मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 37

श्रीमद्भागवत दशम स्कन्ध अध्याय 37 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.37.1

केशी तु कंसप्रहितः खुरैर् महीं महाहयो निर्जरयन् मनोजवः । सटावधूताभ्रविमानसङ्कुलं कुर्वन् नभो हेषितभीषिताखिलः ॥ 1 ॥

श्लोक 10.37.2

तं त्रासयन्तं भगवान् स्वगोकुलं तद्धेषितैर् वालविघूर्णिताम्बुदम् । आत्मानम् आजौ मृगयन्तम् अग्रणीर् उपाह्वयत् स व्यनदन् मृगेन्द्रवत् ॥ 2 ॥

श्लोक 10.37.3

स तं निशाम्याभिमुखो मखेन खं पिबन्न् इवाभ्यद्रवद् अत्य्अमर्षणः । जघान पद्भ्याम् अरविन्दलोचनं दुरासदश् चण्डजवो दुरत्ययः ॥ 3 ॥

श्लोक 10.37.4

तद् वञ्चयित्वा तम् अधोक्षजो रुषा प्रगृह्य दोर्भ्यां परिविध्य पादयोः । सावज्ञम् उत्सृज्य धनुःशतान्तरे यथोरगं तार्क्ष्यसुतो व्यवस्थितः ॥ 4 ॥

श्लोक 10.37.5

सः लब्धसंज्ञः पुनर् उत्थितो रुषा व्यादाय केशी तरसापतद् धरिम् &अम्प्; सो ऽप्य् अस्य वक्त्रे भुजम् उत्तरं स्मयन् प्रवेशयाम् आस यथोरगं बिले ॥ 5 ॥

श्लोक 10.37.6

दन्ता निपेतुर् भगवद्भुजस्पृशस् ते केशिनस् तप्तमयस्पृशो यथा । बाहुश् च तद्देहगतो महात्मनो यथामयः संववृधे उपेक्षितः ॥ 6 ॥

श्लोक 10.37.7

समेधमानेन स कृष्णबाहुना निरुद्धवायुश् चरणांश् च विक्षिपन् । प्रस्विन्नगात्रः परिवृत्तलोचनः पपात लण्डं विसृजन् क्षितौ व्यसुः ॥ 7 ॥

श्लोक 10.37.8

तद्देहतः कर्कटिकाफलोपमाद् व्यसोर् अपाकृष्य भुजं महाभुजः । अविस्मितो ऽयत्नहतारिकः सुरैः प्रसूनवर्षैर् वर्षद्भिर् ईडितः ॥ 8 ॥

श्लोक 10.37.9

देवर्षिर् उपसङ्गम्य भागवतप्रवरो नृप । कृष्णम् अक्लिष्टकर्माणं रहस्य् एतद् अभाषत ॥ 9 ॥

श्लोक 10.37.10

कृष्ण कृष्णाप्रमेयात्मन् योगेश जगद्ईश्वर । वासुदेवाखिलावास सात्वतां प्रवर प्रभो ॥ 10 ॥

श्लोक 10.37.11

त्वम् आत्मा सर्वभूतानाम् एको ज्योतिर् इवैधसाम् । गूढो गुहाशयः साक्षी महापुरुष ईश्वरः ॥ 11 ॥

श्लोक 10.37.12

आत्मनात्माश्रयः पूर्वं मायया ससृजे गुणान् । तैर् इदं सत्यसङ्कल्पः सृजस्य् अत्स्य् अवसीश्वरः ॥ 12 ॥

श्लोक 10.37.13

स त्वं भूधरभूतानां दैत्यप्रमथरक्षसाम् । अवतीर्णो विनाशाय साधुनां रक्षणाय च ॥ 13 ॥

श्लोक 10.37.14

दिष्ट्या ते निहतो दैत्यो लीलयायं हयाकृतिः । यस्य हेषितसन्त्रस्तास् त्यजन्त्य् अनिमिषा दिवम् ॥ 14 ॥

श्लोक 10.37.15

चाणूरं मुष्टिकं चैव मल्लान् अन्यांश् च हस्तिनम् । कंसं च निहतं द्रक्ष्ये परश्वो ऽहनि ते विभो ॥ 15 ॥

