श्रीमद्भागवत दशम स्कन्ध अध्याय 54
श्रीमद्भागवत दशम स्कन्ध अध्याय 54 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.54.1
इति सर्वे सुसंरब्धा वाहान् आरुह्य दंशिताः । स्वैः स्वैर् बलैः परिक्रान्ता अन्वीयुर् धृतकार्मुकाः ॥ 1 ॥
श्लोक 10.54.2
तान् आपतत आलोक्य यादवानीकयूथपाः । तस्थुस् तत्सम्मुखा राजन् विस्फूर्ज्य स्वधनूंषि ते ॥ 2 ॥
श्लोक 10.54.3
अश्वपृष्ठे गजस्कन्धे रथोपस्थे ऽस्त्र कोविदाः । मुमुचुः शरवर्षाणि मेघा अद्रिष्व् अपो यथा ॥ 3 ॥
श्लोक 10.54.4
पत्युर् बलं शरासारैश् छन्नं वीक्ष्य सुमध्यमा । सव्रीड्म् ऐक्षत् तद्वक्त्रं भयविह्वललोचना ॥ 4 ॥
श्लोक 10.54.5
प्रहस्य भगवान् आह मा स्म भैर् वामलोचने । विनङ्क्ष्यत्य् अधुनैवैतत् तावकैः शात्रवं बलम् ॥ 5 ॥
श्लोक 10.54.6
तेषां तद्विक्रमं वीरा गदसङ्कर्षनादयः । अमृष्यमाणा नाराचैर् जघ्नुर् हयगजान् रथान् ॥ 6 ॥
श्लोक 10.54.7
पेतुः शिरांसि रथिनाम् अश्विनां गजिनां भुवि । सकुण्डलकिरीटानि सोष्णीषाणि च कोटिशः ॥ 7 ॥
श्लोक 10.54.8
हस्ताः सासिगदेष्व्आसाः करभा ऊरवो ऽङ्घ्रयः । अश्वाश्वतरनागोष्ट्रखरमर्त्यशिरांसि च ॥ 8 ॥
श्लोक 10.54.9
हन्यमानबलानीका वृष्णिभिर् जयकाङ्क्षिभिः । राजानो विमुखा जग्मुर् जरासन्धपुरःसराः ॥ 9 ॥
श्लोक 10.54.10
शिशुपालं समभ्येत्य हृतदारम् इवातुरम् । नष्टत्विषं गतोत्साहं शुष्यद्वदनम् अब्रुवन् ॥ 10 ॥
श्लोक 10.54.11
भो भोः पुरुषशार्दूल दौर्मनस्यम् इदं त्यज । न प्रियाप्रिययो राजन् निष्ठा देहिषु दृश्यते ॥ 11 ॥
श्लोक 10.54.12
यथा दारुमयी योषित् नृत्यते कुहकेच्छया । एवम् ईश्वरतन्त्रो ऽयम् ईहते सुखदुःखयोः ॥ 12 ॥
श्लोक 10.54.13
शौरेः सप्तदशाहं वै संयुगानि पराजितः । त्रयोविंशतिभिः सैन्यैर् जिग्ये एकम् अहं परम् ॥ 13 ॥
श्लोक 10.54.14
तथाप्य् अहं न शोचामि न प्रहृष्यामि कर्हिचित् । कालेन दैवयुक्तेन जानन् विद्रावितं जगत् ॥ 14 ॥
श्लोक 10.54.15
अधुनापि वयं सर्वे वीरयूथपयूथपाः । पराजिताः फल्गुतन्त्रैर् यदुभिः कृष्णपालितैः ॥ 15 ॥
श्लोक 10.54.16
रिपवो जिग्युर् अधुना काल आत्मानुसारिणि । तदा वयं विजेष्यामो यदा कालः प्रदक्षिणः ॥ 16 ॥
श्लोक 10.54.17
एवं प्रबोधितो मित्रैश् चैद्यो ऽगात् सानुगः पुरम् । हतशेषाः पुनस् ते ऽपि ययुः स्वं स्वं पुरं नृपाः ॥ 17 ॥
श्लोक 10.54.18
रुक्मी तु राक्षसोद्वाहं कृष्णद्विड् असहन् स्वसुः । पृष्ठतो ऽन्वगमत् कृष्णम् अक्षौहिण्या वृतो बली ॥ 18 ॥
श्लोक 10.54.19
रुक्म्य् अमर्षी सुसंरब्धः शृण्वतां सर्वभूभुजाम् । प्रतिजज्ञे महाबाहुर् दंशितः सशरासनः ॥ 19 ॥
श्लोक 10.54.20
अहत्वा समरे कृष्णम् अप्रत्यूह्य च रुक्मिणीम् । कुण्डिनं न प्रवेक्ष्यामि सत्यम् एतद् ब्रवीमि वः ॥ 20 ॥
श्लोक 10.54.21
