मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 46

श्रीमद्भागवत दशम स्कन्ध अध्याय 46 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.46.1

वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा । शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धिसत्तमः ॥ 1 ॥

श्लोक 10.46.2

तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् । गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ॥ 2 ॥

श्लोक 10.46.3

गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह । गोपीनां मद्वियोगाधिं मत्सन्देशैर् विमोचय ॥ 3 ॥

श्लोक 10.46.4

ता मन्मनस्का तृष्ट्प्राणा मद्अर्थे त्यक्तदैहिकाः । माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः । ये त्यक्तलोकधर्माश् च मद्अर्थे तान् बिभर्म्य् अहम् ॥ 4 ॥

श्लोक 10.46.5

मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः । स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥ 5 ॥

श्लोक 10.46.6

धारयन्त्य् अतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमनसन्देशैर् बल्लव्यो मे मद्आत्मिकाः ॥ 6 ॥

श्लोक 10.46.7

इत्य् उक्त उद्धवो राजन् सन्देशं भर्तुर् आदृतः । आदाय रथम् आरुह्य प्रययौ नन्दगोकुलम् ॥ 7 ॥

श्लोक 10.46.8

प्राप्तो नन्दव्रजं श्रीमान् निम्लोचति विभावसौ । छन्नयानः प्रविशतां पशूनां खुररेणुभिः ॥ 8 ॥

श्लोक 10.46.9

वासितार्थे ऽभियुध्यद्भिर् नादितं शुश्मिभिर् वृषैः । धावन्तीभिश् च वास्राभिर् उधोभारैः स्ववत्सकान् ॥ 9 ॥

श्लोक 10.46.10

इतस् ततो विलङ्घद्भिर् गोवत्सैर् मण्डितं सितैः । गोदोहशब्दाभिरवं वेणूनां निःस्वनेन च ॥ 10 ॥

श्लोक 10.46.11

गायन्तीभिश् च कर्माणि शुभानि बलकृष्णयोः । स्व्अलङ्कृताभिर् गोपीभिर् गोपैश् च सुविराजितम् ॥ 11 ॥

श्लोक 10.46.12

अग्न्य्अर्कातिथिगोविप्रपितृदेवार्चनान्वितैः । धूपदीपैश् च माल्यैश् च गोपावासैर् मनोरमम् ॥ 12 ॥

श्लोक 10.46.13

सर्वतः पुष्पितवनं द्विजालिकुलनादितम् । हंसकारण्डवाकीर्णैः पद्मषण्डैश् च मण्डितम् ॥ 13 ॥

श्लोक 10.46.14

तम् आगतं समागम्य कृष्णस्यानुचरं प्रियम् । नन्दः प्रीतः परिष्वज्य वासुदेवधियार्चयत् ॥ 14 ॥

श्लोक 10.46.15

भोजितं परमान्नेन संविष्टं कशिपौ सुखम् । गतश्रमं पर्यपृच्छत् पादसंवाहनादिभिः ॥ 15 ॥

श्लोक 10.46.16

कच्चिद् अङ्ग महाभाग सखा नः शूरनन्दनः । आस्ते कुशल्य् अपत्याद्यैर् युक्तो मुक्तः सुहृद्व्रतः ॥ 16 ॥

श्लोक 10.46.17

दिष्ट्या कंसो हतः पापः सानुगः स्वेन पाप्मना । साधूनां धर्मशीलानां यदूनां द्वेष्टि यः सदा ॥ 17 ॥

श्लोक 10.46.18

अपि स्मरति नः कृष्णो मातरं सुहृदः सखीन् । गोपान् व्रजं चात्मनाथं गावो वृन्दावनं गिरिम् ॥ 18 ॥

श्लोक 10.46.19

अप्य् आयास्यति गोविन्दः स्वजनान् सकृद् ईक्षितुम् । तर्हि द्रक्ष्याम तद्वक्त्रं सुनसं सुस्मितेक्षणम् ॥ 19 ॥

श्लोक 10.46.20

दावाग्नेर् वातवर्षाच् च वृषसर्पाच् च रक्षिताः । दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना ॥ 20 ॥

श्लोक 10.46.21

स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम् । हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः ॥ 21 ॥

श्लोक 10.46.22

सरिच्छैलवनोद्देशान् मुकुन्दपदभूषितान् । आक्रीडान् ईक्ष्यमाणानां मनो याति तद्आत्मताम् ॥ 22 ॥

श्लोक 10.46.23

मन्ये कृष्णं च रामं च प्राप्ताव् इह सुरोत्तमौ । सुराणां महद्अर्थाय गर्गस्य वचनं यथा ॥ 23 ॥

श्लोक 10.46.24

कंसं नागायुतप्राणं मल्लौ गजपतिं यथा । अवधिष्टां लीलयैव पशून् इव मृगाधिपः ॥ 24 ॥

श्लोक 10.46.25

तालत्रयं महासारं धनुर् यष्टिम् इवेभराट् । बभञ्जैकेन हस्तेन सप्ताहम् अदधाद् गिरिम् ॥ 25 ॥

श्लोक 10.46.26

प्रलम्बो धेनुको ऽरिष्टस् तृणावर्तो बकादयः । दैत्याः सुरासुरजितो हता येनेह लीलया ॥ 26 ॥

श्लोक 10.46.27

इति संस्मृत्य संस्मृत्य नन्दः कृष्णानुरक्तधीः । अत्य्उत्कण्ठो ऽभवत् तूष्णीं प्रेमप्रसरविह्वलः ॥ 27 ॥

