिप्रं रामकृष्णाव् इहार्भकौ । धनुर्मखनिरीक्षार्थं द्रष्टुं यदुपुरश्रियम् ॥ 37 ॥

श्लोक 10.36.38

राजन् मनीषितं सध्र्यक् तव स्वावद्यमार्जनम् । सिद्ध्य्असिद्ध्योः समं कुर्याद् दैवं हि फलसाधनम् ॥ 38 ॥

श्लोक 10.36.39

मनोरथान् करोत्य् उच्चैर् जनो दैवहतान् अपि । युज्यते हर्षशोकाभ्यां तथाप्य् आज्ञां करोमि ते ॥ 39 ॥

श्लोक 10.36.40

एवम् आदिश्य चाक्रूरं मन्त्रिणश् च विषृज्य सः । प्रविवेश गृहं कंसस् तथाक्रूरः स्वम् आलयम् ॥ 40 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