श्रीमद्भागवत दशम स्कन्ध अध्याय 56
श्रीमद्भागवत दशम स्कन्ध अध्याय 56 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.56.1
सत्राजितः स्वतनयां कृष्णाय कृतकिल्बिषः । स्यमन्तकेन मणिना स्वयम् उद्यम्य दत्तवान् ॥ 1 ॥
श्लोक 10.56.2
सत्राजितः किम् अकरोद् ब्रह्मन् कृष्णस्य किल्बिषः । स्यमन्तकः कुतस् तस्य कस्माद् दत्ता सुता हरेः ॥ 2 ॥
श्लोक 10.56.3
आसीत् सत्राजितः सूर्यो भक्तस्य परमः सखा । प्रीतस् तस्मै मणिं प्रादात् स च तुष्टः स्यमन्तकम् ॥ 3 ॥
श्लोक 10.56.4
स तं बिभ्रन् मणिं कण्ठे भ्राजमानो यथा रविः । प्रविष्टो द्वारकां राजन् तेजसा नोपलक्षितः ॥ 4 ॥
श्लोक 10.56.5
तं विलोक्य जना दूरात् तेजसा मुष्टदृष्टयः । दीव्यते ऽक्षैर् भगवते शशंसुः सूर्यशङ्किताः ॥ 5 ॥
श्लोक 10.56.6
नारायण नमस् ते ऽस्तु शङ्खचक्रगदाधर । दामोदरारविन्दाक्ष गोविन्द यदुनन्दन ॥ 6 ॥
श्लोक 10.56.7
एष आयाति सविता त्वां दिदृक्षुर् जगत्पते । मुष्णन् गभस्तिचक्रेण नृणां चक्षूंषि तिग्मगुः ॥ 7 ॥
श्लोक 10.56.8
नन्व् अन्विच्छन्ति ते मार्गं त्रीलोक्यां विबुधर्षभाः । ज्ञात्वाद्य गूढं यदुषु द्रष्टुं त्वां यात्य् अजः प्रभो ॥ 8 ॥
श्लोक 10.56.9
निशम्य बालवचनं प्रहस्याम्बुजलोचनः । प्राह नासौ रविर् देवः सत्राजिन् मणिना ज्वलन् ॥ 9 ॥
श्लोक 10.56.10
सत्राजित् स्वगृहं श्रीमत् कृतकौतुकमङ्गलम् । प्रविश्य देवसदने मणिं विप्रैर् न्यवेशयत् ॥ 10 ॥
श्लोक 10.56.11
दिने दिने स्वर्णभारान् अष्टौ स सृजति प्रभो । दुर्भिक्षमार्य्अरिष्टानि सर्पाधिव्याधयो ऽशुभाः । न सन्ति मायिनस् तत्र यत्रास्ते ऽभ्यर्चितो मणिः ॥ 11 ॥
श्लोक 10.56.12
स याचितो मणिं क्वापि यदुराजाय शौरिणा । नैवार्थकामुकः प्रादाद् याच्ञाभङ्गम् अतर्कयन् ॥ 12 ॥
श्लोक 10.56.13
तम् एकदा मणिं कण्ठे प्रतिमुच्य महाप्रभम् । प्रसेनो हयम् आरुह्य मृगायां व्यचरद् वने ॥ 13 ॥
श्लोक 10.56.14
प्रसेनं सहयं हत्वा मणिम् आच्छिद्य केशरी । गिरिं विशन् जाम्बवता निहतो मणिम् इच्छता ॥ 14 ॥
श्लोक 10.56.15
सो ऽपि चक्रे कुमारस्य मणिं क्रीडनकं बिले । अपश्यन् भ्रातरं भ्राता सत्राजित् पर्यतप्यत ॥ 15 ॥
श्लोक 10.56.16
प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः । भ्राता ममेति तच् छ्रुत्वा कर्णे कर्णे ऽजपन् जनाः ॥ 16 ॥
श्लोक 10.56.17
भगवांस् तद् उपश्रुत्य दुर्यशो लिप्तम् आत्मनि । मार्ष्टुं प्रसेनपदवीम् अन्वपद्यत नागरैः ॥ 17 ॥
श्लोक 10.56.18
हतं प्रसेनं अश्वं च वीक्ष्य केशरिणा वने । तं चाद्रिपृष्ठे निहतम् ऋक्षेण ददृशुर् जनाः ॥ 18 ॥
श्लोक 10.56.19
ऋक्षराजबिलं भीमम् अन्धेन तमसावृतम् । एको विवेश भगवान् अवस्थाप्य बहिः प्रजाः ॥ 19 ॥
श्लोक 10.56.20
तत्र दृष्ट्वा मणिप्रेष्ठं बालक्रीडनकं कृतम् । हर्तुं कृतमतिस् तस्मिन्न् अवतस्थे ऽर्भकान्तिके ॥ 20 ॥
श्लोक 10.56.21
तम् अपूर्वं नरं दृष्ट्वा धात्री चुक्रोश भीतवत् । तच् छ्रुत्वाभ्यद्रवत् क्रुद्धो जाम्बवान् बलिनां वरः ॥ 21 ॥
श्लोक 10.56.22
स वै भगवता तेन युयुधे स्वामीनात्मनः । पुरुषम् प्राकृतं मत्वा कुपितो नानुभाववित् ॥ 22 ॥
