श्रीमद्भागवत दशम स्कन्ध अध्याय 38
श्रीमद्भागवत दशम स्कन्ध अध्याय 38 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.38.1
अक्रूरो ऽपि च तां रात्रिं मधुपुर्यां महामतिः । उषित्वा रथम् आस्थाय प्रययौ नन्दगोकुलम् ॥ 1 ॥
श्लोक 10.38.2
गच्छन् पथि महाभागो भगवत्य् अम्बुजेक्षणे । भक्तिं पराम् उपगत एवम् एतद् अचिन्तयत् ॥ 2 ॥
श्लोक 10.38.3
किं मयाचरितं भद्रं किं तप्तं परमं तपः । किं वाथाप्य् अर्हते दत्तं यद् द्रक्ष्याम्य् अद्य केशवम् ॥ 3 ॥
श्लोक 10.38.4
ममैतद् दुर्लभं मन्य उत्तमःश्लोकदर्शनम् । विषयात्मनो यथा ब्रह्मकीर्तनं शूद्रजन्मनः ॥ 4 ॥
श्लोक 10.38.5
मैवं ममाधमस्यापि स्याद् एवाच्युतदर्शनम् । ह्रियमाणः कलनद्या क्वचित् तरति कश्चन ॥ 5 ॥
श्लोक 10.38.6
ममाद्यामङ्गलं नष्टं फलवांश् चैव मे भवः । यन् नमस्ये भगवतो योगिध्येयान्घ्रिपङ्कजम् ॥ 6 ॥
श्लोक 10.38.7
कंसो बताद्याकृत मे ऽत्य्अनुग्रहं द्रक्ष्ये ऽङ्घ्रिपद्मं प्रहितो ऽमुना हरेः । कृतावतारस्य दुरत्ययं तमः पूर्वे ऽतरन् यन्नखमण्डलत्विषा ॥ 7 ॥
श्लोक 10.38.8
यद् अर्चितं ब्रह्मभवादिभिः सुरैः श्रिया च देव्या मुनिभिः ससात्वतैः &अम्प्; गोचारणायानुचरैश् चरद् वने यद् गोपिकानां कुचकुङ्कुमाङ्कितम् ॥ 8 ॥
श्लोक 10.38.9
द्रक्ष्यामि नूनं सुकपोलनासिकं स्मितावलोकारुणकञ्जलोचनम् । मुखं मुकुन्दस्य गुडालकावृतं प्रदक्षिणं मे प्रचरन्ति वै मृगाः ॥ 9 ॥
श्लोक 10.38.10
अप्य् अद्य विष्णोर् मनुजत्वम् ईयुषो भारावताराय भुवो निजेच्छया । लावण्यधाम्नो भवितोपलम्भनं मह्यं न न स्यात् फलम् अञ्जसा दृशः ॥ 10 ॥
श्लोक 10.38.11
य ईक्षिताहंरहितो ऽप्य् असत्सतोः स्वतेजसापास्ततमोभिदाभ्रमः । स्वमाययात्मन् रचितैस् तद्ईक्षया प्राणाक्षधीभिः सदनेष्व् अभीयते ॥ 11 ॥
श्लोक 10.38.12
यस्याखिलामीवहभिः सुमङ्गलैः वाचो विमिश्रा गुणकर्मजन्मभिः । प्राणन्ति शुम्भन्ति पुनन्ति वै जगत् यास् तद्विरक्ताः शवशोभना मताः ॥ 12 ॥
श्लोक 10.38.13
स चावतीर्णः किल सत्वतान्वये स्वसेतुपालामरवर्यशर्मकृत् । यशो वितन्वन् व्रज आस्त ईश्वरो गायन्ति देवा यद् अशेषमङ्गलम् ॥ 13 ॥
श्लोक 10.38.14
