मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 41

श्रीमद्भागवत दशम स्कन्ध अध्याय 41 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.41.1

स्तुवतस् तस्य भगवान् दर्शयित्वा जले वपुः । भूयः समाहरत् कृष्णो नटो नाट्यम् इवात्मनः ॥ 1 ॥

श्लोक 10.41.2

सो ऽपि चान्तर्हितं वीक्ष्य जलाद् उन्मज्य सत्वरः । कृत्वा चावश्यकं सर्वं विस्मितो रथम् आगमत् ॥ 2 ॥

श्लोक 10.41.3

तम् अपृच्छद् धृषीकेशः किं ते दृष्टम् इवाद्भुतम् । भूमौ वियति तोये वा तथा त्वां लक्षयामहे ॥ 3 ॥

श्लोक 10.41.4

अद्भुतानीह यावन्ति भूमौ वियति वा जले । त्वयि विश्वात्मके तानि किं मे ऽदृष्टं विपश्यतः ॥ 4 ॥

श्लोक 10.41.5

यत्राद्भुतानि सर्वाणि भूमौ वियति वा जले । तं त्वानुपश्यतो ब्रह्मन् किं मे दृष्टम् इहाद्भुतम् ॥ 5 ॥

श्लोक 10.41.6

इत्य् उक्त्वा चोदयाम् आस स्यन्दनं गान्दिनीसुतः । मथुराम् अनयद् रामं कृष्णं चैव दिनात्यये ॥ 6 ॥

श्लोक 10.41.7

मार्गे ग्रामजना राजंस् तत्र तत्रोपसङ्गताः । वसुदेवसुतौ वीक्ष्य प्रीता दृष्टिं न चाददुः ॥ 7 ॥

श्लोक 10.41.8

तावद् व्रजौकसस् तत्र नन्दगोपादयो ऽग्रतः । पुरोपवनम् आसाद्य प्रतीक्षन्तो ऽवतस्थिरे ॥ 8 ॥

श्लोक 10.41.9

तान् समेत्याह भगवान् अक्रूरं जगद्ईश्वरः । गृहीत्वा पाणिना पाणिं प्रश्रितं प्रहसन्न् इव ॥ 9 ॥

श्लोक 10.41.10

भवान् प्रविशताम् अग्रे सहयानः पुरीं गृहम् । वयं त्व् इहावमुच्याथ ततो द्रक्ष्यामहे पुरीम् ॥ 10 ॥

श्लोक 10.41.11

नाहं भवद्भ्यां रहितः प्रवेक्ष्ये मथुरां प्रभो । त्यक्तुं नार्हसि मां नाथ भक्तं ते भक्तवत्सल ॥ 11 ॥

श्लोक 10.41.12

आगच्छ याम गेहान् नः सनाथान् कुर्व् अधोक्षज । सहाग्रजः सगोपालैः सुहृद्भिश् च सुहृत्तम ॥ 12 ॥

श्लोक 10.41.13

पुनीहि पादरजसा गृहान् नो गृहमेधिनाम् । यच्छौचेनानुतृप्यन्ति पितरः साग्नयः सुराः ॥ 13 ॥

श्लोक 10.41.14

अवनिज्याङ्घ्रियुगलम् आसीत् श्लोक्यो बलिर् महान् । ऐश्वर्यम् अतुलं लेभे गतिं चैकान्तिनां तु या ॥ 14 ॥

श्लोक 10.41.15

आपस् ते ऽङ्घ्र्य्अवनेजन्यस् त्रींल् लोकान् शुचयो ऽपुनन् । शिरसाधत्त याः शर्वः स्वर् याताः सगरात्मजाः ॥ 15 ॥

श्लोक 10.41.16

देवदेव जगन्नाथ पुण्यश्रवणकीर्तन । यदूत्तमोत्तमःश्लोक नारायण नमो ऽस्तु ते ॥ 16 ॥

श्लोक 10.41.17

आयास्ये भवतो गेहम् अहम् अर्यसमन्वितः । यदुचक्रद्रुहं हत्वा वितरिष्ये सुहृत्प्रियम् ॥ 17 ॥

श्लोक 10.41.18

एवम् उक्तो भगवता सो ऽक्रूरो विमना इव । पुरीं प्रविष्टः कंसाय कर्मावेद्य गृहं ययौ ॥ 18 ॥

