मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 6

श्रीमद्भागवत दशम स्कन्ध अध्याय 6 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.6.1

नन्दः पथि वचः शौरेर् न मृषेति विचिन्तयन् । हरिं जगाम शरणम् उत्पातागमशङ्कितः ॥ 1 ॥

श्लोक 10.6.2

कंसेन प्रहिता घोरा पूतना बालघातिनी । शिशूंश् चचार निघ्नन्ती पुरग्रामव्रजादिषु ॥ 2 ॥

श्लोक 10.6.3

न यत्र श्रवणादीनि रक्षोघ्नानि स्वकर्मसु । कुर्वन्ति सात्वतां भर्तुर् यातुधान्यश् च तत्र हि ॥ 3 ॥

श्लोक 10.6.4

सा खेचर्य् एकदोत्पत्य पूतना नन्दगोकुलम् । योषित्वा माययात्मानं प्राविशत् कामचारिणी ॥ 4 ॥

श्लोक 10.6.5

तां केशबन्धव्यतिषक्तमल्लिकां बृहन्नितम्बस्तनकृच्छ्रमध्यमाम् &अम्प्; सुवाससं कल्पितकर्णभूषणत्विषोल्लसत्कुन्तलमण्डिताननाम् ॥ 5 ॥

श्लोक 10.6.6

वल्गुस्मितापाङ्गविसर्गवीक्षितैर् मनो हरन्तीं वनितां व्रजौकसाम् । अमंसताम्भोजकरेण रूपिणीं गोप्यः श्रियं द्रष्टुम् इवागतां पतिम् ॥ 6 ॥

श्लोक 10.6.7

बालग्रहस् तत्र विचिन्वती शिशून् यदृच्छया नन्दगृहे ऽसद्अन्तकम् । बालं प्रतिच्छन्ननिजोरुतेजसं ददर्श तल्पे ऽग्निम् इवाहितं भसि ॥ 7 ॥

श्लोक 10.6.8

विबुध्य तां बालकमारिकाग्रहं चराचरात्मा स निमीलितेक्षणः । अनन्तम् आरोपयद् अङ्कम् अन्तकं यथोरगं सुप्तम् अबुद्धिरज्जुधीः ॥ 8 ॥

श्लोक 10.6.9

तां तीक्ष्णचित्ताम् अतिवामचेष्टितां वीक्ष्यान्तरा कोषपरिच्छदासिवत् । वरस्त्रियं तत्प्रभया च धर्षिते निरीक्ष्यमाणे जननी ह्य् अतिष्ठताम् ॥ 9 ॥

श्लोक 10.6.10

तस्मिन् स्तनं दुर्जरवीर्यम् उल्बणं घोराङ्कम् आदाय शिशोर् ददाव् अथ &अम्प्; गाढं कराभ्यां भगवान् प्रपीड्य तत्प्राणैः समं रोषसमन्वितो ऽपिबत् ॥ 10 ॥

श्लोक 10.6.11

सा मुञ्च मुञ्चालम् इति प्रभाषिणी निष्पीड्यमानाखिलजीवमर्मणि । विवृत्य नेत्रे चरणौ भुजौ मुहुः प्रस्विन्नगात्रा क्षिपती रुरोद ह ॥ 11 ॥

श्लोक 10.6.12

तस्याः स्वनेनातिगभीररंहसा साद्रिर् मही द्यौश् च चचाल सग्रहा । रसा दिशश् च प्रतिनेदिरे जनाः पेतुः क्षितौ वज्रनिपातशङ्कया ॥ 12 ॥

श्लोक 10.6.13

निशाचरीत्थं व्यथितस्तना व्यसुर् व्यादाय केशांश् चरणौ भुजाव् अपि &अम्प्; प्रसार्य गोष्ठे निजरूपम् आस्थिता वज्राहतो वृत्र इवापतन् नृप ॥ 13 ॥

श्लोक 10.6.14

पतमानो ऽपि तद्देहस् त्रिगव्यूत्य्अन्तरद्रुमान् । चूर्णयाम् आस राजेन्द्र महद् आसीत् तद् अद्भुतम् ॥ 14 ॥

श्लोक 10.6.15

ईषामात्रोग्रदंष्ट्रास्यं गिरिकन्दरनासिकम् । गण्डशैलस्तनं रौद्रं प्रकीर्णारुणमूर्धजम् ॥ 15 ॥

श्लोक 10.6.16

अन्धकूपगभीराक्षं पुलिनारोहभीषणम् । बद्धसेतुभुजोर्व्अङ्घ्रि शून्यतोयह्रदोदरम् ॥ 16 ॥

श्लोक 10.6.17

सन्तत्रसुः स्म तद् वीक्ष्य गोपा गोप्यः कलेवरम् । पूर्वं तु तन्निःस्वनितभिन्नहृत्कर्णमस्तकाः ॥ 17 ॥

श्लोक 10.6.18

बालं च तस्या उरसि क्रीडन्तम् अकुतोभयम् । गोप्यस् तूर्णं समभ्येत्य जगृहुर् जातसम्भ्रमाः ॥ 18 ॥

श्लोक 10.6.19

यशोदारोहिणीभ्यां ताः समं बालस्य सर्वतः । रक्षां विदधिरे सम्यग् गोपुच्छभ्रमणादिभिः ॥ 19 ॥

श्लोक 10.6.20

गोमूत्रेण स्नापयित्वा पुनर् गोरजसार्भकम् । रक्षां चक्रुश् च शकृता द्वादशाङ्गेषु नामभिः ॥ 20 ॥

श्लोक 10.6.21

गोप्यः संस्पृष्टसलिला अङ्गेषु करयोः पृथक् । न्यस्यात्मन्य् अथ बालस्य बीजन्यासम् अकुर्वत ॥ 21 ॥

