मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 42

श्रीमद्भागवत दशम स्कन्ध अध्याय 42 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.42.1

अथ व्रजन् राजपथेन माधवः स्त्रियं गृहीताङ्गविलेपभाजनाम् । विलोक्य कुब्जां युवतीं वराननां पप्रच्छ यान्तीं प्रहसन् रसप्रदः ॥ 1 ॥

श्लोक 10.42.2

का त्वं वरोर्व् एतद् उ हानुलेपनं कस्याङ्गने वा कथयस्व साधु नः । देह्य् आवयोर् अङ्गविलेपम् उत्तमं श्रेयस् ततस् ते न चिराद् भविष्यति ॥ 2 ॥

श्लोक 10.42.3

दास्य् अस्म्य् अहं सुन्दर कंससम्मता त्रिवक्रनामा ह्य् अनुलेपकर्मणि । मद्भावितं भोजपतेर् अतिप्रियं विना युवां को ऽन्यतमस् तद् अर्हति ॥ 3 ॥

श्लोक 10.42.4

रूपपेशलमाधुर्य हसितालापवीक्षितैः । धर्षितात्मा ददौ सान्द्रम् उभयोर् अनुलेपनम् ॥ 4 ॥

श्लोक 10.42.5

ततस् ताव् अङ्गरागेण स्ववर्णेतरशोभिना । सम्प्राप्तपरभागेन शुशुभाते ऽनुरञ्जितौ ॥ 5 ॥

श्लोक 10.42.6

प्रसन्नो भगवान् कुब्जां त्रिवक्रां रुचिराननाम् । ऋज्वीं कर्तुं मनश् चक्रे दर्शयन् दर्शने फलम् ॥ 6 ॥

श्लोक 10.42.7

पद्भ्याम् आक्रम्य प्रपदे द्र्य्अङ्गुल्य्उत्तानपाणिना । प्रगृह्य चिबुके ऽध्यात्मम् उदनीनमद् अच्युतः ॥ 7 ॥

श्लोक 10.42.8

सा तदर्जुसमानाङ्गी बृहच्छ्रोणिपयोधरा । मुकुन्दस्पर्शनात् सद्यो बभूव प्रमदोत्तमा ॥ 8 ॥

श्लोक 10.42.9

ततो रूपगुणौदार्यसम्पन्ना प्राह केशवम् । उत्तरीयान्तम् अकृष्य स्मयन्ती जातहृच्छया ॥ 9 ॥

श्लोक 10.42.10

एहि वीर गृहं यामो न त्वां त्यक्तुम् इहोत्सहे । त्वयोन्मथितचित्तायाः प्रसीद पुरुषर्षभ ॥ 10 ॥

श्लोक 10.42.11

एवं स्त्रिया याच्यमानः कृष्णो रामस्य पश्यतः । मुखं वीक्ष्यानु गोपानां प्रहसंस् ताम् उवाच ह ॥ 11 ॥

श्लोक 10.42.12

एष्यामि ते गृहं सुभ्रु पुंसाम् आधिविकर्शनम् । साधितार्थो ऽगृहाणां नः पान्थानां त्वं परायणम् ॥ 12 ॥

श्लोक 10.42.13

विसृज्य माध्व्या वाण्या ताम् व्रजन् मार्गे वणिक्पथैः । नानोपायनताम्बूलस्रग्गन्धैः साग्रजो ऽर्चितः ॥ 13 ॥

श्लोक 10.42.14

तद्दर्शनस्मरक्षोभाद् आत्मानं नाविदन् स्त्रियः । विस्रस्तवासःकवर वलया लेख्यमूर्तयः ॥ 14 ॥

श्लोक 10.42.15

ततः पौरान् पृच्छमानो धनुषः स्थानम् अच्युतः । तस्मिन् प्रविष्टो ददृशे धनुर् ऐन्द्रम् इवाद्भुतम् ॥ 15 ॥

श्लोक 10.42.16

पुरुषैर् बहुभिर् गुप्तम् अर्चितं परमर्द्धिमत् । वार्यमाणो नृभिः कृष्णः प्रसह्य धनुर् आददे ॥ 16 ॥

श्लोक 10.42.17

करेण वामेन सलीलम् उद्धृतं सज्यं च कृत्वा निमिषेण पश्यताम् । नृणां विकृष्य प्रबभञ्ज मध्यतो यथेक्षुदण्डं मदकर्य् उरुक्रमः ॥ 17 ॥

श्लोक 10.42.18

धनुषो भज्यमानस्य शब्दः खं रोदसी दिशः । पूरयाम् आस यं श्रुत्वा कंसस् त्रासम् उपागमत् ॥ 18 ॥

