श्रीमद्भागवत दशम स्कन्ध अध्याय 55
श्रीमद्भागवत दशम स्कन्ध अध्याय 55 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.55.1
कामस् तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना । देहोपपत्तये भूयस् तम् एव प्रत्यपद्यत ॥ 1 ॥
श्लोक 10.55.2
स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः । प्रद्युम्न इति विख्यातः सर्वतो ऽनवमः पितुः ॥ 2 ॥
श्लोक 10.55.3
तं शम्बरः कामरूपी हृत्वा तोकम् अनिर्दशम् । स विदित्वात्मनः शत्रुं प्रास्योदन्वत्य् अगाद् गृहम् ॥ 3 ॥
श्लोक 10.55.4
तं निर्जगार बलवान् मीनः सो ऽप्य् अपरैः सह । वृतो जालेन महता गृहीतो मत्स्यजीविभिः ॥ 4 ॥
श्लोक 10.55.5
तं शम्बराय कैवर्ता उपाजह्रुर् उपायनम् । सूदा महानसं नीत्वावद्यन् सुधितिनाद्भुतम् ॥ 5 ॥
श्लोक 10.55.6
दृष्ट्वा तद्उदरे बालम् मायावत्यै न्यवेदयन् । नारदो ऽकथयत् सर्वं तस्याः शङ्कितचेतसः । बालस्य तत्त्वम् उत्पत्तिं मत्स्योदरनिवेशनम् ॥ 6 ॥
श्लोक 10.55.7
सा च कामस्य वै पत्नी रतिर् नाम यशस्विनी । पत्युर् निर्दग्धदेहस्य देहोत्पत्तिम् प्रतीक्षती ॥ 7 ॥
श्लोक 10.55.8
निरूपिता शम्बरेण सा सूदौदनसाधने । कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके ॥ 8 ॥
श्लोक 10.55.9
नातिदीर्घेण कालेन स कार्ष्णि रूढयौवनः । जनयाम् आस नारीणां वीक्षन्तीनां च विभ्रमम् ॥ 9 ॥
श्लोक 10.55.10
सा तम् पतिं पद्मदलायतेक्षणं प्रलम्बबाहुं नरलोकसुन्दरम् । सव्रीडहासोत्तभितभ्रुवेक्षती प्रीत्योपतस्थे रतिर् अङ्ग सौरतैः ॥ 10 ॥
श्लोक 10.55.11
ताम् अह भगवान् कार्ष्णिर् मातस् ते मतिर् अन्यथा । मातृभावम् अतिक्रम्य वर्तसे कामिनी यथा ॥ 11 ॥
श्लोक 10.55.12
भवान् नारायणसुतः शम्बरेण हृतो गृहात् । अहं ते ऽधिकृता पत्नी रतिः कामो भवान् प्रभो ॥ 12 ॥
श्लोक 10.55.13
एष त्वानिर्दशं सिन्धाव् अक्षिपच् छम्बरो ऽसुरः । मत्स्यो ऽग्रसीत् तद्उदराद् इतः प्राप्तो भवान् प्रभो ॥ 13 ॥
श्लोक 10.55.14
तम् इमं जहि दुर्धर्षं दुर्जयं शत्रुम् आत्मनः । मायाशतविदं तं च मायाभिर् मोहनादिभिः ॥ 14 ॥
श्लोक 10.55.15
परीशोचति ते माता कुररीव गतप्रजा । पुत्रस्नेहाकुला दीना विवत्सा गौर् इवातुरा ॥ 15 ॥
श्लोक 10.55.16
प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने । मायावती महामायां सर्वमायाविनाशिनीम् ॥ 16 ॥
श्लोक 10.55.17
स च शम्बरम् अभ्येत्य संयुगाय समाह्वयत् । अविषह्यैस् तम् आक्षेपैः क्षिपन् सञ्जनयन् कलिम् ॥ 17 ॥
श्लोक 10.55.18
सो ऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः । निश्चक्राम गदापाणिर् अमर्षात् ताम्रलोचनः ॥ 18 ॥
श्लोक 10.55.19
गदाम् आविध्य तरसा प्रद्युम्नाय महात्मने । प्रक्षिप्य व्यनदन् नादं वज्रनिष्पेषनिष्ठुरम् ॥ 19 ॥
श्लोक 10.55.20
ताम् आपतन्तीं भगवान् प्रद्युम्नो गदया गदाम् । अपास्य शत्रवे क्रुद्धः प्राहिणोत् स्वगदां नृप ॥ 20 ॥
