मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 50

श्रीमद्भागवत दशम स्कन्ध अध्याय 50 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.50.1

अस्तिः प्राप्तिश् च कंसस्य महिष्यौ भरतर्षभ । मृते भर्तरि दुःखार्ते ईयतुः स्म पितुर् गृहान् ॥ 1 ॥

श्लोक 10.50.2

पित्रे मगधराजाय जरासन्धाय दुःखिते । वेदयां चक्रतुः सर्वम् आत्मवैधव्यकारणम् ॥ 2 ॥

श्लोक 10.50.3

स तद् अप्रियम् आकर्ण्य शोकामर्षयुतो नृप । अयादवीं महीं कर्तुं चक्रे परमम् उद्यमम् ॥ 3 ॥

श्लोक 10.50.4

अक्षौहिणीभिर् विंशत्या तिसृभिश् चापि संवृतः । यदुराजधानीं मथुरां न्यरुधत् सर्वतो दिशम् ॥ 4 ॥

श्लोक 10.50.5

निरीक्ष्य तद्बलं कृष्ण उद्वेलम् इव सागरम् । स्वपुरं तेन संरुद्धं स्वजनं च भयाकुलम् ॥ 5 ॥

श्लोक 10.50.6

चिन्तयाम् आस भगवान् हरिः कारणमानुषः । तद्देशकालानुगुणं स्वावतारप्रयोजनम् ॥ 6 ॥

श्लोक 10.50.7

हनिष्यामि बलं ह्य् एतद् भुवि भारं समाहितम् । मागधेन समानीतं वश्यानां सर्वभूभुजाम् ॥ 7 ॥

श्लोक 10.50.8

अक्षौहिणीभिः सङ्ख्यातं भटाश्वरथकुञ्जरैः । मागधस् तु न हन्तव्यो भूयः कर्ता बलोद्यमम् ॥ 8 ॥

श्लोक 10.50.9

एतद्अर्थो ऽवतारो ऽयं भूभारहरणाय मे । संरक्षणाय साधूनां कृतो ऽन्येषां वधाय च ॥ 9 ॥

श्लोक 10.50.10

अन्यो ऽपि धर्मरक्षायै देहः संभ्रियते मया । विरामायाप्य् अधर्मस्य काले प्रभवतः क्वचित् ॥ 10 ॥

श्लोक 10.50.11

एवं ध्यायति गोविन्द आकाशात् सूर्यवर्चसौ । रथाव् उपस्थितौ सद्यः ससूतौ सपरिच्छदौ ॥ 11 ॥

श्लोक 10.50.12

आयुधानि च दिव्यानि पुराणानि यदृच्छया । दृष्ट्वा तानि हृषीकेशः सङ्कर्षणम् अथाब्रवीत् ॥ 12 ॥

श्लोक 10.50.13

पश्यार्य व्यसनं प्राप्तं यदूनां त्वावतां प्रभो । एष ते रथ आयातो दयितान्य् आयुधानि च ॥ 13 ॥

श्लोक 10.50.14

एतद्अर्थं हि नौ जन्म साधूनाम् ईश शर्मकृत् । त्रयोविंशत्य्अनीकाख्यं भूमेर् भारम् अपाकुरु ॥ 14 ॥

श्लोक 10.50.15

एवं सम्मन्त्र्य दाशार्हौ दंशितौ रथिनौ पुरात् । निर्जग्मतुः स्वायुधाढ्यौ बलेनाल्पीयसा वृतौ ॥ 15 ॥

श्लोक 10.50.16

शङ्खं दध्मौ विनिर्गत्य हरिर् दारुकसारथिः । ततो ऽभूत् परसैन्यानां हृदि वित्रासवेपथुः ॥ 16 ॥

श्लोक 10.50.17

ताव् आह मागधो वीक्ष्य हे कृष्ण पुरुषाधम । न त्वया योद्धुम् इच्छामि बालेनैकेन लज्जया । गुप्तेन हि त्वया मन्द न योत्स्ये याहि बन्धुहन् ॥ 17 ॥

श्लोक 10.50.18

तव राम यदि श्रद्धा युध्यस्व धैर्यम् उद्वह । हित्वा वा मच्छरैश् छिन्नं देहं स्वर् याहि मां जहि ॥ 18 ॥

श्लोक 10.50.19

न वै शूरा विकत्थन्ते दर्शयन्त्य् एव पौरुषम् । न गृह्णीमो वचो राजन्न् आतुरस्य मुमूर्षतः ॥ 19 ॥

श्लोक 10.50.20

जरासुतस् ताव् अभिसृत्य माधवौ महाबलौघेन बलीयसावृनोत् । ससैन्ययानध्वजवाजिसारथी सूर्यानलौ वायुर् इवाभ्ररेणुभिः ॥ 20 ॥