तं त्व् अद्य नूनं महतां गतिं गुरुं त्रैलोक्यकान्तं दृशिमन्महोत्सवम् &अम्प्; रूपं दधानं श्रिय ईप्सितास्पदं द्रक्ष्ये ममासन्न् उषसः सुदर्शनाः ॥ 14 ॥
श्लोक 10.38.15
अथावरूढः सपदीशयो रथात् प्रधानपुंसोश् चरणं स्वलब्धये । धिया धृतं योगिभिर् अप्य् अहं ध्रुवं नमस्य आभ्यां च सखीन् वनौकसः ॥ 15 ॥
श्लोक 10.38.16
अप्य् अङ्घ्रिमूले पतितस्य मे विभुः शिरस्य् अधास्यन् निजहस्तपङ्कजम् &अम्प्; दत्ताभयं कालभुजाङ्गरंहसा प्रोद्वेजितानां शरणैषिणां णृनाम् ॥ 16 ॥
श्लोक 10.38.17
समर्हणं यत्र निधाय कौशिकस् तथा बलिश् चाप जगत्त्रयेन्द्रताम् । यद् वा विहारे व्रजयोषितां श्रमं स्पर्शेन सौगन्धिकगन्ध्य् अपानुदत् ॥ 17 ॥
श्लोक 10.38.18
न मय्य् उपैष्यत्य् अरिबुद्धिम् अच्युतः कंसस्य दूतः प्रहितो ऽपि विश्वदृक् &अम्प्; यो ऽन्तर् बहिश् चेतस एतद् ईहितं क्षेत्रज्ञ ईक्षत्य् अमलेन चक्षुषा ॥ 18 ॥
श्लोक 10.38.19
अप्य् अङ्घ्रिमूले ऽवहितं कृताञ्जलिं माम् ईक्षिता सस्मितम् आर्द्रया दृशा । सपद्य् अपध्वस्तसमस्तकिल्बिषो वोढा मुदं वीतविशङ्क ऊर्जिताम् ॥ 19 ॥
श्लोक 10.38.20
सुहृत्तमं ज्ञातिम् अनन्यदैवतं दोर्भ्यां बृहद्भ्यां परिरप्स्यते ऽथ माम् । आत्मा हि तीर्थीक्रियते तदैव मे बन्धश् च कर्मात्मक उच्छ्वसित्य् अतः ॥ 20 ॥
श्लोक 10.38.21
लब्ध्वाङ्गसङ्गम् प्रणतम् कृताञ्जलिं मां वक्ष्यते ऽक्रूर ततेत्य् उरुश्रवाः &अम्प्; तदा वयं जन्मभृतो महीयसा नैवादृतो यो धिग् अमुष्य जन्म तत् ॥ 21 ॥
श्लोक 10.38.22
न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा । तथापि भक्तान् भजते यथा तथा सुरद्रुमो यद्वद् उपाश्रितो ऽर्थदः ॥ 22 ॥
श्लोक 10.38.23
किं चाग्रजो मावनतं यदूत्तमः स्मयन् परिष्वज्य गृहीतम् अञ्जलौ । गृहं प्रवेष्याप्तसमस्तसत्कृतं सम्प्रक्ष्यते कंसकृतं स्वबन्धुषु ॥ 23 ॥
श्लोक 10.38.24
इति सञ्चिन्तयन् कृष्णं श्वफल्कतनयो ऽध्वनि । रथेन गोकुलं प्राप्तः सूर्यश् चास्तगिरिं नृप ॥ 24 ॥
श्लोक 10.38.25
पदानि तस्याखिललोकपालकिरीटजुष्टामलपादरेणोः । ददर्श गोष्ठे क्षितिकौतुकानि विलक्षितान्य् अब्जयवाङ्कुशाद्यैः ॥ 25 ॥
श्लोक 10.38.26
तद्दर्शनाह्लादविवृद्धसम्भ्रमः प्रेम्णोर्ध्वरोमाश्रुकलाकुलेक्षणः &अम्प्; रथाद् अवस्कन्द्य स तेष्व् अचेष्टत प्रभोर् अमून्य् अङ्घ्रिरजांस्य् अहो इति ॥ 26 ॥