श्लोक 10.41.19

अथापराह्ने भगवान् कृष्णः सङ्कर्षणान्वितः । मथुरां प्राविशद् गोपैर् दिदृक्षुः परिवारितः ॥ 19 ॥

श्लोक 10.41.20

ददर्श तां स्फाटिकतुण्गगोपुरद्वारां बृहद्धेमकपाटतोरणाम् । ताम्रारकोष्ठां परिखादुरासदाम् उद्यानरम्योपवनोपशोभिताम् ॥ 20 ॥

श्लोक 10.41.21

सौवर्णशृङ्गाटकहर्म्यनिष्कुटैः श्रेणीसभाभिर् भवनैर् उपस्कृताम् । वैदूर्यवज्रामलनीलविद्रुमैर् मुक्ताहरिद्भिर् वलभीषु वेदिषु ॥ 21 ॥

श्लोक 10.41.22

जुष्टेषु जालामुखरन्ध्रकुट्टिमेष्व् आविष्टपारावतबर्हिनादिताम् । संसिक्तरथ्यापणमार्गचत्वरां प्रकीर्णमाल्याङ्कुरलाजतण्डुलाम् ॥ 22 ॥

श्लोक 10.41.23

आपूर्णकुम्भैर् दधिचन्दनोक्षितैः प्रसूनदीपावलिभिः सपल्लवैः । सवृन्दरम्भाक्रमुकैः सकेतुभिः स्व्अलङ्कृतद्वारगृहां सपट्टिकैः ॥ 23 ॥

श्लोक 10.41.24

तां सम्प्रविष्टौ वसुदेवनन्दनौ वृतौ वयस्यैर् नरदेववर्त्मना । द्रष्टुं समीयुस् त्वरिताः पुरस्त्रियो हर्म्याणि चैवारुरुहुर् नृपोत्सुकाः ॥ 24 ॥

श्लोक 10.41.25

काश्चिद् विपर्यग्धृतवस्त्रभूषणा विस्मृत्य चैकं युगलेष्व् अथापराः &अम्प्; कृतैकपत्रश्रवनैकनूपुरा नाङ्क्त्वा द्वितीयं त्व् अपराश् च लोचनम् ॥ 25 ॥

श्लोक 10.41.26

अश्नन्त्य एकास् तद् अपास्य सोत्सवा अभ्यज्यमाना अकृतोपमज्जनाः । स्वपन्त्य उत्थाय निशम्य निःस्वनं प्रपाययन्त्यो ऽर्भम् अपोह्य मातरः ॥ 26 ॥

श्लोक 10.41.27

मनांसि तासाम् अरविन्दलोचनः प्रगल्भलीलाहसितावलोकैः । जहार मत्तद्विरदेन्द्रविक्रमो दृशां ददच् छ्रीरमणात्मनोत्सवम् ॥ 27 ॥

श्लोक 10.41.28

दृष्ट्वा मुहुः श्रुतम् अनुद्रुतचेतसस् तं तत्प्रेक्षणोत्स्मितसुधोक्षणलब्धमानाः &अम्प्; आनन्दमूर्तिम् उपगुह्य दृशात्मलब्धं हृष्यत्त्वचो जहुर् अनन्तम् अरिन्दमाधिम् ॥ 28 ॥

श्लोक 10.41.29

प्रासादशिखरारूढाः प्रीत्य्उत्फुल्लमुखाम्बुजाः । अभ्यवर्षन् सौमनस्यैः प्रमदा बलकेशवौ ॥ 29 ॥

श्लोक 10.41.30

दध्य्अक्षतैः सोदपात्रैः स्रग्गन्धैर् अभ्युपायनैः । ताव् आनर्चुः प्रमुदितास् तत्र तत्र द्विजातयः ॥ 30 ॥

श्लोक 10.41.31

ऊचुः पौरा अहो गोप्यस् तपः किम् अचरन् महत् । या ह्य् एताव् अनुपश्यन्ति नरलोकमहोत्सवौ ॥ 31 ॥

श्लोक 10.41.32

रजकं कञ्चिद् आयान्तं रङ्गकारं गदाग्रजः । दृष्ट्वायाचत वासांसि धौतान्य् अत्य्उत्तमानि च ॥ 32 ॥

श्लोक 10.41.33

देह्य् आवयोः समुचितान्य् अङ्ग वासांसि चार्हतोः । भविष्यति परं श्रेयो दातुस् ते नात्र संशयः ॥ 33 ॥

