श्रीमद्भागवत दशम स्कन्ध अध्याय 51
श्रीमद्भागवत दशम स्कन्ध अध्याय 51 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.51.1
तं विलोक्य विनिष्क्रान्तम् उज्जिहानम् इवोडुपम् । दर्शनीयतमं श्यामं पीतकौशेयवाससम् ॥ 1 ॥
श्लोक 10.51.2
श्रीवत्सवक्षसं भ्राजत् कौस्तुभामुक्तकन्धरम् । पृथुदीर्घचतुर्बाहुं नवकञ्जारुणेक्षणम् ॥ 2 ॥
श्लोक 10.51.3
नित्यप्रमुदितं श्रीमत् सुकपोलं शुचिस्मितम् । मुखारविन्दं बिभ्राणं स्फुरन्मकरकुण्डलम् ॥ 3 ॥
श्लोक 10.51.4
वासुदेवो ह्य् अयम् इति पुमान् श्रीवत्सलाञ्छनः । चतुर्भुजो ऽरविन्दाक्षो वनमाल्य् अतिसुन्दरः ॥ 4 ॥
श्लोक 10.51.5
लक्षणैर् नारदप्रोक्तैर् नान्यो भवितुम् अर्हति । निरायुधश् चलन् पद्भ्यां योत्स्ये ऽनेन निरायुधः ॥ 5 ॥
श्लोक 10.51.6
इति निश्चित्य यवनः प्राद्रवद् तं पराङ्मुखम् । अन्वधावज् जिघृक्षुस् तं दुरापम् अपि योगिनाम् ॥ 6 ॥
श्लोक 10.51.7
हस्तप्राप्तम् इवात्मानं हरीणा स पदे पदे । नीतो दर्शयता दूरं यवनेशो ऽद्रिकन्दरम् ॥ 7 ॥
श्लोक 10.51.8
पलायनं यदुकुले जातस्य तव नोचितम् । इति क्षिपन्न् अनुगतो नैनं प्रापाहताशुभः ॥ 8 ॥
श्लोक 10.51.9
एवं क्षिप्तो ऽपि भगवान् प्राविशद् गिरिकन्दरम् । सो ऽपि प्रविष्टस् तत्रान्यं शयानं ददृशे नरम् ॥ 9 ॥
श्लोक 10.51.10
नन्व् असौ दूरम् आनीय शेते माम् इह साधुवत् । इति मत्वाच्युतं मूढस् तं पदा समताडयत् ॥ 10 ॥
श्लोक 10.51.11
स उत्थाय चिरं सुप्तः शनैर् उन्मील्य लोचने । दिशो विलोकयन् पार्श्वे तम् अद्राक्षीद् अवस्थितम् ॥ 11 ॥
श्लोक 10.51.12
स तावत् तस्य रुष्टस्य दृष्टिपातेन भारत । देहजेनाग्निना दग्धो भस्मसाद् अभवत् क्षणात् ॥ 12 ॥
श्लोक 10.51.13
को नाम स पुमान् ब्रह्मन् कस्य किंवीर्य एव च । कस्माद् गुहां गतः शिष्ये किंतेजो यवनार्दनः ॥ 13 ॥
श्लोक 10.51.14
स इक्ष्वाकुकुले जातो मान्धातृतनयो महान् । मुचुकुन्द इति ख्यातो ब्रह्मण्यः सत्यसङ्गरः ॥ 14 ॥
श्लोक 10.51.15
स याचितः सुरगणैर् इन्द्राद्यैर् आत्मरक्षणे । असुरेभ्यः परित्रस्तैस् तद्रक्षां सो ऽकरोच् चिरम् ॥ 15 ॥
श्लोक 10.51.16
लब्ध्वा गुहं ते स्वःपालं मुचुकुन्दम् अथाब्रुवन् । राजन् विरमतां कृच्छ्राद् भवान् नः परिपालनात् ॥ 16 ॥
श्लोक 10.51.17
