श्रीमद्भागवत दशम स्कन्ध अध्याय 57
श्रीमद्भागवत दशम स्कन्ध अध्याय 57 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.57.1
विज्ञातार्थो ऽपि गोविन्दो दग्धान् आकर्ण्य पाण्डवान् । कुन्तीं च कुल्यकरणे सहरामो ययौ कुरून् ॥ 1 ॥
श्लोक 10.57.2
भीष्मं कृपं स विदुरं गान्धारीं द्रोणम् एव च । तुल्यदुःखौ च सङ्गम्य हा कष्टम् इति होचतुः ॥ 2 ॥
श्लोक 10.57.3
लब्ध्वैतद् अन्तरं राजन् शतधन्वानम् ऊचतुः । अक्रूरकृतवर्माणौ मनिः कस्मान् न गृह्यते ॥ 3 ॥
श्लोक 10.57.4
यो ऽस्मभ्यं सम्प्रतिश्रुत्य कन्यारत्नं विगर्ह्य नः । कृष्णायादान् न सत्राजित् कस्माद् भ्रातरम् अन्वियात् ॥ 4 ॥
श्लोक 10.57.5
एवं भिन्नमतिस् ताभ्यां सत्राजितम् असत्तमः । शयानम् अवधील् लोभात् स पापः क्षीण जीवितः ॥ 5 ॥
श्लोक 10.57.6
स्त्रीणां विक्रोशमानानां क्रन्दन्तीनाम् अनाथवत् । हत्वा पशून् सौनिकवन् मणिम् आदाय जग्मिवान् ॥ 6 ॥
श्लोक 10.57.7
सत्यभामा च पितरं हतं वीक्ष्य शुचार्पिता । व्यलपत् तात तातेति हा हतास्मीति मुह्यती ॥ 7 ॥
श्लोक 10.57.8
तैलद्रोण्यां मृतं प्रास्य जगाम गजसाह्वयम् । कृष्णाय विदितार्थाय तप्ताचख्यौ पितुर् वधम् ॥ 8 ॥
श्लोक 10.57.9
तद् आकर्ण्येश्वरौ राजन्न् अनुसृत्य नृलोकताम् । अहो नः परमं कष्टम् इत्य् अस्राक्षौ विलेपतुः ॥ 9 ॥
श्लोक 10.57.10
आगत्य भगवांस् तस्मात् सभार्यः साग्रजः पुरम् । शतधन्वानम् आरेभे हन्तुं हर्तुं मणिं ततः ॥ 10 ॥
श्लोक 10.57.11
सो ऽपि कृतोद्यमं ज्ञात्वा भीतः प्राणपरीप्सया । साहाय्ये कृतवर्माणम् अयाचत स चाब्रवीत् ॥ 11 ॥
श्लोक 10.57.12
नाहम् ईस्वरयोः कुर्यां हेलनं रामकृष्णयोः । को नु क्षेमाय कल्पेत तयोर् वृजिनम् आचरन् ॥ 12 ॥
श्लोक 10.57.13
कंसः सहानुगो ऽपीतो यद्द्वेषात् त्याजितः श्रिया । जरासन्धः सप्तदशसंयुगाद् विरथो गतः ॥ 13 ॥
श्लोक 10.57.14
प्रत्याख्यातः स चाक्रूरं पार्ष्णिग्राहम् अयाचत । सो ऽप्य् आह को विरुध्येत विद्वान् ईश्वरयोर् बलम् ॥ 14 ॥
श्लोक 10.57.15
य इदं लीलया विश्वं सृजत्य् अवति हन्ति च । चेष्टां विश्वसृजो यस्य न विदुर् मोहिताजया ॥ 15 ॥
श्लोक 10.57.16
यः सप्तहायनः शैलम् उत्पाट्यैकेन पाणिना । दधार लीलया बाल उच्छिलीन्ध्रम् इवार्भकः ॥ 16 ॥
श्लोक 10.57.17
नमस् तस्मै भगवते कृष्णायाद्भुतकर्मणे । अनन्तायादिभूताय कूटस्थायात्मने नमः ॥ 17 ॥
श्लोक 10.57.18
प्रत्याख्यातः स तेनापि शतधन्वा महामणिम् । तस्मिन् न्यस्याश्वम् आरुह्य शतयोजनगं ययौ ॥ 18 ॥
श्लोक 10.57.19
गरुडध्वजम् आरुह्य रथं रामजनार्दनौ । अन्वयातां महावेगैर् अश्वै राजन् गुरुद्रुहम् ॥ 19 ॥
श्लोक 10.57.20
मिथिलायाम् उपवने विसृज्य पतितं हयम् । पद्भ्याम् अधावत् सन्त्रस्तः कृष्णो ऽप्य् अन्वद्रवद् रुषा ॥ 20 ॥
श्लोक 10.57.21
पदातेर् भगवांस् तस्य पदातिस् तिग्मनेमिना । चक्रेण शिर उत्कृत्य वाससोर् व्यचिनोन् मणिम् ॥ 21 ॥
श्लोक 10.57.22