श्लोक 10.41.34

स याचितो भगवता परिपूर्णेन सर्वतः । साक्षेपं रुषितः प्राह भृत्यो राज्ञः सुदुर्मदः ॥ 34 ॥

श्लोक 10.41.35

ईदृशान्य् एव वासांसी नित्यं गिरिवनेचरः । परिधत्त किम् उद्वृत्ता राजद्रव्याण्य् अभीप्सथ ॥ 35 ॥

श्लोक 10.41.36

याताशु बालिशा मैवं प्रार्थ्यं यदि जिजीवीषा । बध्नन्ति घ्नन्ति लुम्पन्ति दृप्तं राजकुलानि वै ॥ 36 ॥

श्लोक 10.41.37

एवं विकत्थमानस्य कुपितो देवकीसुतः । रजकस्य कराग्रेण शिरः कायाद् अपातयत् ॥ 37 ॥

श्लोक 10.41.38

तस्यानुजीविनः सर्वे वासःकोशान् विसृज्य वै । दुद्रुवुः सर्वतो मार्गं वासांसि जगृहे ऽच्युतः ॥ 38 ॥

श्लोक 10.41.39

वसित्वात्मप्रिये वस्त्रे कृष्णः सङ्कर्षणस् तथा । शेषाण्य् आदत्त गोपेभ्यो विसृज्य भुवि कानिचित् ॥ 39 ॥

श्लोक 10.41.40

ततस् तु वायकः प्रीतस् तयोर् वेषम् अकल्पयत् । विचित्रवर्णैश् चैलेयैर् आकल्पैर् अनुरूपतः ॥ 40 ॥

श्लोक 10.41.41

नानालक्षणवेषाभ्यां कृष्णरामौ विरेजतुः । स्व्अलङ्कृतौ बालगजौ पर्वणीव सितेतरौ ॥ 41 ॥

श्लोक 10.41.42

तस्य प्रसन्नो भगवान् प्रादात् सारूप्यम् आत्मनः । श्रियं च परमां लोके बलैश्वर्यस्मृतीन्द्रियम् ॥ 42 ॥

श्लोक 10.41.43

ततः सुदाम्नो भवनं मालाकारस्य जग्मतुः । तौ दृष्ट्वा स समुत्थाय ननाम शिरसा भुवि ॥ 43 ॥

श्लोक 10.41.44

तयोर् आसनम् आनीय पाद्यं चार्घ्यार्हणादिभिः । पूजां सानुगयोश् चक्रे स्रक्ताम्बूलानुलेपनैः ॥ 44 ॥

श्लोक 10.41.45

प्राह नः सार्थकं जन्म पावितं च कुलं प्रभो । पितृदेवर्षयो मह्यं तुष्टा ह्य् आगमनेन वाम् ॥ 45 ॥

श्लोक 10.41.46

भवन्तौ किल विश्वस्य जगतः कारणं परम् । अवतीर्णाव् इहांशेन क्षेमाय च भवाय च ॥ 46 ॥

श्लोक 10.41.47

न हि वां विषमा दृष्टिः सुहृदोर् जगद्आत्मनोः । समयोः सर्वभूतेषु भजन्तं भजतोर् अपि ॥ 47 ॥

श्लोक 10.41.48

ताव् अज्ञापयतं भृत्यं किम् अहं करवाणि वाम् । पुंसो ऽत्य्अनुग्रहो ह्य् एष भवद्भिर् यन् नियुज्यते ॥ 48 ॥

श्लोक 10.41.49

इत्य् अभिप्रेत्य राजेन्द्र सुदामा प्रीतमानसः । शस्तैः सुगन्धैः कुसुमैर् माला विरचिता ददौ ॥ 49 ॥

श्लोक 10.41.50

ताभिः स्व्अलङ्कृतौ प्रीतौ कृष्णरामौ सहानुगौ । प्रणताय प्रपन्नाय ददतुर् वरदौ वरान् ॥ 50 ॥

श्लोक 10.41.51

सो ऽपि वव्रे ऽचलां भक्तिं तस्मिन्न् एवाखिलात्मनि । तद्भक्तेषु च सौहार्दं भूतेषु च दयां पराम् ॥ 51 ॥

श्लोक 10.41.52

इति तस्मै वरं दत्त्वा श्रियं चान्वयवर्धिनीम् । बलम् आयुर् यशः कान्तिं निर्जगाम सहाग्रजः ॥ 52 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