नरलोकं परित्यज्य राज्यं निहतकण्टकम् । अस्मान् पालयतो वीर कामास् ते सर्व उज्झिताः ॥ 17 ॥
श्लोक 10.51.18
सुता महिष्यो भवतो ज्ञातयो ऽमात्यमन्त्रिनः । प्रजाश् च तुल्यकालीना नाधुना सन्ति कालिताः ॥ 18 ॥
श्लोक 10.51.19
कालो बलीयान् बलिनां भगवान् ईश्वरो ऽव्ययः । प्रजाः कालयते क्रीडन् पशुपालो यथा पशून् ॥ 19 ॥
श्लोक 10.51.20
वरं वृणीष्व भद्रं ते ऋते कैवल्यम् अद्य नः । एक एवेश्वरस् तस्य भगवान् विष्णुर् अव्ययः ॥ 20 ॥
श्लोक 10.51.21
एवम् उक्तः स वै देवान् अभिवन्द्य महायशाः । अशयिष्ट गुहाविष्टो निद्रया देवदत्तया ॥ 21 ॥
श्लोक 10.51.22
यवने भस्मसान् नीते भगवान् सात्वतर्षभः । आत्मानं दर्शयाम् आस मुचुकुन्दाय धीमते ॥ 22 ॥
श्लोक 10.51.23
तम् आलोक्य घनश्यामं पीतकौशेयवाससम् । श्रीवत्सवक्षसं भ्राजत् कौस्तुभेन विराजितम् ॥ 23 ॥
श्लोक 10.51.24
चतुर्भुजं रोचमानं वैजयन्त्या च मालया । चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ 24 ॥
श्लोक 10.51.25
प्रेक्षणीयं नृलोकस्य सानुरागस्मितेक्षणम् । अपीव्यवयसं मत्तमृगेन्द्रोदारविक्रमम् ॥ 25 ॥
श्लोक 10.51.26
पर्यपृच्छन् महाबुद्धिस् तेजसा तस्य धर्षितः । शङ्कितः शनकै राजा दुर्धर्षम् इव तेजसा ॥ 26 ॥
श्लोक 10.51.27
को भवान् इह सम्प्राप्तो विपिने गिरिगह्वरे । पद्भ्यां पद्मपलाशाभ्यां विचरस्य् उरुकण्टके ॥ 27 ॥
श्लोक 10.51.28
किं स्वित् तेजस्विनां तेजो भगवान् वा विभावसुः । सूर्यः सोमो महेन्द्रो वा लोकपालो परो ऽपि वा ॥ 28 ॥
श्लोक 10.51.29
मन्ये त्वां देवदेवानां त्रयाणां पुरुषर्षभम् । यद् बाधसे गुहाध्वान्तं प्रदीपः प्रभया यथा ॥ 29 ॥
श्लोक 10.51.30
शुश्रूषताम् अव्यलीकम् अस्माकं नरपुङ्गव । स्वजन्म कर्म गोत्रं वा कथ्यतां यदि रोचते ॥ 30 ॥
श्लोक 10.51.31
वयं तु पुरुषव्याघ्र ऐक्ष्वाकाः क्षत्रबन्धवः । मुचुकुन्द इति प्रोक्तो यौवनाश्वात्मजः प्रभो ॥ 31 ॥
श्लोक 10.51.32
चिरप्रजागरश्रान्तो निद्रयापहतेन्द्रियः । शये ऽस्मिन् विजने कामं केनाप्य् उत्थापितो ऽधुना ॥ 32 ॥
श्लोक 10.51.33
सो ऽपि भस्मीकृतो नूनम् आत्मीयेनैव पाप्मना । अनन्तरं भवान् श्रीमांल् लक्षितो ऽमित्रशासनः ॥ 33 ॥
श्लोक 10.51.34
तेजसा ते ऽविषह्येण भूरि द्रष्टुं न शक्नुमः । हतौजसा महाभाग माननीयो ऽसि देहिनाम् ॥ 34 ॥
