मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 43

श्रीमद्भागवत दशम स्कन्ध अध्याय 43 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.43.1

अथ कृष्णश् च रामश् च कृतशौचौ परन्तप । मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः ॥ 1 ॥

श्लोक 10.43.2

रङ्गद्वारं समासाद्य तस्मिन् नागम् अवस्थितम् । अपश्यत् कुवलयापीडं कृष्णो ऽम्बष्ठप्रचोदितम् ॥ 2 ॥

श्लोक 10.43.3

बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् । उवाच हस्तिपं वाचा मेघनादगभीरया ॥ 3 ॥

श्लोक 10.43.4

अम्बष्ठाम्बष्ठ मार्गं नौ देह्य् अपक्रम मा चिरम् । नो चेत् सकुञ्जरं त्वाद्य नयामि यमसादनम् ॥ 4 ॥

श्लोक 10.43.5

एवं निर्भर्त्सितो ऽम्बष्ठः कुपितः कोपितं गजम् । चोदयाम् आस कृष्णाय कालान्तकयमोपमम् ॥ 5 ॥

श्लोक 10.43.6

करीन्द्रस् तम् अभिद्रुत्य करेण तरसाग्रहीत् । कराद् विगलितः सो ऽमुं निहत्याङ्घ्रिष्व् अलीयत ॥ 6 ॥

श्लोक 10.43.7

सङ्क्रुद्धस् तम् अचक्षाणो घ्राणदृष्टिः स केशवम् । परामृशत् पुष्करेण स प्रसह्य विनिर्गतः ॥ 7 ॥

श्लोक 10.43.8

पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् । विचकर्ष यथा नागं सुपर्ण इव लीलया ॥ 8 ॥

श्लोक 10.43.9

स पर्यावर्तमानेन सव्यदक्षिणतो ऽच्युतः । बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः ॥ 9 ॥

श्लोक 10.43.10

ततो ऽभिमखम् अभ्येत्य पाणिनाहत्य वारणम् । प्राद्रवन् पातयाम् आस स्पृश्यमानः पदे पदे ॥ 10 ॥

श्लोक 10.43.11

स धावन् कृईदया भूमौ पतित्वा सहसोत्थितः । तम् मत्वा पतितं क्रुद्धो दन्ताभ्यां सो ऽहनत् क्षितिम् ॥ 11 ॥

श्लोक 10.43.12

स्वविक्रमे प्रतिहते कुञ्जरेन्द्रो ऽत्य्अमर्षितः । चोद्यमानो महामात्रैः कृष्णम् अभ्यद्रवद् रुषा ॥ 12 ॥

श्लोक 10.43.13

तम् आपतन्तम् आसाद्य भगवान् मधुसूदनः । निगृह्य पाणिना हस्तं पातयाम् आस भूतले ॥ 13 ॥

श्लोक 10.43.14

पतितस्य पदाक्रम्य मृगेन्द्र इव लीलया । दन्तम् उत्पाट्य तेनेभं हस्तिपांश् चाहनद् धरिः ॥ 14 ॥

श्लोक 10.43.15

मृतकं द्विपम् उत्सृज्य दन्तपाणिः समाविशत् । अंसन्यस्तविषाणो ऽसृङ्मदबिन्दुभिर् अङ्कितः । विरूढस्वेदकणिका वदनाम्बुरुहो बभौ ॥ 15 ॥

श्लोक 10.43.16

वृतौ गोपैः कतिपयैर् बलदेवजनार्दनौ । रङ्गं विविशतू राजन् गजदन्तवरायुधौ ॥ 16 ॥

श्लोक 10.43.17

मल्लानाम् अशनिर् नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनो ऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः &अम्प्; मृत्युर् भोजपतेर् विराड् अविदुषां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः ॥ 17 ॥

श्लोक 10.43.18

हतं कुवलयापीडं दृष्ट्वा ताव् अपि दुर्जयौ । कंसो मनस्य् अपि तदा भृशम् उद्विविजे नृप ॥ 18 ॥

श्लोक 10.43.19

तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रग्अम्बरौ । यथा नटाव् उत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम् ॥ 19 ॥

