मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 40

श्रीमद्भागवत दशम स्कन्ध अध्याय 40 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.40.1

नतो ऽस्म्य् अहं त्वाखिलहेतुहेतुं नारायणं पूरुषम् आद्यम् अव्ययम् । यन्नाभिजाताद् अरविन्दकोषाद् ब्रह्माविरासीद् यत एष लोकः ॥ 1 ॥

श्लोक 10.40.2

भूस् तोयम् अग्निः पवनं खम् आदिर् महान् अजादिर् मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश् च सर्वे ये हेतवस् ते जगतो ऽङ्गभूताः ॥ 2 ॥

श्लोक 10.40.3

नैते स्वरूपं विदुर् आत्मनस् ते ह्य् अजादयो ऽनात्मतया गृहीतः । अजो ऽनुबद्धः स गुणैर् अजाया गुणात् परं वेद न ते स्वरूपम् ॥ 3 ॥

श्लोक 10.40.4

त्वां योगिनो यजन्त्य् अद्धा महापुरुषम् ईश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ 4 ॥

श्लोक 10.40.5

त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः । यजन्ते विततैर् यज्ञैर् नानारूपामराख्यया ॥ 5 ॥

श्लोक 10.40.6

एके त्वाखिलकर्माणि सन्न्यस्योपशमं गताः । ज्ञानिनो ज्ञानयज्ञेन यजन्ति ज्ञानविग्रहम् ॥ 6 ॥

श्लोक 10.40.7

अन्ये च संस्कृतात्मानो विधिनाभिहितेन ते । यजन्ति त्वन्मयास् त्वां वै बहुमूर्त्य्एकमूर्तिकम् ॥ 7 ॥

श्लोक 10.40.8

त्वाम् एवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् । बह्व्आचार्यविभेदेन भगवन्तर्न् उपासते ॥ 8 ॥

श्लोक 10.40.9

सर्व एव यजन्ति त्वां सर्वदेवमयेश्वरम् । ये ऽप्य् अन्यदेवताभक्ता यद्य् अप्य् अन्यधियः प्रभो ॥ 9 ॥

श्लोक 10.40.10

यथाद्रिप्रभवा नद्यः पर्जन्यापूरिताः प्रभो । विशन्ति सर्वतः सिन्धुं तद्वत् त्वां गतयो ऽन्ततः ॥ 10 ॥

श्लोक 10.40.11

सत्त्वं रजस् तम इति भवतः प्रकृतेर् गुणाः । तेषु हि प्राकृताः प्रोता आब्रह्मस्थावरादयः ॥ 11 ॥

श्लोक 10.40.12

तुभ्यं नमस् ते त्व् अविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे &अम्प्; गुणप्रवाहो ऽयम् अविद्यया कृतः प्रवर्तते देवनृतिर्यग्आत्मसु ॥ 12 ॥

श्लोक 10.40.13

अग्निर् मुखं ते ऽवनिर् अङ्घ्रिर् ईक्षणं सूर्यो नभो नाभिर् अथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास् तव बाहवो ऽर्णवाः कुक्षिर् मरुत् प्राणबलं प्रकल्पितम् ॥ 13 ॥

श्लोक 10.40.14

रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि ते ऽद्रयः । निमेषणं रात्र्य्अहनी प्रजापतिर् मेढ्रस् तु वृष्टिस् तव वीर्यम् इष्यते ॥ 14 ॥

श्लोक 10.40.15

त्वय्य् अव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसो ऽप्य् उदुम्बरे वा मशका मनोमये ॥ 15 ॥

श्लोक 10.40.16

यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैर् आमृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ 16 ॥

श्लोक 10.40.17

नमः कारणमत्स्याय प्रलयाब्धिचराय च । हयशीर्ष्णे नमस् तुभ्यं मधुकैटभमृत्यवे ॥ 17 ॥

श्लोक 10.40.18

अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्य्उद्धारविहाराय नमः शूकरमूर्तये ॥ 18 ॥

श्लोक 10.40.19

नमस् ते ऽद्भुतसिंहाय साधुलोकभयापह । वामनाय नमस् तुभ्यं क्रान्तत्रिभुवनाय च ॥ 19 ॥

श्लोक 10.40.20

नमो भृगुणां पतये दृप्तक्षत्रवनच्छिदे । नमस् ते रघुवर्याय रावणान्तकराय च ॥ 20 ॥

श्लोक 10.40.21

नमस् ते वासुदेवाय नमः सङ्कर्षणाय च । प्रद्युम्नायनिरुद्धाय सात्वतां पतये नमः ॥ 21 ॥

श्लोक 10.40.22

नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने । म्लेच्छप्रायक्षत्रहन्त्रे नमस् ते कल्किरूपिणे ॥ 22 ॥

श्लोक 10.40.23

भगवन् जीवलोको ऽयं मोहितस् तव मायया । अहं ममेत्य् असद्ग्राहो भ्राम्यते कर्मवर्त्मसु ॥ 23 ॥

श्लोक 10.40.24

अहं चात्मात्मजागारदारार्थस्वजनादिषु । भ्रमामि स्वप्नकल्पेषु मूढः सत्यधिया विभो ॥ 24 ॥

श्लोक 10.40.25

अनित्यानात्मदुःखेषु विपर्ययमतिर् ह्य् अहम् । द्वन्द्वारामस् तमोविष्टो न जाने त्वात्मनः प्रियम् ॥ 25 ॥

श्लोक 10.40.26

यथाबुधो जलं हित्वा प्रतिच्छन्नं तद्उद्भवैः । अभ्येति मृगतृष्णां वै तद्वत् त्वाहं पराङ्मुखः ॥ 26 ॥

श्लोक 10.40.27

नोत्सहे ऽहं कृपणधीः कामकर्महतं मनः । रोद्धुं प्रमाथिभिश् चाक्षैर् ह्रियमाणम् इतस् ततः ॥ 27 ॥

श्लोक 10.40.28

सो ऽहं तवाङ्घ्र्य्उपगतो ऽस्म्य् असतां दुरापं तच् चाप्य् अहं भवद्अनुग्रह ईश मन्ये &अम्प्; पुंसो भवेद् यर्हि संसरणापवर्गस् त्वय्य् अब्जनाभ सद्उपासनया मतिः स्यात् ॥ 28 ॥

श्लोक 10.40.29

नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे । पुरुषेशप्रधानाय ब्रह्मणे ऽनन्तशक्तये ॥ 29 ॥

श्लोक 10.40.30

नमस् ते वासुदेवाय सर्वभूतक्षयाय च । हृषीकेश नमस् तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ 30 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