श्लोक 10.46.28

यशोदा वर्ण्यमानानि पुत्रस्य चरितानि च । शृण्वन्त्य् अश्रूण्य् अवास्राक्षीत् स्नेहस्नुतपयोधरा ॥ 28 ॥

श्लोक 10.46.29

तयोर् इत्थं भगवति कृष्णे नन्दयशोदयोः । वीक्ष्यानुरागं परमं नन्दम् आहोद्धवो मुदा ॥ 29 ॥

श्लोक 10.46.30

युवां श्लाघ्यतमौ नूनं देहिनाम् इह मानद । नारायणे ऽखिलगुरौ यत् कृता मतिर् ईदृशी ॥ 30 ॥

श्लोक 10.46.31

एतौ हि विश्वस्य च बीजयोनी रामो मुकुन्दः पुरुषः प्रधानम् । अन्वीय भूतेषु विलक्षणस्य ज्ञानस्य चेशात इमौ पुराणौ ॥ 31 ॥

श्लोक 10.46.32

यस्मिन् जनः प्राणवियोगकाले क्षनं समावेश्य मनो ऽविशुद्धम् । निर्हृत्य कर्माशयम् आशु याति परां गतिं ब्रह्ममयो ऽर्कवर्णः ॥ 32 ॥

श्लोक 10.46.33

तस्मिन् भवन्ताव् अखिलात्महेतौ नारायणे कारणमर्त्यमूर्तौ । भावं विधत्तां नितरां महात्मन् किं वावशिष्टं युवयोः सुकृत्यम् ॥ 33 ॥

श्लोक 10.46.34

आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥ 34 ॥

श्लोक 10.46.35

हत्वा कंसं रङ्गमध्ये प्रतीपं सर्वसात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥ 35 ॥

श्लोक 10.46.36

मा खिद्यतं महाभागौ द्रक्ष्यथः कृष्णम् अन्तिके । अन्तर् हृदि स भूतानाम् आस्ते ज्योतिर् इवैधसि ॥ 36 ॥

श्लोक 10.46.37

न ह्य् अस्यास्ति प्रियः कश्चिन् नाप्रियो वास्त्य् अमानिनः । नोत्तमो नाधमो वापि समानस्यासमो ऽपि वा ॥ 37 ॥

श्लोक 10.46.38

न माता न पिता तस्य न भार्या न सुतादयः । नात्मीयो न परश् चापि न देहो जन्म एव च ॥ 38 ॥

श्लोक 10.46.39

न चास्य कर्म वा लोके सद्असन्मिश्रयोनिषु । क्रीडार्थं सो ऽपि साधूनां परित्राणाय कल्पते ॥ 39 ॥

श्लोक 10.46.40

सत्त्वं रजस् तम इति भजते निर्गुणो गुणान् । क्रीडन्न् अतीतो ऽपि गुणैः सृजत्य् अवन् हन्त्य् अजः ॥ 40 ॥

श्लोक 10.46.41

यथा भ्रमरिकादृष्ट्या भ्राम्यतीव महीयते । चित्ते कर्तरि तत्रात्मा कर्तेवाहंधिया स्मृतः ॥ 41 ॥

श्लोक 10.46.42

युवयोर् एव नैवायम् आत्मजो भगवान् हरिः । सर्वेषाम् आत्मजो ह्य् आत्मा पिता माता स ईश्वरः ॥ 42 ॥

श्लोक 10.46.43

दृष्टं श्रुतं भूतभवद्भविष्यत् स्थास्नुश् चरिष्णुर् महद् अल्पकं च &अम्प्; विनाच्युताद् वस्तु तरां न वाच्यं स एव सर्वं परमात्मभूतः ॥ 43 ॥

श्लोक 10.46.44

एवं निशा सा ब्रुवतोर् व्यतीता नन्दस्य कृष्णानुचरस्य राजन् । गोप्यः समुत्थाय निरूप्य दीपान् वास्तून् समभ्यर्च्य दौधीन्य् अमन्थुन् ॥ 44 ॥

श्लोक 10.46.45

ता दीपदीप्तैर् मणिभिर् विरेजू रज्जूर् विकर्षद्भुजकङ्कणस्रजः । चलन्नितम्बस्तनहारकुण्डलत्विषत्कपोलारुणकुङ्कुमाननाः ॥ 45 ॥

श्लोक 10.46.46

उद्गायतीनाम् अरविन्दलोचनं व्रजाङ्गनानां दिवम् अस्पृशद् ध्वनिः । दध्नश् च निर्मन्थनशब्दमिश्रितो निरस्यते येन दिशाम् अमङ्गलम् ॥ 46 ॥

श्लोक 10.46.47

भगवत्य् उदिते सूर्ये नन्दद्वारि व्रजौकसः । दृष्ट्वा रथं शातकौम्भं कस्यायम् इति चाब्रुवन् ॥ 47 ॥

श्लोक 10.46.48

अक्रूर आगतः किं वा यः कंसस्यार्थसाधकः । येन नीतो मधुपुरीं कृष्णः कमललोचनः ॥ 48 ॥

श्लोक 10.46.49

किं साधयिष्यत्य् अस्माभिर् भर्तुः प्रीतस्य निष्कृतिम् । ततः स्त्रीणां वदन्तीनाम् उद्धवो ऽगात् कृताह्निकः ॥ 49 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