मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 53

श्रीमद्भागवत दशम स्कन्ध अध्याय 53 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.53.1

वैदर्भ्याः स तु सन्देशं निशम्य यदुनन्दनः । प्रगृह्य पाणिना पाणिं प्रहसन्न् इदम् अब्रवीत् ॥ 1 ॥

श्लोक 10.53.2

तथाहम् अपि तच्चित्तो निद्रां च न लभे निशि । वेदाहम् रुक्मिणा द्वेषान् ममोद्वाहो निवारितः ॥ 2 ॥

श्लोक 10.53.3

ताम् आनयिष्य उन्मथ्य राजन्यापसदान् मृधे । मत्पराम् अनवद्याङ्गीम् एधसो ऽग्निशिखाम् इव ॥ 3 ॥

श्लोक 10.53.4

उद्वाहर्क्षं च विज्ञाय रुक्मिण्या मधुसूदनः । रथः संयुज्यताम् आशु दारुकेत्य् आह सारथिम् ॥ 4 ॥

श्लोक 10.53.5

स चाश्वैः शैब्यसुग्रीवमेघपुष्पबलाहकैः । युक्तं रथम् उपानीय तस्थौ प्राञ्जलिर् अग्रतः ॥ 5 ॥

श्लोक 10.53.6

आरुह्य स्यन्दनं शौरिर् द्विजम् आरोप्य तूर्णगैः । आनर्ताद् एकरात्रेण विदर्भान् अगमद् धयैः ॥ 6 ॥

श्लोक 10.53.7

राजा स कुण्डिनपतिः पुत्रस्नेहवशानुगः । शिशुपालाय स्वां कन्यां दास्यन् कर्माण्य् अकारयत् ॥ 7 ॥

श्लोक 10.53.8

पुरं सम्मृष्टसंसिक्तमार्गरथ्याचतुष्पथम् । चित्रध्वजपताकाभिस् तोरणैः समलङ्कृतम् ॥ 8 ॥

श्लोक 10.53.9

स्रग्गन्धमाल्याभरणैर् विरजोऽम्बरभूषितैः । जुष्टं स्त्रीपुरुषैः श्रीमद्गृहैर् अगुरुधूपितैः ॥ 9 ॥

श्लोक 10.53.10

पितॄन् देवान् समभ्यर्च्य विप्रांश् च विधिवन् नृप । भोजयित्वा यथान्यायं वाचयाम् आस मङ्गलम् ॥ 10 ॥

श्लोक 10.53.11

सुस्नातां सुदतीं कन्यां कृतकौतुकमङ्गलाम् । आहतांशुकयुग्मेन भूषितां भूषणोत्तमैः ॥ 11 ॥

श्लोक 10.53.12

चक्रुः सामर्ग्यजुर्मन्त्रैर् वध्वा रक्षां द्विजोत्तमाः । पुरोहितो ऽथर्वविद् वै जुहाव ग्रहशान्तये ॥ 12 ॥

श्लोक 10.53.13

हिरण्यरूप्य वासांसि तिलांश् च गुडमिश्रितान् । प्रादाद् धेनूश् च विप्रेभ्यो राजा विधिविदां वरः ॥ 13 ॥

श्लोक 10.53.14

एवं चेदिपती राजा दमघोषः सुताय वै । कारयाम् आस मन्त्रज्ञैः सर्वम् अभ्युदयोचितम् ॥ 14 ॥

श्लोक 10.53.15

मदच्युद्भिर् गजानीकैः स्यन्दनैर् हेममालिभिः । पत्त्य्अश्वसङ्कुलैः सैन्यैः परीतः कुण्दीनं ययौ ॥ 15 ॥

श्लोक 10.53.16

तं वै विदर्भाधिपतिः समभ्येत्याभिपूज्य च । निवेशयाम् आस मुदा कल्पितान्यनिवेशने ॥ 16 ॥

श्लोक 10.53.17

तत्र शाल्वो जरासन्धो दन्तवक्रो विदूरथः । आजग्मुश् चैद्यपक्षीयाः पौण्ड्रकाद्याः सहस्रशः ॥ 17 ॥

श्लोक 10.53.18

कृष्णरामद्विषो यत्ताः कन्यां चैद्याय साधितुम् । यद्य् आगत्य हरेत् कृष्नो रामाद्यैर् यदुभिर् वृतः ॥ 18 ॥

श्लोक 10.53.19

योत्स्यामः संहतास् तेन इति निश्चितमानसाः । आजग्मुर् भूभुजः सर्वे समग्रबलवाहनाः ॥ 19 ॥

