मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 52

श्रीमद्भागवत दशम स्कन्ध अध्याय 52 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.52.1

इत्थं सो ऽनग्रहीतो ऽन्ग कृष्णेनेक्ष्वाकु नन्दनः । तं परिक्रम्य सन्नम्य निश्चक्राम गुहामुखात् ॥ 1 ॥

श्लोक 10.52.2

संवीक्ष्य क्षुल्लकान् मर्त्यान् पशून् वीरुद्वनस्पतीन् । मत्वा कलियुगं प्राप्तं जगाम दिशम् उत्तराम् ॥ 2 ॥

श्लोक 10.52.3

तपःश्रद्धायुतो धीरो निःसङ्गो मुक्तसंशयः । समाधाय मनः कृष्णे प्राविशद् गन्धमादनम् ॥ 3 ॥

श्लोक 10.52.4

बदर्य्आश्रमम् आसाद्य नरनारायणालयम् । सर्वद्वन्द्वसहः शान्तस् तपसाराधयद् धरिम् ॥ 4 ॥

श्लोक 10.52.5

भगवान् पुनर् आव्रज्य पुरीं यवनवेष्टिताम् । हत्वा म्लेच्छबलं निन्ये तदीयं द्वारकां धनम् ॥ 5 ॥

श्लोक 10.52.6

नीयमाने धने गोभिर् नृभिश् चाच्युतचोदितैः । आजगाम जरासन्धस् त्रयोविंशत्य्अनीकपः ॥ 6 ॥

श्लोक 10.52.7

विलोक्य वेगरभसं रिपुसैन्यस्य माधवौ । मनुष्यचेष्टाम् आपन्नौ राजन् दुद्रुवतुर् द्रुतम् ॥ 7 ॥

श्लोक 10.52.8

विहाय वित्तं प्रचुरम् अभीतौ भीरुभीतवत् । पद्भ्यां पलाशाभ्यां चेलतुर् बहुयोजनम् ॥ 8 ॥

श्लोक 10.52.9

पलायमानौ तौ दृष्ट्वा मागधः प्रहसन् बली । अन्वधावद् रथानीकैर् ईशयोर् अप्रमाणवित् ॥ 9 ॥

श्लोक 10.52.10

प्रद्रुत्य दूरं संश्रान्तौ तुङ्गम् आरुहतां गिरिम् । प्रवर्षणाख्यं भगवान् नित्यदा यत्र वर्षति ॥ 10 ॥

श्लोक 10.52.11

गिरौ निलीनाव् आज्ञाय नाधिगम्य पदं नृप । ददाह गिरिम् एधोभिः समन्ताद् अग्निम् उत्सृजन् ॥ 11 ॥

श्लोक 10.52.12

तत उत्पत्य तरसा दह्यमानतटाद् उभौ । दशैकयोजनात् तुङ्गान् निपेततुर् अधो भुवि ॥ 12 ॥

श्लोक 10.52.13

अलक्ष्यमाणौ रिपुणा सानुगेन यदूत्तमौ । स्वपुरं पुनर् आयातौ समुद्रपरिखां नृप ॥ 13 ॥

श्लोक 10.52.14

सो ऽपि दग्धाव् इति मृषा मन्वानो बलकेशवौ । बलम् आकृष्य सुमहन् मगधान् मागधो ययौ ॥ 14 ॥

श्लोक 10.52.15

आनर्ताधिपतिः श्रीमान् रैवतो रैवतीं सुताम् । ब्रह्मणा चोदितः प्रादाद् बलायेति पुरोदितम् ॥ 15 ॥

श्लोक 10.52.16

भगवान् अपि गोविन्द उपयेमे कुरूद्वह । वैदर्भीं भीष्मकसुतां श्रियो मात्रां स्वयंवरे ॥ 16 ॥

श्लोक 10.52.17

प्रमथ्य तरसा राज्ञः शाल्वादींश् चैद्यपक्षगान् । पश्यतां सर्वलोकानां तार्क्ष्यपुत्रः सुधाम् इव ॥ 17 ॥

श्लोक 10.52.18

भगवान् भीष्मकसुतां रुक्मिणीं रुचिराननाम् । राक्षसेन विधानेन उपयेम इति श्रुतम् ॥ 18 ॥

श्लोक 10.52.19

भगवन् श्रोतुम् इच्छामि कृष्णस्यामिततेजसः । यथा मागधशाल्वादीन् जित्वा कन्याम् उपाहरत् ॥ 19 ॥

श्लोक 10.52.20

ब्रह्मन् कृष्णकथाः पुण्या माध्वीर् लोकमलापहाः । को नु तृप्येत शृण्वानः श्रुतज्ञो नित्यनूतनाः ॥ 20 ॥

श्लोक 10.52.21

राजासीद् भीष्मको नाम विदर्भाधिपतिर् महान् । तस्य पन्चाभवन् पुत्राः कन्यैका च वरानना ॥ 21 ॥

श्लोक 10.52.22

रुक्म्य् अग्रजो रुक्मरथो रुक्मबाहुर् अनन्तरः । रुक्मकेशो रुक्ममाली रुक्मिण्य् एषा स्वसा सती ॥ 22 ॥

श्लोक 10.52.23

सोपश्रुत्य मुकुन्दस्य रूपवीर्यगुणश्रियः । गृहागतैर् गीयमानास् तं मेने सदृशं पतिम् ॥ 23 ॥

श्लोक 10.52.24

तां बुद्धिलक्षणौदार्यरूपशीलगुणाश्रयाम् । कृष्णश् च सदृशीं भार्यां समुद्वोढुं मनो दधे ॥ 24 ॥