श्लोक 10.38.27
देहंभृताम् इयान् अर्थो हित्वा दम्भं भियं शुचम् । सन्देशाद् यो हरेर् लिङ्गदर्शनश्रवणादिभिः ॥ 27 ॥
श्लोक 10.38.28
ददर्श कृष्णं रामं च व्रजे गोदोहनं गतौ । पीतनीलाम्बरधरौ शरद्अम्बुरहेक्षणौ ॥ 28 ॥
श्लोक 10.38.29
किशोरौ श्यामलश्वेतौ श्रीनिकेतौ बृहद्भुजौ । सुमुखौ सुन्दरवरौ बलद्विरदविक्रमौ ॥ 29 ॥
श्लोक 10.38.30
ध्वजवज्राङ्कुशाम्भोजैश् चिह्नितैर् अङ्घ्रिभिर् व्रजम् । शोभयन्तौ महात्मानौ सानुक्रोशस्मितेक्षणौ ॥ 30 ॥
श्लोक 10.38.31
उदाररुचिरक्रीडौ स्रग्विणौ वनमालिनौ । पुण्यगन्धानुलिप्ताङ्गौ स्नातौ विरजवाससौ ॥ 31 ॥
श्लोक 10.38.32
प्रधानपुरुषाव् आद्यौ जगद्धेतू जगत्पती । अवतीर्णौ जगत्य्अर्थे स्वांशेन बलकेशवौ ॥ 32 ॥
श्लोक 10.38.33
दिशो वितिमिरा राजन् कुर्वाणौ प्रभया स्वया । यथा मारकतः शैलो रौप्यश् च कनकाचितौ ॥ 33 ॥
श्लोक 10.38.34
रथात् तूर्णम् अवप्लुत्य सो ऽक्रूरः स्नेहविह्वलः । पपात चरणोपान्ते दण्डवद् रामकृष्णयोः ॥ 34 ॥
श्लोक 10.38.35
भगवद्दर्शनाह्लादबाष्पपर्याकुलेक्षणः । पुलकचिताङ्ग औत्कण्ठ्यात् स्वाख्याने नाशकन् नृप ॥ 35 ॥
श्लोक 10.38.36
भगवांस् तम् अभिप्रेत्य रथाङ्गाङ्कितपाणिना । परिरेभे ऽभ्युपाकृष्य प्रीतः प्रणतवत्सलः ॥ 36 ॥
श्लोक 10.38.37
सङ्कर्षणश् च प्रणतम् उपगुह्य महामनाः । गृहीत्वा पाणिना पाणी अनयत् सानुजो गृहम् ॥ 37 ॥
श्लोक 10.38.38
पृष्ट्वाथ स्व्आगतं तस्मै निवेद्य च वरासनम् । प्रक्षाल्य विधिवत् पादौ मधुपर्कार्हणम् आहरत् ॥ 38 ॥
श्लोक 10.38.39
निवेद्य गां चातिथये संवाह्य श्रान्तम् आडृतः । अन्नं बहुगुणं मेध्यं श्रद्धयोपाहरद् विभुः ॥ 39 ॥
श्लोक 10.38.40
तस्मै भुक्तवते प्रीत्या रामः परमधर्मवित् । मखवासैर् गन्धमाल्यैः परां प्रीतिं व्यधात् पुनः ॥ 40 ॥
श्लोक 10.38.41
पप्रच्छ सत्कृतं नन्दः कथं स्थ निरनुग्रहे । कंसे जीवति दाशार्ह सौनपाला इवावयः ॥ 41 ॥
श्लोक 10.38.42
यो ऽवधीत् स्वस्वसुस् तोकान् क्रोशन्त्या असुतृप् खलः । किं नु स्वित् तत्प्रजानां वः कुशलं विमृशामहे ॥ 42 ॥
श्लोक 10.38.43
इत्थं सूनृतया वाचा नन्देन सुसभाजितः । अक्रूरः परिपृष्टेन जहाव् अध्वपरिश्रमम् ॥ 43 ॥