श्रीमद्भागवत दशम स्कन्ध अध्याय 47
श्रीमद्भागवत दशम स्कन्ध अध्याय 47 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.47.1
तं वीक्ष्य कृषानुचरं व्रजस्त्रियः प्रलम्बबाहुं नवकञ्जलोचनम् । पीताम्बरं पुष्करमालिनं लसन्मुखारविन्दं परिमृष्टकुण्डलम् ॥ 1 ॥
श्लोक 10.47.2
सुविस्मिताः को ऽयम् अपीव्यदर्शनः कुतश् च कस्याच्युतवेषभूषणः । इति स्म सर्वाः परिवव्रुर् उत्सुकास् तम् उत्तमःश्लोकपदाम्बुजाश्रयम् ॥ 2 ॥
श्लोक 10.47.3
तं प्रश्रयेणावनताः सुसत्कृतं सव्रीडहासेक्षणसूनृतादिभिः । रहस्य् अपृच्छन्न् उपविष्टम् आसने विज्ञाय सन्देशहरं रमापतेः ॥ 3 ॥
श्लोक 10.47.4
जानीमस् त्वां यदुपतेः पार्षदं समुपागतम् । भर्त्रेह प्रेषितः पित्रोर् भवान् प्रियचिकीर्षया ॥ 4 ॥
श्लोक 10.47.5
अन्यथा गोव्रजे तस्य स्मरणीयं न चक्ष्महे । स्नेहानुबन्धो बन्धूनां मुनेर् अपि सुदुस्त्यजः ॥ 5 ॥
श्लोक 10.47.6
अन्येष्व् अर्थकृता मैत्री यावद्अर्थविडम्बनम् । पुम्भिः स्त्रीषु कृता यद्वत् सुमनःस्व् इव षट्पदैः ॥ 6 ॥
श्लोक 10.47.7
निःस्वं त्यजन्ति गणिका अकल्पं नृपतिं प्रजाः । अधीतविद्या आचार्यम् ऋत्विजो दत्तदक्षिणम् ॥ 7 ॥
श्लोक 10.47.8
खगा वीतफलं वृक्षं भुक्त्वा चातिथयो गृहम् । दग्धं मृगास् तथारण्यं जारा भुक्त्वा रतां स्त्रियम् ॥ 8 ॥
श्लोक 10.47.9
इति गोप्यो हि गोविन्दे गतवाक्कायमानसाः । कृष्णदूते समायाते उद्धवे त्यक्तलौकिकाः ॥ 9 ॥
श्लोक 10.47.10
गायन्त्यः प्रीयकर्माणि रुदन्त्यश् च गतह्रियः । तस्य संस्मृत्य संस्मृत्य यानि कैशोरबाल्ययोः ॥ 10 ॥
श्लोक 10.47.11
काचिन् मधुकरं दृष्ट्वा ध्यायन्ती कृष्णसङ्गमम् । प्रियप्रस्थापितं दूतं कल्पयित्वेदम् अब्रवीत् ॥ 11 ॥
श्लोक 10.47.12
मधुप कितवबन्धो मा स्पृशङ्घ्रिं सपत्न्याः कुचविलुलितमालाकुङ्कुमश्मश्रुभिर् नः । वहतु मधुपतिस् तन्मानिनीनां प्रसादं यदुसदसि विडम्ब्यं यस्य दूतस् त्वम् ईदृक् ॥ 12 ॥
श्लोक 10.47.13
सकृद् अधरसुधां स्वां मोहिनीं पाययित्वा सुमनस इव सद्यस् तत्यजे ऽस्मान् भवादृक् । परिचरति कथं तत्पादपद्मं नु पद्मा ह्य् अपि बत हृतचेता ह्य् उत्तमःश्लोकजल्पैः ॥ 13 ॥
श्लोक 10.47.14
किम् इह बहु षड्अङ्घ्रे गायसि त्वं यदूनाम् अधिपतिम् अगृहाणाम् अग्रतो नः पुराणम् । विजयसखसखीनां गीयतां तत्प्रसङ्गः क्षपितकुचरुजस् ते कल्पयन्तीष्टम् इष्टाः ॥ 14 ॥
श्लोक 10.47.15
दिवि भुवि च रसायां काः स्त्रियस् तद्दुरापाः कपटरुचिरहासभ्रूविजृम्भस्य याः स्युः । चरणरज उपास्ते यस्य भूतिर् वयं का अपि च कृपणपक्षे ह्य् उत्तमःश्लोकशब्दः ॥ 15 ॥
श्लोक 10.47.16
विसृज शिरसि पादं वेद्म्य् अहं चातुकारैर् अनुनयविदुषस् ते ऽभ्येत्य दौत्यैर् मुकुन्दात् । स्वकृत इह विषृष्टापत्यपत्य्अन्यलोका व्यसृजद् अकृतचेताः किं नु सन्धेयम् अस्मिन् ॥ 16 ॥
