मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 45

श्रीमद्भागवत दशम स्कन्ध अध्याय 45 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.45.1

पितराव् उपलब्धार्थौ विदित्वा पुरुषोत्तमः । मा भूद् इति निजां मायां ततान जनमोहिनीम् ॥ 1 ॥

श्लोक 10.45.2

उवाच पितराव् एत्य साग्रजः सात्वनर्षभः । प्रश्रयावनतः प्रीणन्न् अम्ब तातेति सादरम् ॥ 2 ॥

श्लोक 10.45.3

नास्मत्तो युवयोस् तात नित्योत्कण्ठितयोर् अपि । बाल्यपौगण्डकैशोराः पुत्राभ्याम् अभवन् क्वचित् ॥ 3 ॥

श्लोक 10.45.4

न लब्धो दैवहतयोर् वासो नौ भवद्अन्तिके । यां बालाः पितृगेहस्था विन्दन्ते लालिता मुदम् ॥ 4 ॥

श्लोक 10.45.5

सर्वार्थसम्भवो देहो जनितः पोषितो यतः । न तयोर् याति निर्वेशं पित्रोर् मर्त्यः शतायुषा ॥ 5 ॥

श्लोक 10.45.6

यस् तयोर् आत्मजः कल्प आत्मना च धनेन च । वृत्तिं न दद्यात् तं प्रेत्य स्वमांसं खादयन्ति हि ॥ 6 ॥

श्लोक 10.45.7

मातरं पितरं वृद्धं भार्यां साध्वीं सुतम् शिशुम् । गुरुं विप्रं प्रपन्नं च कल्पो ऽबिभ्रच् छ्वसन्मृतः ॥ 7 ॥

श्लोक 10.45.8

तन् नाव् अकल्पयोः कंसान् नित्यम् उद्विग्नचेतसोः । मोघम् एते व्यतिक्रान्ता दिवसा वाम् अनर्चतोः ॥ 8 ॥

श्लोक 10.45.9

तत् क्षन्तुम् अर्हथस् तात मातर् नौ परतन्त्रयोः । अकुर्वतोर् वां शुश्रूषां क्लिष्टयोर् दुर्हृदा भृशम् ॥ 9 ॥

श्लोक 10.45.10

इति मायामनुष्यस्य हरेर् विश्वात्मनो गिरा । मोहिताव् अङ्कम् आरोप्य परिष्वज्यापतुर् मुदम् ॥ 10 ॥

श्लोक 10.45.11

सिञ्चन्ताव् अश्रुधाराभिः स्नेहपाशेन चावृतौ । न किञ्चिद् ऊचतू राजन् बाष्पकण्ठौ विमोहितौ ॥ 11 ॥

श्लोक 10.45.12

एवम् आश्वास्य पितरौ भगवान् देवकीसुतः । मातामहं तूग्रसेनं यदूनाम् अकरोन् णृपम् ॥ 12 ॥

श्लोक 10.45.13

आह चास्मान् महाराज प्रजाश् चाज्ञप्तुम् अर्हसि । ययातिशापाद् यदुभिर् नासितव्यं नृपासने ॥ 13 ॥

श्लोक 10.45.14

मयि भृत्य उपासीने भवतो विबुधादयः । बलिं हरन्त्य् अवनताः किम् उतान्ये नराधिपाः ॥ 14 ॥

श्लोक 10.45.15

सर्वान् स्वान् ज्ञतिसम्बन्धान् दिग्भ्यः कंसभयाकुलान् । यदुवृष्ण्य्अन्धकमधु दाशार्हकुकुरादिकान् ॥ 15 ॥

श्लोक 10.45.16

सभाजितान् समाश्वास्य विदेशावासकर्शितान् । न्यवासयत् स्वगेहेषु वित्तैः सन्तर्प्य विश्वकृत् ॥ 16 ॥

श्लोक 10.45.17

कृष्णसङ्कर्षणभुजैर् गुप्ता लब्धमनोरथाः । गृहेषु रेमिरे सिद्धाः कृष्णरामगतज्वराः ॥ 17 ॥

