मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 44

श्रीमद्भागवत दशम स्कन्ध अध्याय 44 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.44.1

एवं चर्चितसङ्कल्पो भगवान् मधुसूदनः । आससादाथ चणूरं मुष्ट्तिकं रोहिणीसुतः ॥ 1 ॥

श्लोक 10.44.2

हस्ताभ्यां हस्तयोर् बद्ध्वा पद्भ्याम् एव च पादयोः । विचकर्षतुर् अन्योन्यं प्रसह्य विजिगीषया ॥ 2 ॥

श्लोक 10.44.3

अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी । शिरः शीर्ष्णोरसोरस् ताव् अन्योन्यम् अभिजघ्नतुः ॥ 3 ॥

श्लोक 10.44.4

परिभ्रामणविक्षेपपरिरम्भावपातनैः । उत्सर्पणापसर्पणैश् चान्योन्यं प्रत्यरुन्धताम् ॥ 4 ॥

श्लोक 10.44.5

उत्थापनैर् उन्नयनैश् चालनैः स्थापनैर् अपि । परस्परं जिगीषन्ताव् अपचक्रतुर् आत्मनः ॥ 5 ॥

श्लोक 10.44.6

तद् बलाबलवद् युद्धं समेताः सर्वयोषितः । ऊचुः परस्परं राजन् सानुकम्पा वरूथशः ॥ 6 ॥

श्लोक 10.44.7

महान् अयं बताधर्म एषां राजसभासदाम् । ये बलाबलवद् युद्धं राज्ञो ऽन्विच्छन्ति पश्यतः ॥ 7 ॥

श्लोक 10.44.8

क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ । क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ ॥ 8 ॥

श्लोक 10.44.9

धर्मव्यतिक्रमो ह्य् अस्य समाजस्य ध्रुवं भवेत् । यत्राधर्मः समुत्तिष्ठेन् न स्थेयं तत्र कर्हिचित् ॥ 9 ॥

श्लोक 10.44.10

न सभां प्रविशेत् प्राज्ञः सभ्यदोषान् अनुस्मरन् । अब्रुवन् विब्रुवन्न् अज्ञो नरः किल्बिषम् अश्नुते ॥ 10 ॥

श्लोक 10.44.11

वल्गतः शत्रुम् अभितः कृष्णस्य वदनाम्बुजम् । वीक्ष्यतां श्रमवार्य्उप्तं पद्मकोशम् इवाम्बुभिः ॥ 11 ॥

श्लोक 10.44.12

किं न पश्यत रामस्य मुखम् आताम्रलोचनम् । मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम् ॥ 12 ॥

श्लोक 10.44.13

पुण्या बत व्रजभुवो यद् अयं नृलिङ्ग गूढः पुराणपुरुषो वनचित्रमाल्यः &अम्प्; गाः पालयन् सहबलः क्वणयंश् च वेणुं विक्रीदयाञ्चति गिरित्ररमार्चिताङ्घ्रिः ॥ 13 ॥

श्लोक 10.44.14

गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्यसारम् असमोर्ध्वम् अनन्यसिद्धम् । दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम् एकान्तधाम यशसः श्रीय ऐश्वरस्य ॥ 14 ॥

श्लोक 10.44.15

या दोहने ऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भरुदितोक्षणमार्जनादौ । गायन्ति चैनम् अनुरक्तधियो ऽश्रुकण्ठ्यो धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः ॥ 15 ॥

श्लोक 10.44.16

प्रातर् व्रजाद् व्रजत आविशतश् च सायं गोभिः समं क्वणयतो ऽस्य निशम्य वेणुम् &अम्प्; निर्गम्य तूर्णम् अबलाः पथि भूरिपुण्याः पश्यन्ति सस्मितमुखं सदयावलोकम् ॥ 16 ॥

श्लोक 10.44.17

एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः । शत्रुं हन्तुं मनश् चक्रे भगवान् भरतर्षभ ॥ 17 ॥

श्लोक 10.44.18

सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचातुरौ । पितराव् अन्वतप्येतां पुत्रयोर् अबुधौ बलम् ॥ 18 ॥

श्लोक 10.44.19

तैस् तैर् नियुद्धविधिभिर् विविधैर् अच्युतेतरौ । युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ ॥ 19 ॥

श्लोक 10.44.20

भगवद्गात्रनिष्पातैर् वज्रनीष्पेषनिष्ठुरैः । चाणूरो भज्यमानाङ्गो मुहुर् ग्लानिम् अवाप ह ॥ 20 ॥

श्लोक 10.44.21

स श्येनवेग उत्पत्य मुष्टीकृत्य कराव् उभौ । भगवन्तं वासुदेवं क्रुद्धो वक्षस्य् अबाधत ॥ 21 ॥

श्लोक 10.44.22

नाचलत् तत्प्रहारेण मालाहत इव द्विपः । बाह्वोर् निगृह्य चाणूरं बहुशो भ्रामयन् हरिः ॥ 22 ॥

श्लोक 10.44.23

भूपृष्ठे पोथयाम् आस तरसा क्षीण जीवितम् । विस्रस्ताकल्पकेशस्रग् इन्द्रध्वज इवापतत् ॥ 23 ॥

श्लोक 10.44.24

तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै । बलभद्रेण बलिना तलेनाभिहतो भृशम् ॥ 24 ॥