श्लोक 10.50.21

सुपर्णतालध्वजचिहित्नौ रथाव् अलक्षयन्त्यो हरिरामयोर् मृधे &अम्प्; स्त्रियः पुराट्टालकहर्म्यगोपुरं समाश्रिताः सम्मुमुहुः शुचार्दितः ॥ 21 ॥

श्लोक 10.50.22

हरिः परानीकपयोमुचां मुहुः शिलीमुखात्य्उल्बणवर्षपीडितम् । स्वसैन्यम् आलोक्य सुरासुरार्चितं व्यस्फूर्जयच् छार्ङ्गशरासनोत्तमम् ॥ 22 ॥

श्लोक 10.50.23

गृह्णन् निशङ्गाद् अथ सन्दधच् छरान् विकृष्य मुञ्चन् शितबाणपूगान् &अम्प्; निघ्नन् रथान् कुञ्जरवाजिपत्तीन् निरन्तरं यद्वद् अलातचक्रम् ॥ 23 ॥

श्लोक 10.50.24

निर्भिन्नकुम्भाः करिणो निपेतुर् अनेकशो ऽश्वाः शरवृक्णकन्धराः । रथा हताश्वध्वजसूतनायकाः पदायतश् छिन्नभुजोरुकन्धराः ॥ 24 ॥

श्लोक 10.50.25

सञ्छिद्यमानद्विपदेभवाजिनाम् अङ्गप्रसूताः शतशो ऽसृग्आपगाः । भुजाहयः पूरुषशीर्षकच्छपा हतद्विपद्वीपहय ग्रहाकुलाः ॥ 25 ॥

श्लोक 10.50.26

करोरुमीना नरकेशशैवला धनुस्तरङ्गायुधगुल्मसङ्कुलाः । अच्छूरिकावर्तभयानका महामणिप्रवेकाभरणाश्मशर्कराः ॥ 26 ॥

श्लोक 10.50.27

प्रवर्तिता भीरुभयावहा मृधे मनस्विनां हर्षकरीः परस्परम् । विनिघ्नतारीन् मुषलेन दुर्मदान् सङ्कर्षणेनापरीमेयतेजसा ॥ 27 ॥

श्लोक 10.50.28

बलं तद् अङ्गार्णवदुर्गभैरवं दुरन्तपारं मगधेन्द्रपालितम् । क्षयं प्रणीतं वसुदेवपुत्रयोर् विक्रीडितं तज् जगद्ईशयोः परम् ॥ 28 ॥

श्लोक 10.50.29

स्थित्य्उद्भवान्तं भुवनत्रयस्य यः समीहिते ऽनन्तगुणः स्वलीलया &अम्प्; न तस्य चित्रं परपक्षनिग्रहस् तथापि मर्त्यानुविधस्य वर्ण्यते ॥ 29 ॥

श्लोक 10.50.30

जग्राह विरथं रामो जरासन्धं महाबलम् । हतानीकावशिष्टासुं सिंहः सिंहम् इवौजसा ॥ 30 ॥

श्लोक 10.50.31

बध्यमानं हतारातिं पाशैर् वारुणमानुषैः । वारयाम् आस गोविन्दस् तेन कार्यचिकीर्षया ॥ 31 ॥

श्लोक 10.50.32

सा मुक्तो लोकनाथाभ्यां व्रीडितो वीरसम्मतः । तपसे कृतसङ्कल्पो वारितः पथि राजभिः ॥ 32 ॥

श्लोक 10.50.33

वाक्यैः पवित्रार्थपदैर् नयनैः प्राकृतैर् अपि । स्वकर्मबन्धप्राप्तो ऽयं यदुभिस् ते पराभवः ॥ 33 ॥

श्लोक 10.50.34

हतेषु सर्वानीकेषु नृपो बार्हद्रथस् तदा । उपेक्षितो भगवता मगधान् दुर्मना ययौ ॥ 34 ॥

श्लोक 10.50.35

मुकुन्दो ऽप्य् अक्षतबलो निस्तीर्णारिबलार्णवः । विकीर्यमाणः कुसुमैस् त्रीदशैर् अनुमोदितः ॥ 35 ॥

श्लोक 10.50.36

माथुरैर् उपसङ्गम्य विज्वरैर् मुदितात्मभिः । उपगीयमानविजयः सूतमागधवन्दिभिः ॥ 36 ॥

श्लोक 10.50.37

शङ्खदुन्दुभयो नेदुर् भेरीतूर्याण्य् अनेकशः । वीणावेणुमृदङ्गानि पुरं प्रविशति प्रभौ ॥ 37 ॥