श्लोक 10.47.17
मृगयुर् इव कपीन्द्रं विव्यधे लुब्धधर्मा स्त्रियम् अकृत विरूपां स्त्रीजितः कामयानाम् । बलिम् अपि बलिम् अत्त्वावेष्टयद् ध्वाङ्क्षवद् यस् तद् अलम् असितसख्यैर् दुस्त्यजस् तत्कथार्थः ॥ 17 ॥
श्लोक 10.47.18
यद्अनुचरितलीलाकर्णपीयूषविप्रुट्सकृद्अदनविधूतद्वन्द्वधर्मा विनष्टाः । सपदि गृहकुटुम्बं दीनम् उत्सृज्य दीना बहव इह विहङ्गा भिक्षुचर्यां चरन्ति ॥ 18 ॥
श्लोक 10.47.19
वयम् ऋतम् इव जिह्मव्याहृतं श्रद्दधानाः कुलिकरुतम् इवाज्ञाः कृष्णवध्वो हरिण्यः । ददृशुर् असकृद् एतत् तन्नखस्पर्शतीव्र स्मररुज उपमन्त्रिन् भण्यताम् अन्यवार्ता ॥ 19 ॥
श्लोक 10.47.20
प्रियसख पुनर् आगाः प्रेयसा प्रेषितः किं वरय किम् अनुरुन्धे माननीयो ऽसि मे ऽङ्ग । नयसि कथम् इहास्मान् दुस्त्यजद्वन्द्वपार्श्वं सततम् उरसि सौम्य श्रीर् वधूः साकम् आस्ते ॥ 20 ॥
श्लोक 10.47.21
अपि बत मधुपुर्याम् आर्यपुत्रो ऽधुनास्ते स्मरति स पितृगेहान् सौम्य बन्धूंश् च गोपान् । क्वचिद् अपि स कथा नः किङ्करीणां गृणीते भुजम् अगुरुसुगन्धं मूर्ध्न्य् अधास्यत् कदा नु ॥ 21 ॥
श्लोक 10.47.22
अथोद्धवो निशम्यैवं कृष्णदर्शनलालसाः । सान्त्वयन् प्रियसन्देशैर् गोपीर् इदम् अभाषत ॥ 22 ॥
श्लोक 10.47.23
अहो यूयं स्म पूर्णार्था भवत्यो लोकपूजिताः । वासुदेवे भगवति यासाम् इत्य् अर्पितं मनः ॥ 23 ॥
श्लोक 10.47.24
दानव्रततपोहोम जपस्वाध्यायसंयमैः । श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ 24 ॥
श्लोक 10.47.25
भगवत्य् उत्तमःश्लोके भवतीभिर् अनुत्तमा । भक्तिः प्रवर्तिता दिष्ट्या मुनीनाम् अपि दुर्लभा ॥ 25 ॥
श्लोक 10.47.26
दिष्ट्या पुत्रान् पतीन् देहान् स्वजनान् भवनानि च । हित्वावृनीत यूयं यत् कृष्णाख्यं पुरुषं परम् ॥ 26 ॥
श्लोक 10.47.27
सर्वात्मभावो ऽधिकृतो भवतीनाम् अधोक्षजे । विरहेण महाभागा महान् मे ऽनुग्रहः कृतः ॥ 27 ॥
श्लोक 10.47.28
श्रूयतां प्रियसन्देशो भवतीनां सुखावहः । यम् आदायागतो भद्रा अहं भर्तू रहस्करः ॥ 28 ॥
श्लोक 10.47.29
भवतीनां वियोगो मे न हि सर्वात्मना क्वचित् । यथा भूतानि भूतेषु खं वाय्व्अग्निर् जलं मही । तथाहं च मनःप्राणभूतेन्द्रियगुणाश्रयः ॥ 29 ॥
श्लोक 10.47.30
आत्मन्य् एवात्मनात्मानं सृजे हन्म्य् अनुपालये । आत्ममायानुभावेन भूतेन्द्रियगुणात्मना ॥ 30 ॥
श्लोक 10.47.31
आत्मा ज्ञानमयः शुद्धो व्यतिरिक्तो ऽगुणान्वयः । सुषुप्तिस्वप्नजाग्रद्भिर् मायावृत्तिभिर् ईयते ॥ 31 ॥
श्लोक 10.47.32
येनेन्द्रियार्थान् ध्यायेत मृषा स्वप्नवद् उत्थितः । तन् निरुन्ध्याद् इन्द्रियाणि विनिद्रः प्रत्यपद्यत ॥ 32 ॥
