मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 39

श्रीमद्भागवत दशम स्कन्ध अध्याय 39 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.39.1

सुखोपविष्टः पर्यङ्के रमकृष्णोरुमानितः । लेभे मनोरथान् सर्वान् पथि यान् स चकार ह ॥ 1 ॥

श्लोक 10.39.2

किम् अलभ्यं भगवति प्रसन्ने श्रीनिकेतने । तथापि तत्परा राजन् न हि वाञ्छन्ति किञ्चन ॥ 2 ॥

श्लोक 10.39.3

सायन्तनाशनं कृत्वा भगवान् देवकीसुतः । सुहृत्सु वृत्तं कंसस्य पप्रच्छान्यच् चिकीर्षितम् ॥ 3 ॥

श्लोक 10.39.4

तात सौम्यागतः कच्चित् स्व्आगतं भद्रम् अस्तु वः । अपि स्वज्ञातिबन्धूनाम् अनमीवम् अनामयम् ॥ 4 ॥

श्लोक 10.39.5

किं नु नः कुशलं पृच्छे एधमाने कुलामये । कंसे मातुलनाम्नाङ्ग स्वानां नस् तत्प्रजासु च ॥ 5 ॥

श्लोक 10.39.6

अहो अस्मद् अभूद् भूरि पित्रोर् वृजिनम् आर्ययोः । यद्धेतोः पुत्रमरणं यद्धेतोर् बन्धनं तयोः ॥ 6 ॥

श्लोक 10.39.7

दिष्ट्याद्य दर्शनं स्वानां मह्यं वः सौम्य काङ्क्षितम् । सञ्जातं वर्ण्यतां तात तवागमनकारणम् ॥ 7 ॥

श्लोक 10.39.8

पृष्टो भगवता सर्वं वर्णयाम् आस माधवः । वैरानुबन्धं यदुषु वसुदेववधोद्यमम् ॥ 8 ॥

श्लोक 10.39.9

यत्सन्देशो यद्अर्थं वा दूतः सम्प्रेषितः स्वयम् । यद् उक्तं नारदेनास्य स्वजन्मानकदुन्दुभेः ॥ 9 ॥

श्लोक 10.39.10

श्रुत्वाक्रूरवचः कृष्णो बलश् च परवीरहा । प्रहस्य नन्दं पितरं राज्ञा दिष्टं विजज्ञतुः ॥ 10 ॥

श्लोक 10.39.11

गोपान् समादिशत् सो ऽपि गृह्यतां सर्वगोरसः । उपायनानि गृह्णीध्वं युज्यन्तां शकटानि च ॥ 11 ॥

श्लोक 10.39.12

यास्यामः श्वो मधुपुरीं दास्यामो नृपते रसान् । द्रक्ष्यामः सुमहत् पर्व यान्ति जानपदाः किल । एवम् आघोषयत् क्षत्रा नन्दगोपः स्वगोकुले ॥ 12 ॥

श्लोक 10.39.13

गोप्यस् तास् तद् उपश्रुत्य बभूवुर् व्यथिता भृशम् । रामकृष्णौ पुरीं नेतुम् अक्रूरं व्रजम् आगतम् ॥ 13 ॥

श्लोक 10.39.14

काश्चित् तत्कृतहृत्ताप श्वासम्लानमुखश्रियः । स्रंसद्दुकूलवलय केशग्रन्थ्यश् च काश्चन ॥ 14 ॥

श्लोक 10.39.15

अन्याश् च तद्अनुध्यान निवृत्ताशेषवृत्तयः । नाभ्यजानन्न् इमं लोकम् आत्मलोकं गता इव ॥ 15 ॥

श्लोक 10.39.16

स्मरन्त्यश् चापराः शौरेर् अनुरागस्मितेरिताः । हृदिस्पृशश् चित्रपदा गिरः सम्मुमुहुः स्त्रियः ॥ 16 ॥

श्लोक 10.39.17

गतिं सुललितां चेष्टां स्निग्धहासावलोकनम् । शोकापहानि नर्माणि प्रोद्दामचरितानि च ॥ 17 ॥

श्लोक 10.39.18

चिन्तयन्त्यो मुकुन्दस्य भीता विरहकातराः । समेताः सङ्घशः प्रोचुर् अश्रुमुख्यो ऽच्युताशयाः ॥ 18 ॥

श्लोक 10.39.19

अहो विधातस् तव न क्वचिद् दया संयोज्य मैत्र्या प्रणयेन देहिनः । तांश् चाकृतार्थान् वियुनङ्क्ष्य् अपार्थकं विक्रीडितं ते ऽर्भकचेष्टितं यथा ॥ 19 ॥