इत्य् उक्त्वा रथम् आरुह्य सारथिं प्राह सत्वरः । चोदयाश्वान् यतः कृष्णः तस्य मे संयुगं भवेत् ॥ 21 ॥
श्लोक 10.54.22
अद्याहं निशितैर् बाणैर् गोपालस्य सुदुर्मतेः । नेष्ये वीर्यमदं येन स्वसा मे प्रसभं हृता ॥ 22 ॥
श्लोक 10.54.23
विकत्थमानः कुमतिर् ईश्वरस्याप्रमाणवित् । रथेनैकेन गोविन्दं तिष्ठ तिष्ठेत्य् अथाह्वयत् ॥ 23 ॥
श्लोक 10.54.24
धनुर् विकृष्य सुदृढं जघ्ने कृष्णं त्रिभिः शरैः । आह चात्र क्षणं तिष्ठ यदूनां कुलपांसन ॥ 24 ॥
श्लोक 10.54.25
यत्र यासि स्वसारं मे मुषित्वा ध्वाङ्क्षवद् धविः । हरिष्ये ऽद्य मदं मन्द मायिनः कूटयोधिनः ॥ 25 ॥
श्लोक 10.54.26
यावन् न मे हतो बाणैः शयीथा मुञ्च दारीकाम् । स्मयन् कृष्णो धनुश् छित्त्वा षड्भिर् विव्याध रुक्मिणम् ॥ 26 ॥
श्लोक 10.54.27
अष्टभिश् चतुरो वाहान् द्वाभ्यां सूतं ध्वजं त्रिभिः । स चान्यद् धनुर् आधाय कृष्णं विव्याध पञ्चभिः ॥ 27 ॥
श्लोक 10.54.28
तैस् तादितः शरौघैस् तु चिच्छेद धनुर् अच्युतः । पुनर् अन्यद् उपादत्त तद् अप्य् अच्छिनद् अव्ययः ॥ 28 ॥
श्लोक 10.54.29
परिघं पट्टिशं शूलं चर्मासी शक्तितोमरौ । यद् यद् आयुधम् आदत्त तत् सर्वं सो ऽच्छिनद् धरिः ॥ 29 ॥
श्लोक 10.54.30
ततो रथाद् अवप्लुत्य खड्गपाणिर् जिघांसया । कृष्णम् अभ्यद्रवत् क्रुद्धः पतङ्ग इव पावकम् ॥ 30 ॥
श्लोक 10.54.31
तस्य चापततः खड्गं तिलशश् चर्म चेषुभिः । छित्त्वासिम् आददे तिग्मं रुक्मिणं हन्तुम् उद्यतः ॥ 31 ॥
श्लोक 10.54.32
दृष्ट्वा भ्रातृवधोद्योगं रुक्मिणी भयविह्वला । पतित्वा पादयोर् भर्तुर् उवाच करुणं सती ॥ 32 ॥
श्लोक 10.54.33
योगेश्वराप्रमेयात्मन् देवदेव जगत्पते । हन्तुं नार्हसि कल्याण भ्रातरं मे महाभुज ॥ 33 ॥
श्लोक 10.54.34
तया परित्रासविकम्पिताङ्गया शुचावशुष्यन्मुखरुद्धकण्ठया । कातर्यविस्रंसितहेममालया गृहीतपादः करुणो न्यवर्तत ॥ 34 ॥
श्लोक 10.54.35
चैलेन बद्ध्वा तम् असाधुकारीणं सश्मश्रुकेशं प्रवपन् व्यरूपयत् । तावन् ममर्दुः परसैन्यम् अद्भुतं यदुप्रवीरा नलिनीं यथा गजाः ॥ 35 ॥
श्लोक 10.54.36
कृष्णान्तिकम् उपव्रज्य ददृशुस् तत्र रुक्मिणम् । तथाभूतं हतप्रायं दृष्ट्वा सङ्कर्षणो विभुः । विमुच्य बद्धं करुणो भगवान् कृष्णम् अब्रवीत् ॥ 36 ॥
श्लोक 10.54.37
असाध्व् इदं त्वया कृष्ण कृतम् अस्मज्जुगुप्सितम् । वपनं श्मश्रुकेशानां वैरूप्यं सुहृदो वधः ॥ 37 ॥
श्लोक 10.54.38
मैवास्मान् साध्व्य् असूयेथा भ्रातुर् वैरूप्यचिन्तया । सुखदुःखदो न चान्यो ऽस्ति यतः स्वकृतभुक् पुमान् ॥ 38 ॥
श्लोक 10.54.39
बन्धुर् वधार्हदोषो ऽपि न बन्धोर् वधम् अर्हति । त्याज्यः स्वेनैव दोषेण हतः किं हन्यते पुनः ॥ 39 ॥
श्लोक 10.54.40
क्षत्रियाणाम् अयं धर्मः प्रजापतिविनिर्मितः । भ्रातापि भ्रातरं हन्याद् येन घोरतमस् ततः ॥ 40 ॥