श्लोक 10.47.33
एतद्अन्तः समाम्नायो योगः साङ्ख्यं मनीषिणाम् । त्यागस् तपो दमः सत्यं समुद्रान्ता इवापगाः ॥ 33 ॥
श्लोक 10.47.34
यत् त्व् अहं भवतीनां वै दूरे वर्ते प्रियो दृशाम् । मनसः सन्निकर्षार्थं मद्अनुध्यानकाम्यया ॥ 34 ॥
श्लोक 10.47.35
यथा दूरचरे प्रेष्ठे मन आविश्य वर्तते । स्त्रीणां च न तथा चेतः सन्निकृष्टे ऽक्षिगोचरे ॥ 35 ॥
श्लोक 10.47.36
मय्य् आवेश्य मनः कृत्स्नं विमुक्ताशेषवृत्ति यत् । अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥ 36 ॥
श्लोक 10.47.37
या मया क्रीडता रात्र्यां वने ऽस्मिन् व्रज आस्थिताः । अलब्धरासाः कल्याण्यो मापुर् मद्वीर्यचिन्तया ॥ 37 ॥
श्लोक 10.47.38
एवं प्रियतमादिष्टम् आकर्ण्य व्रजयोषितः । ता ऊचुर् उद्धवं प्रीतास् तत्सन्देशागतस्मृतीः ॥ 38 ॥
श्लोक 10.47.39
दिष्ट्याहितो हतः कंसो यदूनां सानुगो ऽघकृत् । दिष्ट्याप्तैर् लब्धसर्वार्थैः कुशल्य् आस्ते ऽच्युतो ऽधुना ॥ 39 ॥
श्लोक 10.47.40
कच्चिद् गदाग्रजः सौम्य करोति पुरयोषिताम् । प्रीतिं नः स्निग्धसव्रीडहासोदारेक्षणार्चितः ॥ 40 ॥
श्लोक 10.47.41
कथं रतिविशेषज्ञः प्रियश् च पुरयोषिताम् । नानुबध्येत तद्वाक्यैर् विभ्रमैश् चानुभाजितः ॥ 41 ॥
श्लोक 10.47.42
अपि स्मरति नः साधो गोविन्दः प्रस्तुते क्वचित् । गोष्ठिमध्ये पुरस्त्रीणाम् ग्राम्याः स्वैरकथान्तरे ॥ 42 ॥
श्लोक 10.47.43
ताः किं निशाः स्मरति यासु तदा प्रियाभिर् वृन्दावने कुमुदकुन्दशशाङ्करम्ये &अम्प्; रेमे क्वणच्चरणनूपुररासगोष्ठ्याम् अस्माभिर् ईडितमनोज्ञकथः कदाचित् ॥ 43 ॥
श्लोक 10.47.44
अप्य् एष्यतीह दाशार्हस् तप्ताः स्वकृतया शुचा । सञ्जीवयन् नु नो गात्रैर् यथेन्द्रो वनम् अम्बुदैः ॥ 44 ॥
श्लोक 10.47.45
कस्मात् कृष्ण इहायाति प्राप्तराज्यो हताहितः । नरेन्द्रकन्या उद्वाह्य प्रीतः सर्वसुहृद्वृतः ॥ 45 ॥
श्लोक 10.47.46
किम् अस्माभिर् वनौकोभिर् अन्याभिर् वा महात्मनः । श्रीपतेर् आप्तकामस्य क्रियेतार्थः कृतात्मनः ॥ 46 ॥
श्लोक 10.47.47
परं सौख्यं हि नैराश्यं स्वैरिण्य् अप्य् आह पिङ्गला । तज् जानतीनां नः कृष्णे तथाप्य् आशा दुरत्यया ॥ 47 ॥
श्लोक 10.47.48
क उत्सहेत सन्त्यक्तुम् उत्तमःश्लोकसंविदम् । अनिच्छतो ऽपि यस्य श्रीर् अङ्गान् न च्यवते क्वचित् ॥ 48 ॥
श्लोक 10.47.49
सरिच्छैलवनोद्देशा गावो वेणुरवा इमे । सङ्कर्षणसहायेन कृष्णेनाचरिताः प्रभो ॥ 49 ॥
श्लोक 10.47.50
पुनः पुनः स्मारयन्ति नन्दगोपसुतं बत । श्रीनिकेतैस् तत्पदकैर् विस्मर्तुं नैव शक्नुमः ॥ 50 ॥
श्लोक 10.47.51
गत्या ललितयोदारहासलीलावलोकनैः । माध्व्या गिरा हृतधियः कथं तं विस्मराम हे ॥ 51 ॥
श्लोक 10.47.52
