श्रीमद्भागवत दशम स्कन्ध अध्याय 49
श्रीमद्भागवत दशम स्कन्ध अध्याय 49 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.49.1
स गत्वा हास्तिनपुरं पौरवेन्द्रयशोऽङ्कितम् । ददर्श तत्राम्बिकेयं सभीष्मं विदुरं पृथाम् ॥ 1 ॥
श्लोक 10.49.2
सहपुत्रं च बाह्लीकं भारद्वाजं सगौतमम् । कर्नं सुयोधनं द्रौणिं पाण्डवान् सुहृदो ऽपरान् ॥ 2 ॥
श्लोक 10.49.3
यथावद् उपसङ्गम्य बन्धुभिर् गान्दिनीसुतः । सम्पृष्टस् तैः सुहृद्वार्तां स्वयं चापृच्छद् अव्ययम् ॥ 3 ॥
श्लोक 10.49.4
उवास कतिचिन् मासान् राज्ञो वृत्तविवित्सया । दुष्प्रजस्याल्पसारस्य खलच्छन्दानुवर्तिनः ॥ 4 ॥
श्लोक 10.49.5
तेज ओजो बलं वीर्यं प्रश्रयादींश् च सद्गुणान् । प्रजानुरागं पार्थेषु न सहद्भिश् चिकीऋषितम् ॥ 5 ॥
श्लोक 10.49.6
कृतं च धार्तराष्ट्रैर् यद् गरदानाद्य् अपेशलम् । आचख्यौ सर्वम् एवास्मै पृथा विदुर एव च ॥ 6 ॥
श्लोक 10.49.7
पृथा तु भ्रातरं प्राप्तम् अक्रूरम् उपसृत्य तम् । उवाच जन्मनिलयं स्मरन्त्य् अश्रुकलेक्षणा ॥ 7 ॥
श्लोक 10.49.8
अपि स्मरन्ति नः सौम्य पितरौ भ्रातरश् च मे । भगिन्यौ भ्रातृपुत्राश् च जामयः सख्य एव च ॥ 8 ॥
श्लोक 10.49.9
भ्रात्रेयो भगवान् कृष्णः शरण्यो भक्तवत्सलः । पैतृष्वस्रेयान् स्मरति रामश् चाम्बुरुहेक्षणः ॥ 9 ॥
श्लोक 10.49.10
सपत्नमध्ये शोचन्तीं वृकानां हरिणीम् इव । सान्त्वयिष्यति मां वाक्यैः पितृहीनांश् च बालकान् ॥ 10 ॥
श्लोक 10.49.11
कृष्ण कृष्ण महायोगिन् विश्वात्मन् विश्वभावन । प्रपन्नां पाहि गोविन्द शिशुभिश् चावसीदतीम् ॥ 11 ॥
श्लोक 10.49.12
नान्यत् तव पदाम्भोजात् पश्यामि शरणं नृणाम् । बिभ्यतां मृत्युसंसाराद् ईस्वरस्यापवर्गिकात् ॥ 12 ॥
श्लोक 10.49.13
नमः कृष्णाय शुद्धाय ब्रह्मणे परमात्मने । योगेश्वराय योगाय त्वाम् अहं शरणं गता ॥ 13 ॥
श्लोक 10.49.14
इत्य् अनुस्मृत्य स्वजनं कृष्णं च जगद्ईश्वरम् । प्रारुदद् दुःखिता राजन् भवतां प्रपितामही ॥ 14 ॥
श्लोक 10.49.15
समदुःखसुखो ऽक्रूरो विदुरश् च महायशाः । सान्त्वयाम् आसतुः कुन्तीं तत्पुत्रोत्पत्तिहेतुभिः ॥ 15 ॥
श्लोक 10.49.16
यास्यन् राजानम् अभ्येत्य विषमं पुत्रलालसम् । अवदत् सुहृदां मध्ये बन्धुभिः सौहृदोदितम् ॥ 16 ॥
श्लोक 10.49.17
भो भो वैचित्रवीर्य त्वं कुरूणां कीर्तिवर्धन । भ्रातर्य् उपरते पाण्डाव् अधुनासनम् आस्थितः ॥ 17 ॥
श्लोक 10.49.18
धर्मेण पालयन्न् उर्वीं प्रजाः शीलेन रञ्जयन् । वर्तमानः समः स्वेषु श्रेयः कीर्तिम् अवाप्स्यसि ॥ 18 ॥
श्लोक 10.49.19
अन्यथा त्व् आचरंल् लोके गर्हितो यास्यसे तमः । तस्मात् समत्वे वर्तस्व पाण्डवेष्व् आत्मजेषु च ॥ 19 ॥
श्लोक 10.49.20
नेह चात्यन्तसंवासः कस्यचित् केनचित् सह । राजन् स्वेनापि देहेन किम् उ जायात्मजादिभिः ॥ 20 ॥
श्लोक 10.49.21
एकः प्रसूयते जन्तुर् एक एव प्रलीयते । एको ऽनुभुङ्क्ते सुकृतम् एक एव च दुष्कृतम् ॥ 21 ॥
श्लोक 10.49.22
अधर्मोपचितं वित्तं हरन्त्य् अन्ये ऽल्पमेधसः । सम्भोजनीयापदेशैर् जलानीव जलौकसः ॥ 22 ॥
श्लोक 10.49.23
पुष्णाति यान् अधर्मेण स्वबुद्ध्या तम् अपण्डितम् । ते ऽकृतार्थं प्रहिण्वन्ति प्राणा रायः सुतादयः ॥ 23 ॥
श्लोक 10.49.24
स्वयं किल्बिषम् आदाय तैस् त्यक्तो नार्थकोविदः । असिद्धार्थो विशत्य् अन्धं स्वधर्मविमुखस् तमः ॥ 24 ॥
श्लोक 10.49.25
तस्माल् लोकम् इमं राजन् स्वप्नमायामनोरथम् । वीक्ष्यायम्यात्मनात्मानं समः शान्तो भव प्रभो ॥ 25 ॥
श्लोक 10.49.26
यथा वदति कल्याणीं वाचं दानपते भवान् । तथानया न तृप्यामि मर्त्यः प्राप्य यथामृतम् ॥ 26 ॥
श्लोक 10.49.27
तथापि सूनृता सौम्य हृदि न स्थीयते चले । पुत्रानुरागविषमे विद्युत् सौदामनी यथा ॥ 27 ॥
श्लोक 10.49.28
ईश्वरस्य विधिं को नु विधुनोत्य् अन्यथा पुमान् । भूमेर् भारावताराय यो ऽवतीर्णो यदोः कुले ॥ 28 ॥
श्लोक 10.49.29
यो दुर्विमर्शपथया निजमाययेदं सृष्ट्वा गुणान् विभजते तद्अनुप्रविष्टः &अम्प्; तस्मै नमो दुरवबोधविहारतन्त्रसंसारचक्रगतये परमेश्वराय ॥ 29 ॥
श्लोक 10.49.30
इत्य् अभिप्रेत्य नृपतेर् अभिप्रायं स यादवः । सुहृद्भिः समनुज्ञातः पुनर् यदुपुरीम् अगात् ॥ 30 ॥
श्लोक 10.49.31
शशंस रामकृष्णाभ्यां धृतराष्ट्रविचेष्टितम् । पाण्दवान् प्रति कौरव्य यद्अर्थं प्रेषितः स्वयम् ॥ 31 ॥