श्लोक 10.53.20

श्रुत्वैतद् भगवान् रामो विपक्षीय नृपोद्यमम् । कृष्णं चैकं गतं हर्तुं कन्यां कलहशङ्कितः ॥ 20 ॥

श्लोक 10.53.21

बलेन महता सार्धं भ्रातृस्नेहपरिप्लुतः । त्वरितः कुण्डिनं प्रागाद् गजाश्वरथपत्तिभिः ॥ 21 ॥

श्लोक 10.53.22

भीष्मकन्या वरारोहा काङ्क्षन्त्य् आगमनं हरेः । प्रत्यापत्तिम् अपश्यन्ती द्विजस्याचिन्तयत् तदा ॥ 22 ॥

श्लोक 10.53.23

अहो त्रियामान्तरित उद्वाहो मे ऽल्पराधसः । नागच्छत्य् अरविन्दाक्षो नाहं वेद्म्य् अत्र कारणम् । सो ऽपि नावर्तते ऽद्यापि मत्सन्देशहरो द्विजः ॥ 23 ॥

श्लोक 10.53.24

अपि मय्य् अनवद्यात्मा दृष्ट्वा किञ्चिज् जुगुप्सितम् । मत्पाणिग्रहणे नूनं नायाति हि कृतोद्यमः ॥ 24 ॥

श्लोक 10.53.25

दुर्भगाया न मे धाता नानुकूलो महेश्वरः । देवी वा विमुखी गौरी रुद्राणी गिरिजा सती ॥ 25 ॥

श्लोक 10.53.26

एवं चिन्तयती बाला गोविन्दहृतमानसा । न्यमीलयत कालज्ञा नेत्रे चाश्रुकलाकुले ॥ 26 ॥

श्लोक 10.53.27

एवं वध्वाः प्रतीक्षन्त्या गोविन्दागमनं नृप । वाम ऊरुर् भुजो नेत्रम् अस्फुरन् प्रियभाषिणः ॥ 27 ॥

श्लोक 10.53.28

अथ कृष्णविनिर्दिष्टः स एव द्विजसत्तमः । अन्तःपुरचरीं देवीं राजपुत्रीम् ददर्श ह ॥ 28 ॥

श्लोक 10.53.29

सा तं प्रहृष्टवदनम् अव्यग्रात्मगतिं सती । आलक्ष्य लक्षणाभिज्ञा समपृच्छच् छुचिस्मिता ॥ 29 ॥

श्लोक 10.53.30

तस्या आवेदयत् प्राप्तं शशंस यदुनन्दनम् । उक्तं च सत्यवचनम् आत्मोपनयनं प्रति ॥ 30 ॥

श्लोक 10.53.31

तम् आगतं समाज्ञाय वैदर्भी हृष्टमानसा । न पश्यन्ती ब्राह्मणाय प्रियम् अन्यन् ननाम सा ॥ 31 ॥

श्लोक 10.53.32

प्राप्तौ श्रुत्वा स्वदुहितुर् उद्वाहप्रेक्षणोत्सुकौ । अभ्ययात् तूर्यघोषेण रामकृष्णौ समर्हणैः ॥ 32 ॥

श्लोक 10.53.33

मधुपर्कम् उपानीय वासांसि विरजांसि सः । उपायनान्य् अभीष्टानि विधिवत् समपूजयत् ॥ 33 ॥

श्लोक 10.53.34

तयोर् निवेशनं श्रीमद् उपाकल्प्य महामतिः । ससैन्ययोः सानुगयोर् आतिथ्यं विदधे यथा ॥ 34 ॥

श्लोक 10.53.35

एवं राज्ञां समेतानां यथावीर्यं यथावयः । यथाबलं यथावित्तं सर्वैः कामैः समर्हयत् ॥ 35 ॥

श्लोक 10.53.36

कृष्णम् आगतम् आकर्ण्य विदर्भपुरवासिनः । आगत्य नेत्राञ्जलिभिः पपुस् तन्मुखपङ्कजम् ॥ 36 ॥

श्लोक 10.53.37

अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा । असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ॥ 37 ॥

श्लोक 10.53.38

किञ्चित् सुचरितं यन् नस् तेन तुष्टस् त्रिलोककृत् । अनुगृह्णातु गृह्णातु वैदर्भ्याः पाणिम् अच्युतः ॥ 38 ॥

श्लोक 10.53.39

एवं प्रेमकलाबद्धा वदन्ति स्म पुरौकसः । कन्या चान्तःपुरात् प्रागाद् भटैर् गुप्ताम्बिकालयम् ॥ 39 ॥

श्लोक 10.53.40

पद्भ्यां विनिर्ययौ द्रष्टुं भवान्याः पादपल्लवम् । सा चानुध्यायती सम्यङ् मुकुन्दचरणाम्बुजम् ॥ 40 ॥

