मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 48

श्रीमद्भागवत दशम स्कन्ध अध्याय 48 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.48.1

अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः । सैरन्ध्र्याः कामतप्तायाः प्रियम् इच्छन् गृहं ययौ ॥ 1 ॥

श्लोक 10.48.2

महार्होपस्करैर् आढ्यं कामोपायोपबृंहितम् । मुक्तादामपताकाभिर् वितानशयनासनैः । धूपैः सुरभिभिर् दीपैः स्रग्गन्धैर् अपि मण्डितम् ॥ 2 ॥

श्लोक 10.48.3

गृहं तम् आयान्तम् अवेक्ष्य सासनात् सद्यः समुत्थाय हि जातसम्भ्रमा । यथोपसङ्गम्य सखीभिर् अच्युतं सभाजयाम् आस सद्आसनादिभिः ॥ 3 ॥

श्लोक 10.48.4

तथोद्धवः साधुतयाभिपूजितो न्यषीदद् उर्व्याम् अभिमृश्य चासनम् । कृष्णो ऽपि तूर्णं शयनं महाधनं विवेश लोकाचरितान्य् अनुव्रतः ॥ 4 ॥

श्लोक 10.48.5

सा मज्जनालेपदुकूलभूषण स्रग्गन्धताम्बूलसुधासवादिभिः । प्रसाधितात्मोपससार माधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः ॥ 5 ॥

श्लोक 10.48.6

आहूय कान्तां नवसङ्गमह्रिया विशङ्कितां कङ्कणभूषिते करे । प्रगृह्य शय्याम् अधिवेश्य रामया रेमे ऽनुलेपार्पणपुण्यलेशया ॥ 6 ॥

श्लोक 10.48.7

सानङ्गतप्तकुचयोर् उरसस् तथाक्ष्णोर् जिघ्रन्त्य् अनन्तचरणेन रुजो मृजन्ती &अम्प्; दोर्भ्यां स्तनान्तरगतं परिरभ्य कान्तम् आनन्दमूर्तिम् अजहाद् अतिदीर्घतापम् ॥ 7 ॥

श्लोक 10.48.8

सैवं कैवल्यनाथं तं प्राप्य दुष्प्राप्यम् ईश्वरम् । अङ्गरागार्पणेनाहो दुर्भगेदम् अयाचत ॥ 8 ॥

श्लोक 10.48.9

सहोष्यताम् इह प्रेष्ठ दिनानि कतिचिन् मया । रमस्व नोत्सहे त्यक्तुं सङ्गं ते ऽम्बुरुहेक्षण ॥ 9 ॥

श्लोक 10.48.10

तस्यै कामवरं दत्त्वा मानयित्वा च मानदः । सहोद्धवेन सर्वेशः स्वधामागमद् ऋद्धिमत् ॥ 10 ॥

श्लोक 10.48.11

दुरार्ध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरम् । यो वृणीते मनोग्राह्यम् असत्त्वात् कुमनीष्य् असौ ॥ 11 ॥

श्लोक 10.48.12

अक्रूरभवनं कृष्णः सहरामोद्धवः प्रभुः । किञ्चिच् चिकीर्षयन् प्रागाद् अक्रूरप्रीयकाम्यया ॥ 12 ॥

श्लोक 10.48.13

स तान् नरवरश्रेष्ठान् आराद् वीक्ष्य स्वबान्धवान् । प्रत्युत्थाय प्रमुदितः परिष्वज्याभिनन्द्य च ॥ 13 ॥

श्लोक 10.48.14

ननाम कृष्णं रामं च स तैर् अप्य् अभिवादितः । पूजयाम् आस विधिवत् कृतासनपरिग्रहान् ॥ 14 ॥

श्लोक 10.48.15

पादावनेजनीर् आपो धारयन् शिरसा नृप । अर्हणेनाम्बरैर् दिव्यैर् गन्धस्रग्भूषणोत्तमैः ॥ 15 ॥

श्लोक 10.48.16

अर्चित्वा शिरसानम्य पादाव् अङ्कगतौ मृजन् । प्रश्रयावनतो ऽक्रूरः कृष्णरामाव् अभाषत ॥ 16 ॥

श्लोक 10.48.17

दिष्ट्या पापो हतः कंसः सानुगो वाम् इदं कुलम् । भवद्भ्याम् उद्धृतं कृच्छ्राद् दुरन्ताच् च समेधितम् ॥ 17 ॥

श्लोक 10.48.18

युवां प्रधानपुरुषौ जगद्धेतू जगन्मयौ । भवद्भ्यां न विना किञ्चित् परम् अस्ति न चापरम् ॥ 18 ॥

श्लोक 10.48.19

आत्मसृष्टम् इदं विश्वम् अन्वाविश्य स्वशक्तिभिः । ईयते बहुधा ब्रह्मन् श्रु तप्रत्यक्षगोचरम् ॥ 19 ॥