श्लोक 10.6.22

अव्याद् अजो ऽङ्घ्रि मणिमांस् तव जान्व् अथोरू यज्ञो ऽच्युतः कटितटं जठरं हयास्यः &अम्प्; हृत् केशवस् त्वद्उर ईश इनस् तु कण्ठं विष्णुर् भुजं मुखम् उरुक्रम ईश्वरः कम् ॥ 22 ॥

श्लोक 10.6.23

चक्र्य् अग्रतः सहगदो हरिर् अस्तु पश्चात् त्वत्पार्श्वयोर् धनुर्असी मधुहाजनश् च । कोणेषु शङ्ख उरुगाय उपर्य् उपेन्द्रस् तार्क्ष्यः क्षितौ हलधरः पुरुषः समन्तात् ॥ 23 ॥

श्लोक 10.6.24

इन्द्रियाणि हृषीकेशः प्राणान् नारायणो ऽवतु । श्वेतद्वीपपतिश् चित्तं मनो योगेश्वरो ऽवतु ॥ 24 ॥

श्लोक 10.6.25

पृश्निगर्भस् तु ते बुद्धिम् आत्मानं भगवान् परः । क्रीडन्तं पातु गोविन्दः शयानं पातु माधवः ॥ 25 ॥

श्लोक 10.6.26

व्रजन्तम् अव्याद् वैकुण्ठ आसीनं त्वां श्रियः पतिः । भुञ्जानं यज्ञभुक् पातु सर्वग्रहभयङ्करः ॥ 26 ॥

श्लोक 10.6.27

डाकिन्यो यातुधान्यश् च कुष्माण्डा ये ऽर्भकग्रहाः । भूतप्रेतपिशाचाश् च यक्षरक्षोविनायकाः ॥ 27 ॥

श्लोक 10.6.28

कोटरा रेवती ज्येष्ठा पूतना मातृकादयः । उन्मादा ये ह्य् अपस्मारा देहप्राणेन्द्रियद्रुहः ॥ 28 ॥

श्लोक 10.6.29

स्वप्नदृष्टा महोत्पाता वृद्धा बालग्रहाश् च ये । सर्वे नश्यन्तु ते विष्णोर् नामग्रहणभीरवः ॥ 29 ॥

श्लोक 10.6.30

इति प्रणयबद्धाभिर् गोपीभिः कृतरक्षणम् । पाययित्वा स्तनं माता सन्न्यवेशयद् आत्मजम् ॥ 30 ॥

श्लोक 10.6.31

तावन् नन्दादयो गोपा मथुराया व्रजं गताः । विलोक्य पूतनादेहं बभूवुर् अतिविस्मिताः ॥ 31 ॥

श्लोक 10.6.32

नूनं बतर्षिः सञ्जातो योगेशो वा समास सः । स एव दृष्टो ह्य् उत्पातो यद् आहानकदुन्दुभिः ॥ 32 ॥

श्लोक 10.6.33

कलेवरं परशुभिश् छित्त्वा तत् ते व्रजौकसः । दूरे क्षिप्त्वावयवशो न्यदहन् काष्ठवेष्टितम् ॥ 33 ॥

श्लोक 10.6.34

दह्यमानस्य देहस्य धूमश् चागुरुसौरभः । उत्थितः कृष्णनिर्भुक्तसपद्य् आहतपाप्मनः ॥ 34 ॥

श्लोक 10.6.35

पूतना लोकबालघ्नी राक्षसी रुधिराशना । जिघांसयापि हरये स्तनं दत्त्वाप सद्गतिम् ॥ 35 ॥

श्लोक 10.6.36

किं पुनः श्रद्धया भक्त्या कृष्णाय परमात्मने । यच्छन् प्रियतमं किं नु रक्तास् तन्मातरो यथा ॥ 36 ॥

श्लोक 10.6.37

पद्भ्यां भक्तहृदिस्थाभ्यां वन्द्याभ्यां लोकवन्दितैः । अङ्गं यस्याः समाक्रम्य भगवान् अपि तत्स्तनम् ॥ 37 ॥

श्लोक 10.6.38

यातुधान्य् अपि सा स्वर्गम् अवाप जननीगतिम् । कृष्णभुक्तस्तनक्षीराः किम् उ गावो ऽनुमातरः ॥ 38 ॥

श्लोक 10.6.39

पयांसि यासाम् अपिबत् पुत्रस्नेहस्नुतान्य् अलम् । भगवान् देवकीपुत्रः कैवल्याद्य्अखिलप्रदः ॥ 39 ॥

श्लोक 10.6.40

तासाम् अविरतं कृष्णे कुर्वतीनां सुतेक्षणम् । न पुनः कल्पते राजन् संसारो ऽज्ञानसम्भवः ॥ 40 ॥

श्लोक 10.6.41

कटधूमस्य सौरभ्यम् अवघ्राय व्रजौकसः । किम् इदं कुत एवेति वदन्तो व्रजम् आययुः ॥ 41 ॥

श्लोक 10.6.42

ते तत्र वर्णितं गोपैः पूतनागमनादिकम् । श्रुत्वा तन्निधनं स्वस्ति शिशोश् चासन् सुविस्मिताः ॥ 42 ॥

श्लोक 10.6.43

नन्दः स्वपुत्रम् आदाय प्रेत्यागतम् उदारधीः । मूर्ध्न्य् उपाघ्राय परमां मुदं लेभे कुरूद्वह ॥ 43 ॥

श्लोक 10.6.44

य एतत् पूतनामोक्षं कृष्णस्यार्भकम् अद्भुतम् । शृणुयाच् छ्रद्धया मर्त्यो गोविन्दे लभते रतिम् ॥ 44 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