श्लोक 10.51.35
एवं सम्भाषितो राज्ञा भगवान् भूतभावनः । प्रत्याह प्रहसन् वाण्या मेघनादगभीरया ॥ 35 ॥
श्लोक 10.51.36
जन्मकर्माभिधानानि सन्ति मे ऽङ्ग सहस्रशः । न शक्यन्ते ऽनुसङ्ख्यातुम् अनन्तत्वान् मयापि हि ॥ 36 ॥
श्लोक 10.51.37
क्वचिद् रजांसि विममे पार्थिवान्य् उरुजन्मभिः । गुणकर्माभिधानानि न मे जन्मानि कर्हिचित् ॥ 37 ॥
श्लोक 10.51.38
कालत्रयोपपन्नानि जन्मकर्माणि मे नृप । अनुक्रमन्तो नैवान्तं गच्छन्ति परमर्षयः ॥ 38 ॥
श्लोक 10.51.39
तथाप्य् अद्यतनान्य् अङ्ग शृनुष्व गदतो मम । विज्ञापितो विरिञ्चेन पुराहं धर्मगुप्तये ॥ 39 ॥
श्लोक 10.51.40
भूमेर् भारायमाणानाम् असुराणां क्षयाय च । अवतीर्णो यदुकुले गृह आनकदुन्दुभेः । वदन्ति वासुदेवेति वसुदेवसुतं हि माम् ॥ 40 ॥
श्लोक 10.51.41
कालनेमिर् हतः कंसः प्रलम्बाद्याश् च सद्द्विषः । अयं च यवनो दग्धो राजंस् ते तिग्मचक्षुषा ॥ 41 ॥
श्लोक 10.51.42
सो ऽहं तवानुग्रहार्थं गुहाम् एताम् उपागतः । प्रार्थितः प्रचुरं पूर्वं त्वयाहं भक्तवत्सलः ॥ 42 ॥
श्लोक 10.51.43
वरान् वृणीष्व राजर्षे सर्वान् कामान् ददामि ते । मां प्रसन्नो जनः कश्चिन् न भूयो ऽर्हति शोचितुम् ॥ 43 ॥
श्लोक 10.51.44
इत्य् उक्तस् तं प्रणम्याह मुचुकुन्दो मुदान्वितः । ज्ञात्वा नारायणं देवं गर्गवाक्यम् अनुस्मरन् ॥ 44 ॥
श्लोक 10.51.45
विमोहितो ऽयं जन ईश मायया त्वदीयया त्वां न भजत्य् अनर्थदृक् । सुखाय दुःखप्रभवेषु सज्जते गृहेषु योषित् पुरुषश् च वञ्चितः ॥ 45 ॥
श्लोक 10.51.46
लब्ध्वा जनो दुर्लभम् अत्र मानुषं कथञ्चिद् अव्यङ्गम् अयत्नतो ऽनघ &अम्प्; पादारविन्दं न भजत्य् असन्मतिर् गृहान्धकूपे पतितो यथा पशुः ॥ 46 ॥
श्लोक 10.51.47
ममैष कालो ऽजित निष्फलो गतो राज्यश्रियोन्नद्धमदस्य भूपतेः । मर्त्यात्मबुद्धेः सुतदारकोशभूष्व् आसज्जमानस्य दुरन्तचिन्तया ॥ 47 ॥
श्लोक 10.51.48
कलेवरे ऽस्मिन् घटकुड्यसन्निभे निरूढमानो नरदेव इत्य् अहम् &अम्प्; वृतो रथेभाश्वपदात्य्अनीकपैर् गां पर्यटंस् त्वागणयन् सुदुर्मदः ॥ 48 ॥
श्लोक 10.51.49
प्रमत्तम् उच्चैर् इतिकृत्यचिन्तया प्रवृद्धलोभं विषयेषु लालसम् । त्वम् अप्रमत्तः सहसाभिपद्यसे क्षुल्लेलिहानो ऽहिर् इवाखुम् अन्तकः ॥ 49 ॥