श्लोक 10.50.38

सिक्तमार्गां हृष्टजनां पताकाभिर् अभ्यलङ्कृताम् । निर्घुष्टां ब्रह्मघोषेण कौतुकाबद्धतोरणाम् ॥ 38 ॥

श्लोक 10.50.39

निचीयमानो नारीभिर् माल्यदध्य्अक्षताङ्कुरैः । निरीक्ष्यमाणः सस्नेहं प्रीत्य्उत्कलितलोचनैः ॥ 39 ॥

श्लोक 10.50.40

आयोधनगतं वित्तम् अनन्तं वीरभूषणम् । यदुराजाय तत् सर्वम् आहृतं प्रादिशत् प्रभुः ॥ 40 ॥

श्लोक 10.50.41

एवं सप्तदशकृत्वस् तावत्य् अक्षौहिणीबलः । युयुधे मागधो राजा यदुभिः कृष्णपालितैः ॥ 41 ॥

श्लोक 10.50.42

अक्षिण्वंस् तद्बलं सर्वं वृष्णयः कृष्णतेजसा । हतेषु स्वेष्व् अनीकेषु त्यक्तो ऽगाद् अरिभिर् नृपः ॥ 42 ॥

श्लोक 10.50.43

अष्टादशम सङ्ग्राम आगामिनि तद्अन्तरा । नारदप्रेषितो वीरो यवनः प्रत्यदृश्यत ॥ 43 ॥

श्लोक 10.50.44

रुरोध मथुराम् एत्य तिसृभिर् म्लेच्छकोटिभिः । नृलोके चाप्रतिद्वन्द्वो वृष्णीन् श्रुत्वात्मसम्मितान् ॥ 44 ॥

श्लोक 10.50.45

तं दृष्ट्वाचिन्तयत् कृष्णः सङ्कर्षण सहायवान् । अहो यदूनां वृजिनं प्राप्तं ह्य् उभयतो महत् ॥ 45 ॥

श्लोक 10.50.46

यवनो ऽयं निरुन्धे ऽस्मान् अद्य तावन् महाबलः । मागधो ऽप्य् अद्य वा श्वो वा परश्वो वागमिष्यति ॥ 46 ॥

श्लोक 10.50.47

आवयोः युध्यतोर् अस्य यद्य् आगन्ता जरासुतः । बन्धून् हनिष्यत्य् अथ वा नेष्यते स्वपुरं बली ॥ 47 ॥

श्लोक 10.50.48

तस्माद् अद्य विधास्यामो दुर्गं द्विपददुर्गमम् । तत्र ज्ञातीन् समाधाय यवनं घातयामहे ॥ 48 ॥

श्लोक 10.50.49

इति सम्मन्त्र्य भगवान् दुर्गं द्वादशयोजनम् । अन्तःसमुद्रे नगरं कृत्स्नाद्भुतम् अचीकरत् ॥ 49 ॥

श्लोक 10.50.50

दृश्यते यत्र हि त्वाष्ट्रं विज्ञानं शिल्पनैपुणम् । रथ्याचत्वरवीथीभिर् यथावास्तु विनिर्मितम् ॥ 50 ॥

श्लोक 10.50.51

सुरद्रुमलतोद्यानविचित्रोपवनान्वितम् । हेमशृङ्गैर् दिविस्पृग्भिः स्फटिकाट्टालगोपुरैः ॥ 51 ॥

श्लोक 10.50.52

राजतारकुटैः कोष्ठैर् हेमकुम्भैर् अलङ्कृतैः । रत्नकूतैर् गृहैर् हेमैर् महामारकतस्थलैः ॥ 52 ॥

श्लोक 10.50.53

वास्तोष्पतीनां च गृहैर् वल्लभीभिश् च निर्मितम् । चातुर्वर्ण्यजनाकीर्णं यदुदेवगृहोल्लसत् ॥ 53 ॥

श्लोक 10.50.54

सुधर्मां पारिजातं च महेन्द्रः प्राहिणोद् धरेः । यत्र चावस्थितो मर्त्यो मर्त्यधर्मैर् न युज्यते ॥ 54 ॥

श्लोक 10.50.55

श्यामैकवर्णान् वरुणो हयान् शुक्लान् मनोजवान् । अष्टौ निधिपतिः कोशान् लोकपालो निजोदयान् ॥ 55 ॥

श्लोक 10.50.56

यद् यद् भगवता दत्तम् आधिपत्यं स्वसिद्धये । सर्वं प्रत्यर्पयाम् आसुर् हरौ भूमिगते नृप ॥ 56 ॥

श्लोक 10.50.57

तत्र योगप्रभावेन नीत्वा सर्वजनं हरिः । प्रजापालेन रामेण कृष्णः समनुमन्त्रितः । निर्जगाम पुरद्वारात् पद्ममाली निरायुधः ॥ 57 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