श्लोक 10.52.25

बन्धूनाम् इच्छतां दातुं कृष्णाय भगिनीं नृप । ततो निवार्य कृष्णद्विड् रुक्मी चैद्यम् अमन्यत ॥ 25 ॥

श्लोक 10.52.26

तद् अवेत्यासितापाङ्गी वैदर्भी दुर्मना भृशम् । विचिन्त्याप्तं द्विजं कञ्चित् कृष्णाय प्राहिणोद् द्रुतम् ॥ 26 ॥

श्लोक 10.52.27

द्वारकां स समभ्येत्य प्रतीहारैः प्रवेशितः । अपश्यद् आद्यं पुरुषम् आसीनं काञ्चनासने ॥ 27 ॥

श्लोक 10.52.28

दृष्ट्वा ब्रह्मण्यदेवस् तम् अवरुह्य निजासनात् । उपवेश्यार्हयां चक्रे यथात्मानं दिवौकसः ॥ 28 ॥

श्लोक 10.52.29

तं भुक्तवन्तं विश्रान्तम् उपगम्य सतां गतिः । पाणिनाभिमृशन् पादाव् अव्यग्रस् तम् अपृच्छत ॥ 29 ॥

श्लोक 10.52.30

कच्चिद् द्विजवरश्रेष्ठ धर्मस् ते वृद्धसम्मतः । वर्तते नातिकृच्छ्रेण सन्तुष्टमनसः सदा ॥ 30 ॥

श्लोक 10.52.31

सन्तुष्टो यर्हि वर्तेत ब्राह्मणो येन केनचित् । अहीयमानः स्वद् धर्मात् स ह्य् अस्याखिलकामधुक् ॥ 31 ॥

श्लोक 10.52.32

असन्तुष्टो ऽसकृल् लोकान् आप्नोत्य् अपि सुरेश्वरः । अकिञ्चनो ऽपि सन्तुष्टः शेते सर्वाङ्गविज्वरः ॥ 32 ॥

श्लोक 10.52.33

विप्रान् स्वलाभसन्तुष्टान् साधून् भूतसुहृत्तमान् । निरहङ्कारिणः शान्तान् नमस्ये शिरसासकृत् ॥ 33 ॥

श्लोक 10.52.34

कच्चिद् वः कुशलं ब्रह्मन् राजतो यस्य हि प्रजाः । सुखं वसन्ति विषये पाल्यमानाः स मे प्रियः ॥ 34 ॥

श्लोक 10.52.35

यतस् त्वम् आगतो दुर्गं निस्तीर्येह यद्इच्छया । सर्वं नो ब्रूह्य् अगुह्यं चेत् किं कार्यं करवाम ते ॥ 35 ॥

श्लोक 10.52.36

एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्ठिना । लीलागृहीतदेहेन तस्मै सर्वम् अवर्णयत् ॥ 36 ॥

श्लोक 10.52.37

श्रुत्वा गुणान् भुवनसुन्दर शृण्वतां ते निर्विश्य कर्णविवरैर् हरतो ऽङ्गतापम् । रूपं दृशां दृशिमताम् अखिलार्थलाभं त्वय्य् अच्युताविशति चित्तम् अपत्रपं मे ॥ 37 ॥

श्लोक 10.52.38

का त्वा मुकुन्द महती कुलशीलरूपविद्यावयोद्रविणधामभिर् आत्मतुल्यम् । धीरा पतिं कुलवती न वृणीत कन्या काले नृसिंह नरलोकमनोऽभिरामम् ॥ 38 ॥

श्लोक 10.52.39

तन् मे भवान् खलु वृतः पतिर् अङ्ग जायाम् आत्मार्पितश् च भवतो ऽत्र विभो विधेहि । मा वीरभागम् अभिमर्शतु चैद्य आराद् गोमायुवन् मृगपतेर् बलिम् अम्बुजाक्ष ॥ 39 ॥

श्लोक 10.52.40

पूर्तेष्टदत्तनियमव्रतदेवविप्र गुर्व्अर्चनादिभिर् अलं भगवान् परेशः । आराधितो यदि गदाग्रज एत्य पाणिं गृह्णातु मे न दमघोषसुतादयो ऽन्ये ॥ 40 ॥

श्लोक 10.52.41

श्वो भाविनि त्वम् अजितोद्वहने विदर्भान् गुप्तः समेत्य पृतनापतिभिः परीतः । निर्मथ्य चैद्यमगधेन्द्रबलं प्रसह्य मां राक्षसेन विधिनोद्वह वीर्यशुल्काम् ॥ 41 ॥

श्लोक 10.52.42

अन्तःपुरान्तरचरीम् अनिहत्य बन्धून् त्वाम् उद्वहे कथम् इति प्रवदाम्य् उपायम् । पूर्वेद्युर् अस्ति महती कुलदेवयात्रा यस्यां बहिर् नववधूर् गिरिजाम् उपेयात् ॥ 42 ॥

श्लोक 10.52.43

यस्याङ्घ्रिपङ्कजरजःस्नपनं महान्तो वाञ्छन्त्य् उमापतिर् इवात्मतमोऽपहत्यै । यर्ह्य् अम्बुजाक्ष न लभेय भवत्प्रसादं जह्याम् असून् व्रतकृशान् शतजन्मभिः स्यात् ॥ 43 ॥

श्लोक 10.52.44

इत्य् एते गुह्यसन्देशा यदुदेव मयाहृताः । विमृश्य कर्तुं यच् चात्र क्रियतां तद् अनन्तरम् ॥ 44 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