श्लोक 10.54.41
राज्यस्य भूमेर् वित्तस्य स्त्रियो मानस्य तेजसः । मानिनो ऽन्यस्य वा हेतोः श्रीमदान्धाः क्षिपन्ति हि ॥ 41 ॥
श्लोक 10.54.42
तवेयं विषमा बुद्धिः सर्वभूतेषु दुर्हृदाम् । यन् मन्यसे सदाभद्रं सुहृदां भद्रम् अज्ञवत् ॥ 42 ॥
श्लोक 10.54.43
आत्ममोहो नृणाम् एव कल्पते देवमायया । सुहृद् दुर्हृद् उदासीन इति देहात्ममानिनाम् ॥ 43 ॥
श्लोक 10.54.44
एक एव परो ह्य् आत्मा सर्वेषाम् अपि देहिनाम् । नानेव गृह्यते मूढैर् यथा ज्योतिर् यथा नभः ॥ 44 ॥
श्लोक 10.54.45
देह आद्य्अन्तवान् एष द्रव्यप्राणगुणात्मकः । आत्मन्य् अविद्यया कॢप्तः संसारयति देहिनम् ॥ 45 ॥
श्लोक 10.54.46
नात्मनो ऽन्येन संयोगो वियोगश् चसतः सति । तद्धेतुत्वात् तत्प्रसिद्धेर् दृग्रूपाभ्यां यथा रवेः ॥ 46 ॥
श्लोक 10.54.47
जन्मादयस् तु देहस्य विक्रिया नात्मनः क्वचित् । कलानाम् इव नैवेन्दोर् मृतिर् ह्य् अस्य कुहूर् इव ॥ 47 ॥
श्लोक 10.54.48
यथा शयान आत्मानं विषयान् फलम् एव च । अनुभुङ्क्ते ऽप्य् असत्य् अर्थे तथाप्नोत्य् अबुधो भवम् ॥ 48 ॥
श्लोक 10.54.49
तस्माद् अज्ञानजं शोकम् आत्मशोषविमोहनम् । तत्त्वज्ञानेन निर्हृत्य स्वस्था भव शुचिस्मिते ॥ 49 ॥
श्लोक 10.54.50
एवं भगवता तन्वी रामेण प्रतिबोधिता । वैमनस्यं परित्यज्य मनो बुद्ध्या समादधे ॥ 50 ॥
श्लोक 10.54.51
प्राणावशेष उत्सृष्टो द्विड्भिर् हतबलप्रभः । स्मरन् विरूपकरणं वितथात्ममनोरथः । चक्रे भोजकटं नाम निवासाय महत् पुरम् ॥ 51 ॥
श्लोक 10.54.52
अहत्वा दुर्मतिं कृष्णम् अप्रत्यूह्य यवीयसीम् । कुण्डिनं न प्रवेक्ष्यामीत्य् उक्त्वा तत्रावसद् रुषा ॥ 52 ॥
श्लोक 10.54.53
भगवान् भीष्मकसुताम् एवं निर्जित्य भूमिपान् । पुरम् आनीय विधिवद् उपयेमे कुरूद्वह ॥ 53 ॥
श्लोक 10.54.54
तदा महोत्सवो नॄणां यदुपुर्यां गृहे गृहे । अभूद् अनन्यभावानां कृष्णे यदुपतौ नृप ॥ 54 ॥
श्लोक 10.54.55
नरा नार्यश् च मुदिताः प्रमृष्टमणिकुण्डलाः । पारिबर्हम् उपाजह्रुर् वरयोश् चित्रवाससोः ॥ 55 ॥
श्लोक 10.54.56
सा वृष्णिपुर्य् उत्तम्भितेन्द्रकेतुभिर् विचित्रमाल्याम्बररत्नतोरणैः &अम्प्; बभौ प्रतिद्वार्य् उपकॢप्तमङ्गलैर् आपूर्णकुम्भागुरुधूपदीपकैः ॥ 56 ॥
श्लोक 10.54.57
सिक्तमार्गा मदच्युद्भिर् आहूतप्रेष्ठभूभुजाम् । गजैर् द्वाःसु परामृष्टरम्भापूगोपशोभिता ॥ 57 ॥
श्लोक 10.54.58
कुरुसृञ्जयकैकेयविदर्भयदुकुन्तयः । मिथो मुमुदिरे तस्मिन् सम्भ्रमात् परिधावताम् ॥ 58 ॥
श्लोक 10.54.59
रुक्मिण्या हरणं श्रुत्वा गीयमानं ततस् ततः । राजानो राजकन्याश् च बभूवुर् भृशविस्मिताः ॥ 59 ॥
श्लोक 10.54.60
द्वारकायाम् अभूद् राजन् महामोदः पुरौकसाम् । रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥ 60 ॥