श्रीमद्भागवत दशम स्कन्ध अध्याय 5
श्रीमद्भागवत दशम स्कन्ध अध्याय 5 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.5.1
नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महामनाः । आहूय विप्रान् वेदज्ञान् स्नातः शुचिर् अलङ्कृतः ॥ 1 ॥
श्लोक 10.5.2
वाचयित्वा स्वस्त्ययनं जातकर्मात्मजस्य वै । कारयाम् आस विधिवत् पितृदेवार्चनं तथा ॥ 2 ॥
श्लोक 10.5.3
धेनूनां नियुते प्रादाद् विप्रेभ्यः समलङ्कृते । तिलाद्रीन् सप्त रत्नौघशातकौम्भाम्बरावृतान् ॥ 3 ॥
श्लोक 10.5.4
कालेन स्नानशौचाभ्यां संस्कारैस् तपसेज्यया । शुध्यन्ति दानैः सन्तुष्ट्या द्रव्याण्य् आत्मात्मविद्यया ॥ 4 ॥
श्लोक 10.5.5
सौमङ्गल्यगिरो विप्राः सूतमागधवन्दिनः । गायकाश् च जगुर् नेदुर् भेर्यो दुन्दुभयो मुहुः ॥ 5 ॥
श्लोक 10.5.6
व्रजः सम्मृष्टसंसिक्तद्वाराजिरगृहान्तरः । चित्रध्वजपताकास्रक्चैलपल्लवतोरणैः ॥ 6 ॥
श्लोक 10.5.7
गावो वृषा वत्सतरा हरिद्रातैलरूषिताः । विचित्रधातुबर्हस्रग्वस्त्रकाञ्चनमालिनः ॥ 7 ॥
श्लोक 10.5.8
महार्हवस्त्राभरणकञ्चुकोष्णीषभूषिताः । गोपाः समाययू राजन् नानोपायनपाणयः ॥ 8 ॥
श्लोक 10.5.9
गोप्यश् चाकर्ण्य मुदिता यशोदायाः सुतोद्भवम् । आत्मानं भूषयां चक्रुर् वस्त्राकल्पाञ्जनादिभिः ॥ 9 ॥
श्लोक 10.5.10
नवकुङ्कुमकिञ्जल्कमुखपङ्कजभूतयः । बलिभिस् त्वरितं जग्मुः पृथुश्रोण्यश् चलत्कुचाः ॥ 10 ॥
श्लोक 10.5.11
गोप्यः सुमृष्टमणिकुण्डलनिष्ककण्ठ्यश् चित्राम्बराः पथि शिखाच्युतमाल्यवर्षाः &अम्प्; नन्दालयं सवलया व्रजतीर् विरेजुर् व्यालोलकुण्डलपयोधरहारशोभाः ॥ 11 ॥
श्लोक 10.5.12
ता आशिषः प्रयुञ्जानाश् चिरं पाहीति बालके । हरिद्राचूर्णतैलाद्भिः सिञ्चन्त्यो ऽजनम् उज्जगुः ॥ 12 ॥
श्लोक 10.5.13
अवाद्यन्त विचित्राणि वादित्राणि महोत्सवे । कृष्णे विश्वेश्वरे ऽनन्ते नन्दस्य व्रजम् आगते ॥ 13 ॥
श्लोक 10.5.14
गोपाः परस्परं हृष्टा दधिक्षीरघृताम्बुभिः । आसिञ्चन्तो विलिम्पन्तो नवनीतैश् च चिक्षिपुः ॥ 14 ॥
श्लोक 10.5.15
नन्दो महामनास् तेभ्यो वासो ऽलङ्कारगोधनम् । सूतमागधवन्दिभ्यो ये ऽन्ये विद्योपजीविनः ॥ 15 ॥
श्लोक 10.5.16
तैस् तैः कामैर् अदीनात्मा यथोचितम् अपूजयत् । विष्णोर् आराधनार्थाय स्वपुत्रस्योदयाय च ॥ 16 ॥
श्लोक 10.5.17
रोहिणी च महाभागा नन्दगोपाभिनन्दिता । व्यचरद् दिव्यवासस्रक्कण्ठाभरणभूषिता ॥ 17 ॥
श्लोक 10.5.18
तत आरभ्य नन्दस्य व्रजः सर्वसमृद्धिमान् । हरेर् निवासात्मगुणै रमाक्रीडम् अभून् नृप ॥ 18 ॥
श्लोक 10.5.19
गोपान् गोकुलरक्षायां निरूप्य मथुरां गतः । नन्दः कंसस्य वार्षिक्यं करं दातुं कुरूद्वह ॥ 19 ॥
श्लोक 10.5.20
वसुदेव उपश्रुत्य भ्रातरं नन्दम् आगतम् । ज्ञात्वा दत्तकरं राज्ञे ययौ तद्अवमोचनम् ॥ 20 ॥
श्लोक 10.5.21
तं दृष्ट्वा सहसोत्थाय देहः प्राणम् इवागतम् । प्रीतः प्रियतमं दोर्भ्यां सस्वजे प्रेमविह्वलः ॥ 21 ॥
श्लोक 10.5.22
पूजितः सुखम् आसीनः पृष्ट्वानामयम् आदृतः । प्रसक्तधीः स्वात्मजयोर् इदम् आह विशाम्पते ॥ 22 ॥
श्लोक 10.5.23
दिष्ट्या भ्रातः प्रवयस इदानीम् अप्रजस्य ते । प्रजाशाया निवृत्तस्य प्रजा यत् समपद्यत ॥ 23 ॥
श्लोक 10.5.24
दिष्ट्या संसारचक्रे ऽस्मिन् वर्तमानः पुनर्भवः । उपलब्धो भवान् अद्य दुर्लभं प्रियदर्शनम् ॥ 24 ॥
श्लोक 10.5.25
नैकत्र प्रियसंवासः सुहृदां चित्रकर्मणाम् । ओघेन व्यूह्यमानानां प्लवानां स्रोतसो यथा ॥ 25 ॥
श्लोक 10.5.26
कच्चित् पशव्यं निरुजं भूर्य्अम्बुतृणवीरुधम् । बृहद् वनं तद् अधुना यत्रास्से त्वं सुहृद्वृतः ॥ 26 ॥
श्लोक 10.5.27
भ्रातर् मम सुतः कच्चिन् मात्रा सह भवद्व्रजे । तातं भवन्तं मन्वानो भवद्भ्याम् उपलालितः ॥ 27 ॥
श्लोक 10.5.28
पुंसस् त्रिवर्गो विहितः सुहृदो ह्य् अनुभावितः । न तेषु क्लिश्यमानेषु त्रिवर्गो ऽर्थाय कल्पते ॥ 28 ॥
श्लोक 10.5.29
अहो ते देवकीपुत्राः कंसेन बहवो हताः । एकावशिष्टावरजा कन्या सापि दिवं गता ॥ 29 ॥
श्लोक 10.5.30
नूनं ह्य् अदृष्टनिष्ठो ऽयम् अदृष्टपरमो जनः । अदृष्टम् आत्मनस् तत्त्वं यो वेद न स मुह्यति ॥ 30 ॥
श्लोक 10.5.31
करो वै वार्षिको दत्तो राज्ञे दृष्टा वयं च वः । नेह स्थेयं बहुतिथं सन्त्य् उत्पाताश् च गोकुले ॥ 31 ॥
श्लोक 10.5.32
इति नन्दादयो गोपाः प्रोक्तास् ते शौरिणा ययुः । अनोभिर् अनडुद्युक्तैस् तम् अनुज्ञाप्य गोकुलम् ॥ 32 ॥