श्लोक 10.51.50
पुरा रथैर् हेमपरिष्कृतैश् चरन् मतंगजैर् वा नरदेवसंज्ञितः &अम्प्; स एव कालेन दुरत्ययेन ते कलेवरो विट्कृमिभस्मसंज्ञितः ॥ 50 ॥
श्लोक 10.51.51
निर्जित्य दिक्चक्रम् अभूतविग्रहो वरासनस्थः समराजवन्दितः । गृहेषु मैथुन्यसुखेषु योषितां क्रीडामृगः पूरुष ईश नीयते ॥ 51 ॥
श्लोक 10.51.52
करोति कर्माणि तपःसुनिष्ठितो निवृत्तभोगस् तद्अपेक्षयाददत् । पुनश् च भूयासम् अहं स्वराड् इति प्रवृद्धतर्षो न सुखाय कल्पते ॥ 52 ॥
श्लोक 10.51.53
भवापवर्गो भ्रमतो यदा भवेज् जनस्य तर्ह्य् अच्युत सत्समागमः । सत्सङ्गमो यर्हि तदैव सद्गतौ परावरेशे त्वयि जायते मतिः ॥ 53 ॥
श्लोक 10.51.54
मन्ये ममानुग्रह ईश ते कृतो राज्यानुबन्धापगमो यदृच्छया । यः प्रार्थ्यते साधुभिर् एकचर्यया वनं विविक्षद्भिर् अखण्डभूमिपैः ॥ 54 ॥
श्लोक 10.51.55
न कामये ऽन्यं तव पादसेवनाद् अकिञ्चनप्रार्थ्यतमाद् वरं विभो । आराध्य कस् त्वां ह्य् अपवर्गदं हरे वृणीत आर्यो वरम् आत्मबन्धनम् ॥ 55 ॥
श्लोक 10.51.56
तस्माद् विसृज्याशिष ईश सर्वतो रजस्तमःसत्त्वगुणानुबन्धनाः । निरञ्जनं निर्गुणम् अद्वयं परं त्वां ज्ञाप्तिमात्रं पुरुषं व्रजाम्य् अहम् ॥ 56 ॥
श्लोक 10.51.57
चिरम् इह वृजिनार्तस् तप्यमानो ऽनुतापैर् अवितृषषड्अमित्रो ऽलब्धशान्तिः कथञ्चित् &अम्प्; शरणद समुपेतस् त्वत्पदाब्जं परात्मन् अभयम् ऋतम् अशोकं पाहि मापन्नम् ईश ॥ 57 ॥
श्लोक 10.51.58
सार्वभौम महाराज मतिस् ते विमलोर्जिता । वरैः प्रलोभितस्यापि न कामैर् विहता यतः ॥ 58 ॥
श्लोक 10.51.59
प्रलोभितो वरैर् यत् त्वम् अप्रमादाय विद्धि तत् । न धीर् एकान्तभक्तानाम् आशीर्भिर् भिद्यते क्वचित् ॥ 59 ॥
श्लोक 10.51.60
युञ्जानानाम् अभक्तानां प्राणायामादिभिर् मनः । अक्षीणवासनं राजन् दृश्यते पुनर् उत्थितम् ॥ 60 ॥
श्लोक 10.51.61
विचरस्व महीं कामं मय्य् आवेशितमानसः । अस्त्व् एवं नित्यदा तुभ्यं भक्तिर् मय्य् अनपायिनी ॥ 61 ॥
श्लोक 10.51.62
क्षात्रधर्मस्थितो जन्तून् न्यवधीर् मृगयादिभिः । समाहितस् तत् तपसा जह्य् अघं मद्उपाश्रितः ॥ 62 ॥
श्लोक 10.51.63
जन्मन्य् अनन्तरे राजन् सर्वभूतसुहृत्तमः । भूत्वा द्विजवरस् त्वं वै माम् उपैष्यसि केवलम् ॥ 63 ॥