श्लोक 10.56.23
द्वन्द्वयुद्धं सुतुमुलम् उभयोर् विजिगीषतोः । आयुधाश्मद्रुमैर् दोर्भिः क्रव्यार्थे श्येनयोर् इव ॥ 23 ॥
श्लोक 10.56.24
आसीत् तद् अष्टाविम्शाहम् इतरेतरमुष्टिभिः । वज्रनिष्पेषपरुषैर् अविश्रमम् अहर्निशम् ॥ 24 ॥
श्लोक 10.56.25
कृष्णमुष्टिविनिष्पात निष्पिष्टाङ्गोरु बन्धनः । क्षीणसत्त्वः स्विन्नगात्रस् तम् आहातीव विस्मितः ॥ 25 ॥
श्लोक 10.56.26
जाने त्वां सऋवभूतानां प्राण ओजः सहो बलम् । विष्णुं पुराणपुरुषं प्रभविष्णुम् अधीश्वरम् ॥ 26 ॥
श्लोक 10.56.27
त्वं हि विश्वसृजाम् स्रष्टा सृष्टानाम् अपि यच् च सत् । कालः कलयताम् ईशः पर आत्मा तथात्मनाम् ॥ 27 ॥
श्लोक 10.56.28
यस्येषद्उत्कलितरोषकटाक्षमोक्षैर् वर्त्मादिशत् क्षुभितनक्रतिमिङ्गलो ऽब्धिः &अम्प्; सेतुः कृतः स्वयश उज्ज्वलिता च लङ्का रक्षःशिरांसि भुवि पेतुर् इषुक्षतानि ॥ 28 ॥
श्लोक 10.56.29
इति विज्ञातविइज्ञानम् ऋक्षराजानम् अच्युतः । व्याजहार महाराज भगवान् देवकीसुतः ॥ 29 ॥
श्लोक 10.56.30
अभिमृश्यारविन्दाक्षः पाणिना शंकरेण तम् । कृपया परया भक्तं मेघगम्भीरया गिरा ॥ 30 ॥
श्लोक 10.56.31
मणिहेतोर् इह प्राप्ता वयम् ऋक्षपते बिलम् । मिथ्याभिशापं प्रमृजन्न् आत्मनो मणिनामुना ॥ 31 ॥
श्लोक 10.56.32
इत्य् उक्तः स्वां दुहितरं कन्यां जाम्बवतीं मुदा । अर्हणार्थम् स मणिना कृष्णायोपजहार ह ॥ 32 ॥
श्लोक 10.56.33
अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः । प्रतीक्ष्य द्वादशाहानि दुःखिताः स्वपुरं ययुः ॥ 33 ॥
श्लोक 10.56.34
निशम्य देवकी देवी रक्मिण्य् आनकदुन्दुभिः । सुहृदो ज्ञातयो ऽशोचन् बिलात् कृष्णम् अनिर्गतम् ॥ 34 ॥
श्लोक 10.56.35
सत्राजितं शपन्तस् ते दुःखिता द्वारकौकसः । उपतस्थुश् चन्द्रभागां दुर्गां कृष्णोपलब्धये ॥ 35 ॥
श्लोक 10.56.36
तेषां तु देव्य्उपस्थानात् प्रत्यादिष्टाशिषा स च । प्रादुर्बभूव सिद्धार्थः सदारो हर्षयन् हरिः ॥ 36 ॥
श्लोक 10.56.37
उपलभ्य हृषीकेशं मृतं पुनर् इवागतम् । सह पत्न्या मणिग्रीवं सर्वे जातमहोत्सवाः ॥ 37 ॥
श्लोक 10.56.38
सत्राजितं समाहूय सभायां राजसन्निधौ । प्राप्तिं चाख्याय भगवान् मणिं तस्मै न्यवेदयत् ॥ 38 ॥
श्लोक 10.56.39
स चातिव्रीडितो रत्नं गृहीत्वावाङ्मुखस् ततः । अनुतप्यमानो भवनम् अगमत् स्वेन पाप्मना ॥ 39 ॥
श्लोक 10.56.40
सो ऽनुध्यायंस् तद् एवाघं बलवद्विग्रहाकुलः । कथं मृजाम्य् आत्मरजः प्रसीदेद् वाच्युतः कथम् ॥ 40 ॥
श्लोक 10.56.41
किम् कृत्वा साधु मह्यं स्यान् न शपेद् वा जनो यथा । अदीर्घदर्शनं क्षुद्रं मूढं द्रविणलोलुपम् ॥ 41 ॥
श्लोक 10.56.42
दास्ये दुहितरं तस्मै स्त्रीरत्नं रत्नम् एव च । उपायो ऽयं समीचीनस् तस्य शान्तिर् न चान्यथा ॥ 42 ॥
श्लोक 10.56.43
एवं व्यवसितो बुद्ध्या सत्राजित् स्वसुतां शुभाम् । मणिं च स्वयम् उद्यम्य कृष्णायोपजहार ह ॥ 43 ॥
श्लोक 10.56.44
तां सत्यभामां भगवान् उपयेमे यथाविधि । बहुभिर् याचितां शीलरूपौदार्यगुणान्विताम् ॥ 44 ॥
श्लोक 10.56.45
भगवान् आह न मणिं प्रतीच्छामो वयं नृप । तवास्तां देवभक्तस्य वयं च फलभागिनः ॥ 45 ॥