अलब्धमणिर् आगत्य कृष्ण आहाग्रजान्तिकम् । वृथा हतः शतधनुर् मणिस् तत्र न विद्यते ॥ 22 ॥
श्लोक 10.57.23
तत आह बलो नूनं स मणिः शतधन्वना । कस्मिंश्चित् पुरुषे न्यस्तस् तम् अन्वेष पुरं व्रज ॥ 23 ॥
श्लोक 10.57.24
अहं वैदेहम् इच्छामि द्रष्टुं प्रियतमं मम । इत्य् उक्त्वा मिथिलां राजन् विवेश यदनन्दनः ॥ 24 ॥
श्लोक 10.57.25
तं दृष्ट्वा सहसोत्थाय मैथिलः प्रीतमानसः । अर्हयां आस विधिवद् अर्हणीयं समर्हणैः ॥ 25 ॥
श्लोक 10.57.26
उवास तस्यां कतिचिन् मिथिलायां समा विभुः । मानितः प्रीतियुक्तेन जनकेन महात्मना । ततो ऽशिक्षद् गदां काले धार्तराष्ट्रः सुयोधनः ॥ 26 ॥
श्लोक 10.57.27
केशवो द्वारकाम् एत्य निधनं शतधन्वनः । अप्राप्तिं च मणेः प्राह प्रियायाः प्रियकृद् विभुः ॥ 27 ॥
श्लोक 10.57.28
ततः स कारयाम् आस क्रिया बन्धोर् हतस्य वै । साकं सुहृद्भिर् भगवान् या याः स्युः साम्परायिकीः ॥ 28 ॥
श्लोक 10.57.29
अक्रूरः कृतवर्मा च श्रुत्वा शतधनोर् वधम् । व्यूषतुर् भयवित्रस्तौ द्वारकायाः प्रयोजकौ ॥ 29 ॥
श्लोक 10.57.30
अक्रूरे प्रोषिते ऽरिष्टान्य् आसन् वै द्वारकौकसाम् । शारीरा मानसास् तापा मुहुर् दैविकभौतिकाः ॥ 30 ॥
श्लोक 10.57.31
इत्य् अङ्गोपदिशन्त्य् एके विस्मृत्य प्राग् उदाहृतम् । मुनिवासनिवासे किं घटेतारिष्टदर्शनम् ॥ 31 ॥
श्लोक 10.57.32
देवे ऽवर्षति काशीशः श्वफल्कायागताय वै । स्वसुतां गाण्दिनीं प्रादात् ततो ऽवर्षत् स्म काशिषु ॥ 32 ॥
श्लोक 10.57.33
तत्सुतस् तत्प्रभावो ऽसाव् अक्रूरो यत्र यत्र ह । देवो ऽभिवर्षते तत्र नोपतापा न मारीकाः ॥ 33 ॥
श्लोक 10.57.34
इति वृद्धवचः श्रुत्वा नैतावद् इह कारणम् । इति मत्वा समानाय्य प्राहाक्रूरं जनार्दनः ॥ 34 ॥
श्लोक 10.57.35
पूजयित्वाभिभाष्यैनं कथयित्वा प्रियाः कथाः । विज्ञताखिलचित्त ज्ञः स्मयमान उवाच ह ॥ 35 ॥
श्लोक 10.57.36
ननु दानपते न्यस्तस् त्वय्य् आस्ते शतधन्वना । स्यमन्तको मनिः श्रीमान् विदितः पूर्वम् एव नः ॥ 36 ॥
श्लोक 10.57.37
सत्राजितो ऽनपत्यत्वाद् गृह्णीयुर् दुहितुः सुताः । दायं निनीयापः पिण्डान् विमुच्यर्णं च शेषितम् ॥ 37 ॥
श्लोक 10.57.38
तथापि दुर्धरस् त्व् अन्यैस् त्वय्य् आस्तां सुव्रते मणिः । किन्तु माम् अग्रजः सम्यङ् न प्रत्येति मणिं प्रति ॥ 38 ॥
श्लोक 10.57.39
दर्शयस्व महाभाग बन्धूनां शान्तिम् आवह । अव्युच्छिन्ना मखास् ते ऽद्य वर्तन्ते रुक्मवेदयः ॥ 39 ॥
श्लोक 10.57.40
एवं सामभिर् आलब्धः श्वफल्कतनयो मणिम् । आदाय वाससाच्छन्नः ददौ सूर्यसमप्रभम् ॥ 40 ॥
श्लोक 10.57.41
स्यमन्तकं दर्शयित्वा ज्ञातिभ्यो रज आत्मनः । विमृज्य मणिना भूयस् तस्मै प्रत्यर्पयत् प्रभुः ॥ 41 ॥
श्लोक 10.57.42
यस् त्व् एतद् भगवत ईश्वरस्य विष्णोर् वीर्याढ्यं वृजिनहरं सुमङ्गलं च &अम्प्; आख्यानं पठति शृणोत्य् अनुस्मरेद् वा दुष्कीर्तिं दुरितम् अपोह्य याति शान्तिम् ॥ 42 ॥