श्लोक 10.44.25

प्रवेपितः स रुधिरम् उद्वमन् मुखतो ऽर्दितः । व्यसुः पपातोर्व्य्उपस्थे वाताहत इवाङ्घ्रिपः ॥ 25 ॥

श्लोक 10.44.26

ततः कूटम् अनुप्राप्तं रामः प्रहरतां वरः । अवधील् लीलया राजन् सावज्ञं वाममुष्टिना ॥ 26 ॥

श्लोक 10.44.27

तर्ह्य् एव हि शलः कृष्णप्रपदाहतशीर्षकः । द्विधा विदीर्णस् तोशलक उभाव् अपि निपेततुः ॥ 27 ॥

श्लोक 10.44.28

चाणूरे मुष्टिके कूटे शले तोशलके हते । शेषाः प्रदुद्रुवुर् मल्लाः सर्वे प्राणपरीप्सवः ॥ 28 ॥

श्लोक 10.44.29

गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः । वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ ॥ 29 ॥

श्लोक 10.44.30

जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः । ऋते कंसं विप्रमुख्याः साधवः साधु साध्व् इति ॥ 30 ॥

श्लोक 10.44.31

हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् । न्यवारयत् स्वतूर्याणि वाक्यं चेदम् उवाच ह ॥ 31 ॥

श्लोक 10.44.32

निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् । धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम् ॥ 32 ॥

श्लोक 10.44.33

वसुदेवस् तु दुर्मेधा हन्यताम् आश्व् असत्तमः । उग्रसेनः पिता चापि सानुगः परपक्षगः ॥ 33 ॥

श्लोक 10.44.34

एवं विकत्थमाने वै कंसे प्रकुपितो ऽव्ययः । लघिम्नोत्पत्य तरसा मञ्चम् उत्तुङ्गम् आरुहत् ॥ 34 ॥

श्लोक 10.44.35

तम् आविशन्तम् आलोक्य मृत्युम् आत्मन आसनात् । मनस्वी सहसोत्थाय जगृहे सो ऽसिचर्मणी ॥ 35 ॥

श्लोक 10.44.36

तं खड्गपाणिं विचरन्तम् आशु श्येनं यथा दक्षिणसव्यम् अम्बरे । समग्रहीद् दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य ॥ 36 ॥

श्लोक 10.44.37

प्रगृह्य केशेषु चलत्किरीतं निपात्य रङ्गोपरि तुङ्गमञ्चात् । तस्योपरिष्टात् स्वयम् अब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः ॥ 37 ॥

श्लोक 10.44.38

तं सम्परेतं विचकर्ष भूमौ हरिर् यथेभं जगतो विपश्यतः । हा हेति शब्दः सुमहांस् तदाभूद् उदीरितः सर्वजनैर् नरेन्द्र ॥ 38 ॥

श्लोक 10.44.39

स नित्यदोद्विग्नधिया तम् ईश्वरं पिबन्न् अदन् वा विचरन् स्वपन् श्वसन् । ददर्श चक्रायुधम् अग्रतो यतस् तद् एव रूपं दुरवापम् आप ॥ 39 ॥

श्लोक 10.44.40

तस्यानुजा भ्रातरो ऽष्टौ कङ्कन्यग्रोधकादयः । अभ्यधावन्न् अतिक्रुद्धा भ्रातुर् निर्वेशकारिणः ॥ 40 ॥

श्लोक 10.44.41

तथातिरभसांस् तांस् तु संयत्तान् रोहिणीसुतः । अहन् परिघम् उद्यम्य पशून् इव मृगाधिपः ॥ 41 ॥

श्लोक 10.44.42

नेदुर् दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः । पुष्पैः किरन्तस् तं प्रीताः शशंसुर् ननृतुः स्त्रियः ॥ 42 ॥

श्लोक 10.44.43

तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः । तत्राभीयुर् विनिघ्नन्त्यः शीर्षाण्य् अश्रुविलोचनाः ॥ 43 ॥

श्लोक 10.44.44

शयानान् वीरशयायां पतीन् आलिङ्ग्य शोचतीः । विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः ॥ 44 ॥

श्लोक 10.44.45

हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल । त्वया हतेन निहता वयं ते सगृहप्रजाः ॥ 45 ॥

श्लोक 10.44.46

त्वया विरहिता पत्या पुरीयं पुरुषर्षभ । न शोभते वयम् इव निवृत्तोत्सवमङ्गला ॥ 46 ॥

श्लोक 10.44.47

अनागसां त्वं भूतानां कृतवान् द्रोहम् उल्बणम् । तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम् ॥ 47 ॥

श्लोक 10.44.48

सर्वेषाम् इह भूतानाम् एष हि प्रभवाप्ययः । गोप्ता च तद्अवध्यायी न क्वचित् सुखम् एधते ॥ 48 ॥

श्लोक 10.44.49

राजयोषित आश्वास्य भगवांल् लोकभावनः । याम् आहुर् लौकिकीं संस्थां हतानां समकारयत् ॥ 49 ॥

श्लोक 10.44.50

मातरं पितरं चैव मोचयित्वाथ बन्धनात् । कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः ॥ 50 ॥

श्लोक 10.44.51

देवकी वसुदेवश् च विज्ञाय जगद्ईश्वरौ । कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ ॥ 51 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