श्लोक 10.43.20

निरीक्ष्य ताव् उत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप । प्रहर्षवेगोत्कलितेक्षणाननाः पपुर् न तृप्ता नयनैस् तद्आननम् ॥ 20 ॥

श्लोक 10.43.21

पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया । जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ॥ 21 ॥

श्लोक 10.43.22

ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् । तद्रूपगुणमाधुर्यप्रागल्भ्यस्मारिता इव ॥ 22 ॥

श्लोक 10.43.23

एतौ भगवतः साक्षाद् धरेर् नारायणस्य हि । अवतीर्णाव् इहांशेन वसुदेवस्य वेश्मनि ॥ 23 ॥

श्लोक 10.43.24

एष वै किल देवक्यां जातो नीतश् च गोकुलम् । कालम् एतं वसन् गूढो ववृधे नन्दवेश्मनि ॥ 24 ॥

श्लोक 10.43.25

पूतनानेन नीतान्तं चक्रवातश् च दानवः । अर्जुनौ गुह्यकः केशी धेनुको ऽन्ये च तद्विधाः ॥ 25 ॥

श्लोक 10.43.26

गावः सपाला एतेन दावाग्नेः परिमोचिताः । कालियो दमितः सर्प इन्द्रश् च विमदः कृतः ॥ 26 ॥

श्लोक 10.43.27

सप्ताहम् एकहस्तेन धृतो ऽद्रिप्रवरो ऽमुना । वर्षवाताशनिभ्यश् च परित्रातं च गोकुलम् ॥ 27 ॥

श्लोक 10.43.28

गोप्यो ऽस्य नित्यमुदितहसितप्रेक्षणं मुखम् । पश्यन्त्यो विविधांस् तापांस् तरन्ति स्माश्रमं मुदा ॥ 28 ॥

श्लोक 10.43.29

वदन्त्य् अनेन वंशो ऽयं यदोः सुबहुविश्रुतः । श्रियं यशो महत्वं च लप्स्यते परिरक्षितः ॥ 29 ॥

श्लोक 10.43.30

अयं चास्याग्रजः श्रीमान् रामः कमललोचनः । प्रलम्बो निहतो येन वत्सको ये बकादयः ॥ 30 ॥

श्लोक 10.43.31

जनेष्व् एवं ब्रुवाणेषु तूर्येषु निनदत्सु च । कृष्णरामौ समाभाष्य चाणूरो वाक्यम् अब्रवीत् ॥ 31 ॥

श्लोक 10.43.32

हे नन्दसूनो हे राम भवन्तौ वीरसम्मतौ । नियुद्धकुशलौ श्रुत्वा राज्ञाहूतौ दिदृक्षुणा ॥ 32 ॥

श्लोक 10.43.33

प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः । मनसा कर्मणा वाचा विपरीतम् अतो ऽन्यथा ॥ 33 ॥

श्लोक 10.43.34

नित्यं प्रमुदिता गोपा वत्सपाला यथास्फुटम् । वनेषु मल्लयुद्धेन क्रीडन्तश् चारयन्ति गाः ॥ 34 ॥

श्लोक 10.43.35

तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे । भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः ॥ 35 ॥

श्लोक 10.43.36

तन् निशम्याब्रवीत् कृष्णो देशकालोचितं वचः । नियुद्धम् आत्मनो ऽभीष्टं मन्यमानो ऽभिनन्द्य च ॥ 36 ॥

श्लोक 10.43.37

प्रजा भोजपतेर् अस्य वयं चापि वनेचराः । करवाम प्रियं नित्यं तन् नः परम् अनुग्रहः ॥ 37 ॥

श्लोक 10.43.38

बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् । भवेन् नियुद्धं माधर्मः स्पृशेन् मल्लसभासदः ॥ 38 ॥

श्लोक 10.43.39

न बालो न किशोरस् त्वं बलश् च बलिनां वरः । लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत् ॥ 39 ॥

श्लोक 10.43.40

तस्माद् भवद्भ्यां बलिभिर् योद्धव्यं नानयो ऽत्र वै । मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः ॥ 40 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