श्लोक 10.39.20

यस् त्वं प्रदर्श्यासितकुन्तलावृतं मुकुन्दवक्त्रं सुकपोलम् उन्नसम् &अम्प्; शोकापनोदस्मितलेशसुन्दरं करोषि पारोक्ष्यम् असाधु ते कृतम् ॥ 20 ॥

श्लोक 10.39.21

क्रूरस् त्वम् अक्रूरसमाख्यया स्म नश् चक्षुर् हि दत्तं हरसे बताज्ञवत् । येनैकदेशे ऽखिलसर्गसौष्ठवं त्वदीयम् अद्राक्ष्म वयं मधुद्विषः ॥ 21 ॥

श्लोक 10.39.22

न नन्दसूनुः क्षणभङ्गसौहृदः समीक्षते नः स्वकृतातुरा बत । विहाय गेहान् स्वजनान् सुतान् पतींस् तद्दास्यम् अद्धोपगता नवप्रियः ॥ 22 ॥

श्लोक 10.39.23

सुखं प्रभाता रजनीयम् आशिषः सत्या बभूवुः पुरयोषितां ध्रुवम् । याः संप्रविष्टस्य मुखं व्रजस्पतेः पास्यन्त्य् अपाङ्गोत्कलितस्मितासवम् ॥ 23 ॥

श्लोक 10.39.24

तासां मुकुन्दो मधुमञ्जुभाषितैर् गृहीतचित्तः परवान् मनस्व्य् अपि &अम्प्; कथं पुनर् नः प्रतियास्यते ऽबला ग्राम्याः सलज्जस्मितविभ्रमैर् भ्रमन् ॥ 24 ॥

श्लोक 10.39.25

अद्य ध्रुवं तत्र दृशो भविष्यते दाशार्हभोजान्धकवृष्णिसात्वताम् । महोत्सवः श्रीरमणं गुणास्पदं द्रक्ष्यन्ति ये चाध्वनि देवकीसुतम् ॥ 25 ॥

श्लोक 10.39.26

मैतद्विधस्याकरुणस्य नाम भूद् अक्रूर इत्य् एतद् अतीव दारुणः । यो ऽसाव् अनाश्वास्य सुदुःखितम् जनं प्रियात् प्रियं नेष्यति पारम् अध्वनः ॥ 26 ॥

श्लोक 10.39.27

अनार्द्रधीर् एष समास्थितो रथं तम् अन्व् अमी च त्वरयन्ति दुर्मदाः । गोपा अनोभिः स्थविरैर् उपेक्षितं दैवं च नो ऽद्य प्रतिकूलम् ईहते ॥ 27 ॥

श्लोक 10.39.28

निवारयामः समुपेत्य माधवं किं नो ऽकरिष्यन् कुलवृद्धबान्धवाः । मुकुन्दसङ्गान् निमिषार्धदुस्त्यजाद् दैवेन विध्वंसितदीनचेतसाम् ॥ 28 ॥

श्लोक 10.39.29

यस्यानुरागललितस्मितवल्गुमन्त्र लीलावलोकपरिरम्भणरासगोष्ठाम् &अम्प्; नीताः स्म नः क्षणम् इव क्षणदा विना तं गोप्यः कथं न्व् अतितरेम तमो दुरन्तम् ॥ 29 ॥

श्लोक 10.39.30

यो ऽह्नः क्षये व्रजम् अनन्तसखः परीतो गोपैर् विशन् खुररजश्छुरितालकस्रक् । वेणुं क्वणन् स्मितकताक्षनिरीक्षणेन चित्तं क्षिणोत्य् अमुम् ऋते नु कथं भवेम ॥ 30 ॥

श्लोक 10.39.31

एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रियः कृष्णविषक्तमानसाः । विसृज्य लज्जां रुरुदुः स्म सुस्वरं गोविन्द दामोदर माधवेति ॥ 31 ॥

श्लोक 10.39.32

स्त्रीणाम् एवं रुदन्तीनाम् उदिते सवितर्य् अथ । अक्रूरश् चोदयाम् आस कृतमैत्रादिको रथम् ॥ 32 ॥

श्लोक 10.39.33

गोपास् तम् अन्वसज्जन्त नन्दाद्याः शकटैस् ततः । आदायोपायनं भूरि कुम्भान् गोरससम्भृतान् ॥ 33 ॥

श्लोक 10.39.34

गोप्यश् च दयितं कृष्णम् अनुव्रज्यानुरञ्जिताः । प्रत्यादेशं भगवतः काङ्क्षन्त्यश् चावतस्थिरे ॥ 34 ॥

श्लोक 10.39.35

तास् तथा तप्यतीर् वीक्ष्य स्वप्रस्थाणे यदूत्तमः । सान्त्वयाम् अस सप्रेमैर् आयास्य इति दौत्यकैः ॥ 35 ॥