श्लोक 10.53.41

यतवाङ् मातृभिः सार्धं सखीभिः परिवारिता । गुप्ता राजभटैः शूरैः सन्नद्धैर् उद्यतायुधैः । मृडङ्गशङ्खपणवास् तूर्यभेर्यश् च जघ्निरे ॥ 41 ॥

श्लोक 10.53.42

नानोपहार बलिभिर् वारमुख्याः सहस्रशः । स्रग्गन्धवस्त्राभरणैर् द्विजपत्न्यः स्व्अलङ्कृताः ॥ 42 ॥

श्लोक 10.53.43

गायन्त्यश् च स्तुवन्तश् च गायका वाद्यवादकाः । परिवार्य वधूं जग्मुः सूतमागधवन्दिनः ॥ 43 ॥

श्लोक 10.53.44

आसाद्य देवीसदनं धौतपादकराम्बुजा । उपस्पृश्य शुचिः शान्ता प्रविवेशाम्बिकान्तिकम् ॥ 44 ॥

श्लोक 10.53.45

तां वै प्रवयसो बालां विधिज्ञा विप्रयोषितः । भवानीं वन्दयां चक्रुर् भवपत्नीं भवान्विताम् ॥ 45 ॥

श्लोक 10.53.46

नमस्ये त्वाम्बिके ऽभीक्ष्णं स्वसन्तानयुतां शिवाम् । भूयात् पतिर् मे भगवान् कृष्णस् तद् अनुमोदताम् ॥ 46 ॥

श्लोक 10.53.47

अद्भिर् गन्धाक्षतैर् धूपैर् वासःस्रङ्माल्य भूषणैः । नानोपहारबलिभिः प्रदीपावलिभिः पृथक् ॥ 47 ॥

श्लोक 10.53.48

विप्रस्त्रियः पतिमतीस् तथा तैः समपूजयत् । लवणापूपताम्बूलकण्ठसूत्रफलेक्षुभिः ॥ 48 ॥

श्लोक 10.53.49

तस्यै स्त्रियस् ताः प्रददुः शेषां युयुजुर् आशिषः । ताभ्यो देव्यै नमश् चक्रे शेषां च जगृहे वधूः ॥ 49 ॥

श्लोक 10.53.50

मुनिव्रतम् अथ त्यक्त्वा निश्चक्रामाम्बिकागृहात् । प्रगृह्य पाणिना भृत्यां रत्नमुद्रोपशोभिना ॥ 50 ॥

श्लोक 10.53.51

तां देवमायाम् इव धीरमोहिनीं सुमध्यमां कुण्डलमण्डिताननाम् । श्यामां नितम्बार्पितरत्नमेखलां व्यञ्जत्स्तनीं कुन्तलशङ्कितेक्षणाम् ॥ 51 ॥

श्लोक 10.53.52

शुचिस्मितां बिम्बफलाधरद्युतिशोणायमानद्विजकुन्दकुड्मलाम् । पदा चलन्तीं कलहंसगामिनीं सिञ्जत्कलानूपुरधामशोभिना ॥ 52 ॥

श्लोक 10.53.53

विलोक्य वीरा मुमुहुः समागता यशस्विनस् तत्कृतहृच्छयार्दिताः । यां वीक्ष्य ते नृपतयस् तद् उदारहासव्रीदावलोकहृतचेतस उज्झितास्त्राः ॥ 53 ॥

श्लोक 10.53.54

पेतुः क्षितौ गजरथाश्वगता विमूढा यात्राच्छलेन हरये ऽर्पयतीं स्वशोभाम् । सैवं शनैश् चलयती चलपद्मकोशौ प्राप्तिं तदा भगवतः प्रसमीक्षमाणा ॥ 54 ॥

श्लोक 10.53.55

उत्सार्य वामकरजैर् अलकान् अपङ्गैः प्राप्तान् ह्रियैक्षत नृपान् ददृशे ऽच्युतं च । तां राजकन्यां रथम् आरुरक्षतीं जहार कृष्णो द्विषतां समीक्षताम् ॥ 55 ॥

श्लोक 10.53.56

रथं समारोप्य सुपर्णलक्षणं राजन्यचक्रं परिभूय माधवः । ततो ययौ रामपुरोगमः शनैः शृगालमध्याद् इव भागहृद् धरिः ॥ 56 ॥

श्लोक 10.53.57

तं मानिनः स्वाभिभवं यशःक्षयं परे जरासन्धमुखा न सेहिरे &अम्प्; अहो धिग् अस्मान् यश आत्तधन्वनां गोपैर् हृतं केशरिणां मृगैर् इव ॥ 57 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