हे नाथ हे रमानाथ व्रजनाथार्तिनाशन । मग्नम् उद्धर गोविन्द गोकुलं वृजिनार्णवात् ॥ 52 ॥
श्लोक 10.47.53
ततस् ताः कृष्णसन्देशैर् व्यपेतविरहज्वराः । उद्धवं पूजयां चक्रुर् ज्ञात्वात्मानम् अधोक्षजम् ॥ 53 ॥
श्लोक 10.47.54
उवास कतिचिन् मासान् गोपीनां विनुदन् शुचः । कृष्णलीलाकथां गायन् रमयाम् आस गोकुलम् ॥ 54 ॥
श्लोक 10.47.55
यावन्त्य् अहानि नन्दस्य व्रजे ऽवात्सीत् स उद्धवः । व्रजौकसां क्षणप्रायाण्य् आसन् कृष्णस्य वार्तया ॥ 55 ॥
श्लोक 10.47.56
सरिद्वनगिरिद्रोणीर् वीक्षन् कुसुमितान् द्रुमान् । कृष्णं संस्मारयन् रेमे हरिदासो व्रजौकसाम् ॥ 56 ॥
श्लोक 10.47.57
दृष्ट्वैवम्आदि गोपीनां कृष्णावेशात्मविक्लवम् । उद्धवः परमप्रीतस् ता नमस्यन्न् इदं जगौ ॥ 57 ॥
श्लोक 10.47.58
एताः परं तनुभृतो भुवि गोपवध्वो गोविन्द एव निखिलात्मनि रूढभावाः &अम्प्; वाञ्छन्ति यद् भवभियो मुनयो वयं च किं ब्रह्मजन्मभिर् अनन्तकथारसस्य ॥ 58 ॥
श्लोक 10.47.59
क्वेमाः स्त्रियो वनचरीर् व्यभिचारदुष्टाः कृष्णे क्व चैष परमात्मनि रूढभावः । नन्व् ईश्वरो ऽनुभजतो ऽविदुषो ऽपि साक्षाच् छ्रेयस् तनोत्य् अगदराज इवोपयुक्तः ॥ 59 ॥
श्लोक 10.47.60
नायं श्रियो ऽङ्ग उ नितान्तरतेः प्रसादः स्वर्योषितां नलिनगन्धरुचां कुतो ऽन्याः । रासोत्सवे ऽस्य भुजदण्डगृहीतकण्ठलब्धाशिषां य उदगाद् व्रजवल्लभीनाम् ॥ 60 ॥
श्लोक 10.47.61
आसाम् अहो चरणरेणुजुषाम् अहं स्यां वृन्दावने किम् अपि गुल्मलतौषधीनाम् । या दुस्त्यजं स्वजनम् आर्यपथं च हित्वा भेजुर् मुकुन्दपदवीं श्रुतिभिर् विमृग्याम् ॥ 61 ॥
श्लोक 10.47.62
या वै श्रियार्चितम् अजादिभिर् आप्तकामैर् योगेश्वरैर् अपि यद् आत्मनि रासगोष्ठ्याम् । कृष्णस्य तद् भगवतः चरणारविन्दं न्यस्तं स्तनेषु विजहुः परिरभ्य तापम् ॥ 62 ॥
श्लोक 10.47.63
वन्दे नन्दव्रजस्त्रीणां पादरेणुम् अभीक्ष्णशः । यासां हरिकथोद्गीतं पुनाति भुवनत्रयम् ॥ 63 ॥
श्लोक 10.47.64
अथ गोपीर् अनुज्ञाप्य यशोदां नन्दम् एव च । गोपान् आमन्त्र्य दाशार्हो यास्यन्न् आरुरुहे रथम् ॥ 64 ॥
श्लोक 10.47.65
तं निर्गतं समासाद्य नानोपायनपाणयः । नन्दादयो ऽनुरागेण प्रावोचन्न् अश्रुलोचनाः ॥ 65 ॥
श्लोक 10.47.66
मनसो वृत्तयो नः स्युः कृष्ण पादाम्बुजाश्रयाः । वाचो ऽभिधायिनीर् नाम्नां कायस् तत्प्रह्वणादिषु ॥ 66 ॥
श्लोक 10.47.67
कर्मभिर् भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया । मङ्गलाचरितैर् दानै रतिर् नः कृष्ण ईश्वरे ॥ 67 ॥
श्लोक 10.47.68
एवं सभाजितो गोपैः कृष्णभक्त्या नराधिप । उद्धवः पुनर् आगच्छन् मथुरां कृष्णपालिताम् ॥ 68 ॥
श्लोक 10.47.69
कृष्णाय प्रणिपत्याह भक्त्य्उद्रेकं व्रजौकसाम् । वसुदेवाय रामाय राज्ञे चोपायनान्य् अदात् ॥ 69 ॥