श्लोक 10.55.21
स च मायां समाश्रित्य दैतेयीं मयदर्शितम् । मुमुचे ऽस्त्रमयं वर्षं कार्ष्णौ वैहायसो ऽसुरः ॥ 21 ॥
श्लोक 10.55.22
बाध्यमानो ऽस्त्रवर्षेण रौक्मिणेयो महारथः । सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम् ॥ 22 ॥
श्लोक 10.55.23
ततो गौह्यकगान्धर्वपैशाचोरगराक्षसीः । प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर् व्यधमयत् स ताः ॥ 23 ॥
श्लोक 10.55.24
निशातम् असिम् उद्यम्य सकिरीटं सकुण्डलम् । शम्बरस्य शिरः कायात् ताम्रश्मश्र्व् ओजसाहरत् ॥ 24 ॥
श्लोक 10.55.25
आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः । भार्ययाम्बरचारिण्या पुरं नीतो विहायसा ॥ 25 ॥
श्लोक 10.55.26
अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् । विवेश पत्न्या गगनाद् विद्युतेव बलाहकः ॥ 26 ॥
श्लोक 10.55.27
तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् । प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम् ॥ 27 ॥
श्लोक 10.55.28
स्व्अलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः । कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस् तत्र तत्र ह ॥ 28 ॥
श्लोक 10.55.29
अवधार्य शनैर् ईषद् वैलक्षण्येन योषितः । उपजग्मुः प्रमुदिताः सस्त्री रत्नं सुविस्मिताः ॥ 29 ॥
श्लोक 10.55.30
अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी । अस्मरत् स्वसुतं नष्टं स्नेहस्नुतपयोधरा ॥ 30 ॥
श्लोक 10.55.31
को न्व् अयम् नरवैदूर्यः कस्य वा कमलेक्षणः । धृतः कया वा जठरे केयं लब्धा त्व् अनेन वा ॥ 31 ॥
श्लोक 10.55.32
मम चाप्य् आत्मजो नष्टो नीतो यः सूतिकागृहात् । एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित् ॥ 32 ॥
श्लोक 10.55.33
कथं त्व् अनेन सम्प्राप्तं सारूप्यं शार्ङ्गधन्वनः । आकृत्यावयवैर् गत्या स्वरहासावलोकनैः ॥ 33 ॥
श्लोक 10.55.34
स एव वा भवेन् नूनं यो मे गर्भे धृतो ऽर्भकः । अमुष्मिन् प्रीतिर् अधिका वामः स्फुरति मे भुजः ॥ 34 ॥
श्लोक 10.55.35
एवं मीमांसमणायां वैदर्भ्यां देवकीसुतः । देवक्य्आनकदुन्दुभ्याम् उत्तमःश्लोक आगमत् ॥ 35 ॥
श्लोक 10.55.36
विज्ञातार्थो ऽपि भगवांस् तूष्णीम् आस जनार्दनः । नारदो ऽकथयत् सर्वं शम्बराहरणादिकम् ॥ 36 ॥
श्लोक 10.55.37
तच् छ्रुत्वा महद् आश्चर्यं कृष्णान्तःपुरयोषितः । अभ्यनन्दन् बहून् अब्दान् नष्टं मृतम् इवागतम् ॥ 37 ॥
श्लोक 10.55.38
देवकी वसुदेवश् च कृष्णरामौ तथा स्त्रियः । दम्पती तौ परिष्वज्य रुक्मिणी च ययुर् मुदम् ॥ 38 ॥
श्लोक 10.55.39
नष्टं प्रद्युम्नम् आयातम् आकर्ण्य द्वारकौकसः । अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन् ॥ 39 ॥
श्लोक 10.55.40
यं वै मुहुः पितृसरूपनिजेशभावास् तन्मातरो यद् अभजन् रहरूढभावाः &अम्प्; चित्रं न तत् खलु रमास्पदबिम्बबिम्बे कामे स्मरे ऽक्षविषये किम् उतान्यनार्यः ॥ 40 ॥