श्लोक 10.48.20

यथा हि भूतेषु चराचरेषु मह्य्आदयो योनिषु भान्ति नाना । एवं भवान् केवल आत्मयोनिष्व् आत्मात्मतन्त्रो बहुधा विभाति ॥ 20 ॥

श्लोक 10.48.21

सृजस्य् अथो लुम्पसि पासि विश्वं रजस्तमःसत्त्वगुणैः स्वशक्तिभिः । न बध्यसे तद्गुणकर्मभिर् वा ज्ञानात्मनस् ते क्व च बन्धहेतुः ॥ 21 ॥

श्लोक 10.48.22

देहाद्य्उपाधेर् अनिरूपितत्वाद् भवो न साक्षान् न भिदात्मनः स्यात् । अतो न बन्धस् तव नैव मोक्षः स्याताम् निकामस् त्वयि नो ऽविवेकः ॥ 22 ॥

श्लोक 10.48.23

त्वयोदितो ऽयं जगतो हिताय यदा यदा वेदपथः पुराणः । बाध्येत पाषण्डपथैर् असद्भिस् तदा भवान् सत्त्वगुणं बिभर्ति ॥ 23 ॥

श्लोक 10.48.24

स त्वम् प्रभो ऽद्य वसुदेवगृहे ऽवतीर्णः स्वांशेन भारम् अपनेतुम् इहासि भूमेः &अम्प्; अक्षौहिणीशतवधेन सुरेतरांशराज्ञाम् अमुष्य च कुलस्य यशो वितन्वन् ॥ 24 ॥

श्लोक 10.48.25

अद्येश नो वसतयः खलु भूरिभागा यः सर्वदेवपितृभूतनृदेवमूर्तिः । यत्पादशौचसलिलं त्रिजगत् पुनाति स त्वं जगद्गुरुर् अधोक्षज याः प्रविष्टः ॥ 25 ॥

श्लोक 10.48.26

कः पण्डितस् त्वद् अपरं शरणं समीयाद् भक्तप्रियाद् ऋतगिरः सुहृदः कृतज्ञात् । सर्वान् ददाति सुहृदो भजतो ऽभिकामान् आत्मानम् अप्य् उपचयापचयौ न यस्य ॥ 26 ॥

श्लोक 10.48.27

दिष्ट्या जनार्दन भवान् इह नः प्रतीतो योगेश्वरैर् अपि दुरापगतिः सुरेशैः । छिन्ध्य् आशु नः सुतकलत्रधनाप्तगेहदेहादिमोहरशनां भवदीयमायाम् ॥ 27 ॥

श्लोक 10.48.28

इत्य् अर्चितः संस्तुतश् च भक्तेन भगवान् हरिः । अक्रूरं सस्मितं प्राह गीर्भिः सम्मोहयन्न् इव ॥ 28 ॥

श्लोक 10.48.29

त्वं नो गुरुः पितृव्यश् च श्लाघ्यो बन्धुश् च नित्यदा । वयं तु रक्ष्याः पोष्याश् च अनुकम्प्याः प्रजा हि वः ॥ 29 ॥

श्लोक 10.48.30

भवद्विधा महाभागा निषेव्या अर्हसत्तमाः । श्रेयस्कामैर् नृभिर् नित्यं देवाः स्वार्था न साधवः ॥ 30 ॥

श्लोक 10.48.31

न ह्य् अम्मयानि तीर्थानि न देवा मृच्छिलामयाः । ते पुनन्त्य् उरुकालेन दर्शनाद् एव साधवः ॥ 31 ॥

श्लोक 10.48.32

स भवान् सुहृदां वै नः श्रेयान् श्रेयश्चिकीर्षया । जिज्ञासार्थं पाण्डवानां गच्छस्व त्वं गजाह्वयम् ॥ 32 ॥

श्लोक 10.48.33

पितर्य् उपरते बालाः सह मात्रा सुदुःखिताः । आनीताः स्वपुरं राज्ञा वसन्त इति शुश्रुम ॥ 33 ॥

श्लोक 10.48.34

तेषु राजाम्बिकापुत्रो भ्रातृपुत्रेषु दीनधीः । समो न वर्तते नूनं दुष्पुत्रवशगो ऽन्धदृक् ॥ 34 ॥

श्लोक 10.48.35

गच्छ जानीहि तद्वृत्तम् अधुना साध्व् असाधु वा । विज्ञाय तद् विधास्यामो यथा शं सुहृदां भवेत् ॥ 35 ॥

श्लोक 10.48.36

इत्य् अक्रूरं समादिश्य भगवान् हरिर् ईश्वरः । सङ्कर्षणोद्धवाभ्यां वै ततः स्वभवनं ययौ ॥ 36 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