श्लोक 10.45.18

वीक्षन्तो ऽहर् अहः प्रीता मुकुन्दवदनाम्बुजम् । नित्यं प्रमुदितं श्रीमत् सदयस्मितवीक्षणम् ॥ 18 ॥

श्लोक 10.45.19

तत्र प्रवयसो ऽप्य् आसन् युवानो ऽतिबलौजसः । पिबन्तो ऽक्षैर् मुकुन्दस्य मुखाम्बुजसुधां मुहुः ॥ 19 ॥

श्लोक 10.45.20

अथ नन्दं समसाद्य भगवान् देवकीसुतः । सङ्कर्षणश् च राजेन्द्र परिष्वज्येदम् ऊचतुः ॥ 20 ॥

श्लोक 10.45.21

पितर् युवाभ्यां स्निग्धाभ्यां पोषितौ लालितौ भृशम् । पित्रोर् अभ्यधिका प्रीतिर् आत्मजेष्व् आत्मनो ऽपि हि ॥ 21 ॥

श्लोक 10.45.22

स पिता सा च जननी यौ पुष्णीतां स्वपुत्रवत् । शिशून् बन्धुभिर् उत्सृष्टान् अकल्पैः पोषरक्षणे ॥ 22 ॥

श्लोक 10.45.23

यात यूयं व्रजंन् तात वयं च स्नेहदुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ 23 ॥

श्लोक 10.45.24

एवं सान्त्वय्य भगवान् नन्दं सव्रजम् अच्युतः । वासोऽलङ्कारकुप्याद्यैर् अर्हयाम् आस सादरम् ॥ 24 ॥

श्लोक 10.45.25

इत्य् उक्तस् तौ परिष्वज्य नन्दः प्रणयविह्वलः । पूरयन्न् अश्रुभिर् नेत्रे सह गोपैर् व्रजं ययौ ॥ 25 ॥

श्लोक 10.45.26

अथ शूरसुतो राजन् पुत्रयोः समकारयत् । पुरोधसा ब्राह्मणैश् च यथावद् द्विजसंस्कृतिम् ॥ 26 ॥

श्लोक 10.45.27

तेभ्यो ऽदाद् दक्षिणा गावो रुक्ममालाः स्व्अलङ्कृताः । स्व्अलङ्कृतेभ्यः सम्पूज्य सवत्साः क्षौममालिनीः ॥ 27 ॥

श्लोक 10.45.28

याः कृष्णरामजन्मर्क्षे मनोदत्ता महामतिः । ताश् चाददाद् अनुस्मृत्य कंसेनाधर्मतो हृताः ॥ 28 ॥

श्लोक 10.45.29

ततश् च लब्धसंस्कारौ द्विजत्वं प्राप्य सुव्रतौ । गर्गाद् यदुकुलाचार्याद् गायत्रं व्रतम् आस्थितौ ॥ 29 ॥

श्लोक 10.45.30

प्रभवौ सर्वविद्यानां सर्वज्ञौ जगद्ईश्वरौ । नान्यसिद्धामलं ज्ञानं गूहमानौ नरेहितैः ॥ 30 ॥

श्लोक 10.45.31

अथो गुरुकुले वासम् इच्छन्ताव् उपजग्मतुः । काश्यं सान्दीपनिं नाम ह्य् अवन्तिपुरवासिनम् ॥ 31 ॥

श्लोक 10.45.32

यथोपसाद्य तौ दान्तौ गुरौ वृत्तिम् अनिन्दिताम् । ग्राहयन्ताव् उपेतौ स्म भक्त्या देवम् इवादृतौ ॥ 32 ॥

श्लोक 10.45.33

तयोर् द्विजवरस् तुष्टः शुद्धभावानुवृत्तिभिः । प्रोवाच वेदान् अखिलान् सङ्गोपनिषदो गुरुः ॥ 33 ॥

श्लोक 10.45.34

सरहस्यं धनुर्वेदं धर्मान् न्यायपथांस् तथा । तथा चान्वीक्षिकीं विद्यां राजनीतिं च षड्विधाम् ॥ 34 ॥