श्लोक 10.37.16

तस्यानु शङ्खयवनमुराणां नरकस्य च । पारिजातापहरणम् इन्द्रस्य च पराजयम् ॥ 16 ॥

श्लोक 10.37.17

उद्वाहं वीरकन्यानां वीर्यशुल्कादिलक्षणम् । नृगस्य मोक्षणं शापाद् द्वारकायां जगत्पते ॥ 17 ॥

श्लोक 10.37.18

स्यमन्तकस्य च मणेर् आदानं सह भार्यया । मृतपुत्रप्रदानं च ब्राह्मणस्य स्वधामतः ॥ 18 ॥

श्लोक 10.37.19

पौण्ड्रकस्य वधं पश्चात् काशिपुर्याश् च दीपनम् । दन्तवक्रस्य निधनं चैद्यस्य च महाक्रतौ ॥ 19 ॥

श्लोक 10.37.20

यानि चान्यानि वीर्याणि द्वारकाम् आवसन् भवान् । कर्ता द्रक्ष्याम्य् अहं तानि गेयानि कविभिर् भुवि ॥ 20 ॥

श्लोक 10.37.21

अथ ते कालरूपस्य क्षपयिष्णोर् अमुष्य वै । अक्षौहिणीनां निधनं द्रक्ष्याम्य् अर्जुनसारथेः ॥ 21 ॥

श्लोक 10.37.22

विशुद्धविज्ञानघनं स्वसंस्थया समाप्तसर्वार्थम् अमोघवाञ्छितम् &अम्प्; स्वतेजसा नित्यनिवृत्तमायागुणप्रवाहं भगवन्तम् ईमहि ॥ 22 ॥

श्लोक 10.37.23

त्वाम् ईश्वरं स्वाश्रयम् आत्ममायया विनिर्मिताशेषविशेषकल्पनम् । क्रीडार्थम् अद्यात्तमनुष्यविग्रहं नतो ऽस्मि धुर्यं यदुवृष्णिसात्वताम् ॥ 23 ॥

श्लोक 10.37.24

एवं यदुपतिं कृष्णं भागवतप्रवरो मुनिः । प्रणिपत्याभ्यनुज्ञातो ययौ तद्दर्शनोत्सवः ॥ 24 ॥

श्लोक 10.37.25

भगवान् अपि गोविन्दो हत्वा केशिनम् आहवे । पशून् अपालयत् पालैः प्रीतैर् व्रजसुखावहः ॥ 25 ॥

श्लोक 10.37.26

एकदा ते पशून् पालाश् चारयन्तो ऽद्रिसानुषु । चक्रुर् निलायनक्रीडाश् चोरपालापदेशतः ॥ 26 ॥

श्लोक 10.37.27

तत्रासन् कतिचिच् चोराः पालाश् च कतिचिन् नृप । मेषायिताश् च तत्रैके विजह्रुर् अकुतोभयाः ॥ 27 ॥

श्लोक 10.37.28

मयपुत्रो महामायो व्योमो गोपालवेषधृक् । मेषायितान् अपोवाह प्रायश् चोरायितो बहून् ॥ 28 ॥

श्लोक 10.37.29

गिरिदर्यां विनिक्षिप्य नीतं नीतं महासुरः । शिलया पिदधे द्वारं चतुःपञ्चावशेषिताः ॥ 29 ॥

श्लोक 10.37.30

तस्य तत् कर्म विज्ञाय कृष्णः शरणदः सताम् । गोपान् नयन्तं जग्राह वृकं हरिर् इवौजसा ॥ 30 ॥

श्लोक 10.37.31

स निजं रूपम् आस्थाय गिरीन्द्रसदृशं बली । इच्छन् विमोक्तुम् आत्मानं नाशक्नोद् ग्रहणातुरः ॥ 31 ॥

श्लोक 10.37.32

तं निगृह्याच्युतो दोर्भ्यां पातयित्वा महीतले । पश्यतां दिवि देवानां पशुमारम् अमारयत् ॥ 32 ॥

श्लोक 10.37.33

गुहापिधानं निर्भिद्य गोपान् निःसार्य कृच्छ्रतः । स्तूयमानः सुरैर् गोपैः प्रविवेश स्वगोकुलम् ॥ 33 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