श्लोक 10.42.19

तद्रक्षिणः सानुचरं कुपिता आततायिनः । गृहीतुकामा आवव्रुर् गृह्यतां वध्यताम् इति ॥ 19 ॥

श्लोक 10.42.20

अथ तान् दुरभिप्रायान् विलोक्य बलकेशवौ । क्रुद्धौ धन्वन आदाय शकले तांश् च जघ्नतुः ॥ 20 ॥

श्लोक 10.42.21

बलं च कंसप्रहितं हत्वा शालामुखात् ततः । निष्क्रम्य चेरतुर् हृष्टौ निरीक्ष्य पुरसम्पदः ॥ 21 ॥

श्लोक 10.42.22

तयोस् तद् अद्भुतं वीर्यं निशाम्य पुरवासिनः । तेजः प्रागल्भ्यं रूपं च मेनिरे विबुधोत्तमौ ॥ 22 ॥

श्लोक 10.42.23

तयोर् विचरतोः स्वैरम् आदित्यो ऽस्तम् उपेयिवान् । कृष्णरामौ वृतौ गोपैः पुराच् छकटम् ईयतुः ॥ 23 ॥

श्लोक 10.42.24

गोप्यो मुकुन्दविगमे विरहातुरा या आशासताशिष ऋता मधुपुर्य् अभूवन् । सम्पश्यतां पुरुषभूषणगात्रलक्ष्मीं हित्वेतरान् नु भजतश् चकमे ऽयनं श्रीः ॥ 24 ॥

श्लोक 10.42.25

अवनिक्ताङ्घ्रियुगलौ भुक्त्वा क्षीरोपसेचनम् । ऊषतुस् तां सुखं रात्रिं ज्ञात्वा कंसचिकीर्षितम् ॥ 25 ॥

श्लोक 10.42.26

कंसस् तु धनुषो भङ्गं रक्षिणां स्वबलस्य च । वधं निशम्य गोविन्दरामविक्रीडितं परम् ॥ 26 ॥

श्लोक 10.42.27

दीर्घप्रजागरो भीतो दुर्निमित्तानि दुर्मतिः । बहून्य् अचष्टोभयथा मृत्योर् दौत्यकराणि च ॥ 27 ॥

श्लोक 10.42.28

अदर्शनं स्वशिरसः प्रतिरूपे च सत्य् अपि । असत्य् अपि द्वितीये च द्वैरूप्यं ज्योतिषां तथा ॥ 28 ॥

श्लोक 10.42.29

छिद्रप्रतीतिश् छायायां प्राणघोषानुपश्रुतिः । स्वर्णप्रतीतिर् वृक्षेषु स्वपदानाम् अदर्शनम् ॥ 29 ॥

श्लोक 10.42.30

स्वप्ने प्रेतपरिष्वङ्गः खरयानं विषादनम् । यायान् नलदमाल्य् एकस् तैलाभ्यक्तो दिग्अम्बरः ॥ 30 ॥

श्लोक 10.42.31

अन्यानि चेत्थंभूतानि स्वप्नजागरितानि च । पश्यन् मरणसन्त्रस्तो निद्रां लेभे न चिन्तया ॥ 31 ॥

श्लोक 10.42.32

व्युष्टायां निशि कौरव्य सूर्ये चाद्भ्यः समुत्थिते । कारयाम् आस वै कंसो मल्लक्रीडामहोत्सवम् ॥ 32 ॥

श्लोक 10.42.33

आनर्चुः पुरुषा रङ्गं तूर्यभेर्यश् च जघ्निरे । मञ्चाश् चालङ्कृताः स्रग्भिः पताकाचैलतोरणैः ॥ 33 ॥

श्लोक 10.42.34

तेषु पौरा जानपदा ब्रह्मक्षत्रपुरोगमाः । यथोपजोषं विविशू राजानश् च कृतासनाः ॥ 34 ॥

श्लोक 10.42.35

कंसः परिवृतो ऽमात्यै राजमञ्च उपाविशत् । मण्डलेश्वरमध्यस्थो हृदयेन विदूयता ॥ 35 ॥

श्लोक 10.42.36

वाद्यमानेसु तूर्येषु मल्लतालोत्तरेषु च । मल्लाः स्व्अलङ्कृताः दृप्ताः सोपाध्यायाः समासत ॥ 36 ॥

श्लोक 10.42.37

चाणूरो मुष्टिकः कूतः शलस् तोशल एव च । त आसेदुर् उपस्थानं वल्गुवाद्यप्रहर्षिताः ॥ 37 ॥

श्लोक 10.42.38

नन्दगोपादयो गोपा भोजराजसमाहुताः । निवेदितोपायनास् त एकस्मिन् मञ्च आविशन् ॥ 38 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