श्लोक 10.45.35

सर्वं नरवरश्रेष्ठौ सर्वविद्याप्रवर्तकौ । सकृन् निगदमात्रेण तौ सञ्जगृहतुर् नृप ॥ 35 ॥

श्लोक 10.45.36

अहोरात्रैश् चतुःषष्ट्या संयत्तौ तावतीः कलाः । गुरुदक्षिणयाचार्यं छन्दयाम् आसतुर् नृप ॥ 36 ॥

श्लोक 10.45.37

द्विजस् तयोस् तं महिमानम् अद्भुतं संलोक्ष्य राजन्न् अतिमानुसीं मतिम् &अम्प्; सम्मन्त्र्य पत्न्या स महार्णवे मृतं बालं प्रभासे वरयां बभूव ह ॥ 37 ॥

श्लोक 10.45.38

तेथेत्य् अथारुह्य महारथौ रथं प्रभासम् आसाद्य दुरन्तविक्रमौ । वेलाम् उपव्रज्य निषीदतुः क्षनं सिन्धुर् विदित्वार्हनम् आहरत् तयोः ॥ 38 ॥

श्लोक 10.45.39

तम् आह भगवान् आशु गुरुपुत्रः प्रदीयताम् । यो ऽसाव् इह त्वया ग्रस्तो बालको महतोर्मिणा ॥ 39 ॥

श्लोक 10.45.40

न चाहार्षम् अहं देव दैत्यः पञ्चजनो महान् । अन्तर्जलचरः कृष्ण शङ्खरूपधरो ऽसुरः ॥ 40 ॥

श्लोक 10.45.41

आस्ते तेनाहृतो नूनं तच् छ्रुत्वा सत्वरं प्रभुः । जलम् आविश्य तं हत्वा नापश्यद् उदरे ऽर्भकम् ॥ 41 ॥

श्लोक 10.45.42

तद्अङ्गप्रभवं शङ्खम् आदाय रथम् आगमत् । ततः संयमनीं नाम यमस्य दयितां पुरीम् ॥ 42 ॥

श्लोक 10.45.43

गत्वा जनार्दनः शङ्खं प्रदध्मौ सहलायुधः । शङ्खनिर्ह्रादम् आकर्ण्य प्रजासंयमनो यमः ॥ 43 ॥

श्लोक 10.45.44

तयोः सपर्यां महतीं चक्रे भक्त्य्उपबृंहिताम् । उवाचावनतः कृष्णं सर्वभूताशयालयम् । लीलामनुष्ययोर् विष्णो युवयोः करवाम किम् ॥ 44 ॥

श्लोक 10.45.45

गुरुपुत्रम् इहानीतं निजकर्मनिबन्धनम् । आनयस्व महाराज मच्छासनपुरस्कृतः ॥ 45 ॥

श्लोक 10.45.46

तथेति तेनोपानीतं गुरुपुत्रं यदूत्तमौ । दत्त्वा स्वगुरवे भूयो वृणीष्वेति तम् ऊचतुः ॥ 46 ॥

श्लोक 10.45.47

सम्यक् सम्पादितो वत्स भवद्भ्यां गुरुनिष्क्रयः । को नु युष्मद्विधगुरोः कामानाम् अवशिष्यते ॥ 47 ॥

श्लोक 10.45.48

गच्छतं स्वगृहं वीरौ कीर्तिर् वाम् अस्तु पावनी । छन्दांस्य् अयातयामानि भवन्त्व् इह परत्र च ॥ 48 ॥

श्लोक 10.45.49

गुरुणैवम् अनुज्ञातौ रथेनानिलरंहसा । आयातौ स्वपुरं तात पर्जन्यनिनदेन वै ॥ 49 ॥

श्लोक 10.45.50

समनन्दन् प्रजाः सर्वा दृष्ट्वा रामजनार्दनौ । अपश्यन्त्यो बह्व् अहानि नष्टलब्धधना इव ॥ 50 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