श्लोक 10.39.36

यावद् आलक्ष्यते केतुर् यावद् रेणू रथस्य च । अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः ॥ 36 ॥

श्लोक 10.39.37

ता निराशा निववृतुर् गोविन्दविनिवर्तने । विशोका अहनी निन्युर् गायन्त्यः प्रियचेष्टितम् ॥ 37 ॥

श्लोक 10.39.38

भगवान् अपि सम्प्राप्तो रामाक्रूरयुतो नृप । रथेन वायुवेगेन कालिन्दीम् अघनाशिनीम् ॥ 38 ॥

श्लोक 10.39.39

तत्रोपस्पृश्य पानीयं पीत्वा मृष्टं मणिप्रभम् । वृक्षषण्डम् उपव्रज्य सरामो रथम् आविशत् ॥ 39 ॥

श्लोक 10.39.40

अक्रूरस् ताव् उपामन्त्र्य निवेश्य च रथोपरि । कालिन्द्या ह्रदम् आगत्य स्नानं विधिवद् आचरत् ॥ 40 ॥

श्लोक 10.39.41

निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् । ताव् एव ददृशे ऽक्रूरो रामकृष्णौ समन्वितौ ॥ 41 ॥

श्लोक 10.39.42

तौ रथस्थौ कथम् इह सुताव् आनकदुन्दुभेः । तर्हि स्वित् स्यन्दने न स्त इत्य् उन्मज्ज्य व्यचष्ट सः ॥ 42 ॥

श्लोक 10.39.43

तत्रापि च यथापूर्वम् आसीनौ पुनर् एव सः । न्यमज्जद् दर्शनं यन् मे मृषा किं सलिले तयोः ॥ 43 ॥

श्लोक 10.39.44

भूयस् तत्रापि सो ऽद्राक्षीत् स्तूयमानम् अहीश्वरम् । सिद्धचारणगन्धर्वैर् असुरैर् नतकन्धरैः ॥ 44 ॥

श्लोक 10.39.45

सहस्रशिरसं देवं सहस्रफणमौलिनम् । नीलाम्बरं विसश्वेतं शृङ्गैः श्वेतम् इव स्थितम् ॥ 45 ॥

श्लोक 10.39.46

तस्योत्सङ्गे घनस्यामं पीतकौशेयवाससम् । पुरुषं चतुर्भुजं शान्तम् पद्मपत्रारुणेक्षणम् ॥ 46 ॥

श्लोक 10.39.47

चारुप्रसन्नवदनं चारुहासनिरीक्षणम् । सुभ्रून्नसं चरुकर्णं सुकपोलारुणाधरम् ॥ 47 ॥

श्लोक 10.39.48

प्रलम्बपीवरभुजं तुङ्गांसोरःस्थलश्रियम् । कम्बुकण्ठं निम्ननाभिं वलिमत्पल्लवोदरम् ॥ 48 ॥

श्लोक 10.39.49

बृहत्कतिततश्रोणि करभोरुद्वयान्वितम् । चारुजानुयुगं चारु जङ्घायुगलसंयुतम् ॥ 49 ॥

श्लोक 10.39.50

तुङ्गगुल्फारुणनख व्रातदीधितिभिर् वृतम् । नवाङ्गुल्य्अङ्गुष्ठदलैर् विलसत्पादपङ्कजम् ॥ 50 ॥

श्लोक 10.39.51

सुमहार्हमणिव्रात किरीटकटकाङ्गदैः । कटिसूत्रब्रह्मसूत्र हारनूपुरकुण्डलैः ॥ 51 ॥

श्लोक 10.39.52

भ्राजमानं पद्मकरं शङ्खचक्रगदाधरम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभं वनमालिनम् ॥ 52 ॥

श्लोक 10.39.53

सुनन्दनन्दप्रमुखैः पर्षदैः सनकादिभिः । सुरेशैर् ब्रह्मरुद्राद्यैर् नवभिश् च द्विजोत्तमैः ॥ 53 ॥

श्लोक 10.39.54

प्रह्रादनारदवसु प्रमुखैर् भागवतोत्तमैः । स्तूयमानं पृथग्भावैर् वचोभिर् अमलात्मभिः ॥ 54 ॥

श्लोक 10.39.55

श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर्जया । विद्ययाविद्यया शक्त्या मायया च निषेवितम् ॥ 55 ॥

श्लोक 10.39.56

विलोक्य सुभृशं प्रीतो भक्त्या परमया युतः । हृष्यत्तनूरुहो भावपरिक्लिन्नात्मलोचनः ॥ 56 ॥

श्लोक 10.39.57

गिरा गद्गदयास्तौषीत् सत्त्वम् आलम्ब्य सात्वतः । प्रणम्य मूर्ध्नावहितः कृताञ्जलिपुटः शनैः ॥ 57 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