मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 58

श्रीमद्भागवत दशम स्कन्ध अध्याय 58 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.58.1

एकदा पाण्डवान् द्रष्टुं प्रतीतान् पुरुषोत्तमः । इन्द्रप्रस्थं गतः शृईमान् युयुधानादिभिर् वृतः ॥ 1 ॥

श्लोक 10.58.2

दृष्ट्वा तम् आगतं पार्था मुकुन्दम् अखिलेश्वरम् । उत्तस्थुर् युगपद् वीराः प्राणा मुख्यम् इवागतम् ॥ 2 ॥

श्लोक 10.58.3

परिष्वज्याच्युतं वीरा अङ्गसङ्गहतैनसः । सानुरागस्मितं वक्त्रं वीक्ष्य तस्य मुदं ययुः ॥ 3 ॥

श्लोक 10.58.4

युधिष्ठिरस्य भीमस्य कृत्वा पादाभिवन्दनम् । फाल्गुनं परिरभ्याथ यमाभ्यां चाभिवन्दितः ॥ 4 ॥

श्लोक 10.58.5

परमासन आसीनं कृष्णा कृष्णम् अनिन्दिता । नवोढा व्रीडिता किञ्चिच् छनैर् एत्याभ्यवन्दत ॥ 5 ॥

श्लोक 10.58.6

तथैव सात्यकिः पार्थैः पूजितश् चाभिवन्दितः । निषसादासने ऽन्ये च पूजिताः पर्युपासत ॥ 6 ॥

श्लोक 10.58.7

पृथाम् समागत्य कृताभिवादनस् तयातिहार्दार्द्रदृशाभिरम्भितः । आपृष्टवांस् तां कुशलं सहस्नुषां पितृष्वसारम् परिपृष्टबान्धवः ॥ 7 ॥

श्लोक 10.58.8

तम् आह प्रेमवैक्लव्यरुद्धकण्ठाश्रुलोचना । स्मरन्ती तान् बहून् क्लेशान् क्लेशापायात्मदर्शनम् ॥ 8 ॥

श्लोक 10.58.9

तदैव कुशलं नो ऽभूत् सनाथास् ते कृता वयम् । ज्ञतीन् नः स्मरता कृष्ण भ्राता मे प्रेषितस् त्वया ॥ 9 ॥

श्लोक 10.58.10

न ते ऽस्ति स्वपरभ्रान्तिर् विश्वस्य सुहृद्आत्मनः । तथापि स्मरतां शश्वत् क्लेशान् हंसि हृदि स्थितः ॥ 10 ॥

श्लोक 10.58.11

किं न आचरितं श्रेयो न वेदाहम् अधीश्वर । योगेश्वराणां दुर्दर्शो यन् नो दृष्टः कुमेधसाम् ॥ 11 ॥

श्लोक 10.58.12

इति वै वार्षिकान् मासान् राज्ञा सो ऽभ्यर्थितः सुखम् । जनयन् नयनानन्दम् इन्द्रप्रस्थौकसां विभुः ॥ 12 ॥

श्लोक 10.58.13

एकदा रथम् आरुह्य विजयो वानरध्वजम् । गाण्डीवं धनुर् आदाय तूणौ चाक्षयसायकौ ॥ 13 ॥

श्लोक 10.58.14

साकं कृष्णेन सन्नद्धो विहर्तुं विपिनं महत् । बहुव्यालमृगाकीर्णं प्राविशत् परवीरहा ॥ 14 ॥

श्लोक 10.58.15

तत्राविध्यच् छरैर् व्याघ्रान् शूकरान् महिषान् रुरून् । शरभान् गवयान् खड्गान् हरिणान् शशशल्लकान् ॥ 15 ॥

श्लोक 10.58.16

तान् निन्युः किङ्करा राज्ञे मेध्यान् पर्वण्य् उपागते । तृट्परीतः परिश्रान्तो बिभत्सुर् यमुनाम् अगात् ॥ 16 ॥

श्लोक 10.58.17

तत्रोपस्पृश्य विशदं पीत्वा वारि महारथौ । कृष्णौ ददृशतुः कन्यां चरन्तीं चारुदर्शनाम् ॥ 17 ॥

श्लोक 10.58.18

ताम् आसाद्य वरारोहां सुद्विजां रुचिराननाम् । पप्रच्छ प्रेषितः सख्या फाल्गुनः प्रमदोत्तमाम् ॥ 18 ॥

श्लोक 10.58.19

का त्वं कस्यासि सुश्रोणि कुतो वा किं चिकीर्षसि । मन्ये त्वां पतिम् इच्छन्तीं सर्वं कथय शोभने ॥ 19 ॥

श्लोक 10.58.20

अहं देवस्य सवितुर् दुहिता पतिम् इच्छती । विष्णुं वरेण्यं वरदं तपः परमम् आस्थितः ॥ 20 ॥

श्लोक 10.58.21

नान्यं पतिं वृणे वीर तम् ऋते श्रीनिकेतनम् । तुष्यतां मे स भगवान् मुकुन्दो ऽनाथसंश्रयः ॥ 21 ॥

श्लोक 10.58.22

कालिन्दीति समाख्याता वसामि यमुनाजले । निर्मिते भवने पित्रा यावद् अच्युतदर्शनम् ॥ 22 ॥

श्लोक 10.58.23

तथावदद् गुडाकेशो वासुदेवाय सो ऽपि ताम् । रथम् आरोप्य तद्विद्वान् धर्मराजम् उपागमत् ॥ 23 ॥

श्लोक 10.58.24

यदैव कृष्णः सन्दिष्टः पार्थानां परमाद्बुतम् । कारयाम् आस नगरं विचित्रं विश्वकर्मणा ॥ 24 ॥

श्लोक 10.58.25

भगवांस् तत्र निवसन् स्वानां प्रियचिकीर्षया । अग्नये खाण्डवं दातुम् अर्जुनस्यास सारथिः ॥ 25 ॥

श्लोक 10.58.26

सो ऽग्निस् तुष्टो धनुर् अदाद् धयान् श्वेतान् रथं नृप । अर्जुनायाक्षयौ तूणौ वर्म चाभेद्यम् अस्त्रिभिः ॥ 26 ॥

श्लोक 10.58.27

मयश् च मोचितो वह्नेः सभां सख्य उपाहरत् । यस्मिन् दुर्योधनस्यासीज् जलस्थलदृशिभ्रमः ॥ 27 ॥

श्लोक 10.58.28

स तेन समनुज्ञातः सुहृद्भिश् चानुमोदितः । आययौ द्वारकां भूयः सात्यकिप्रमखैर् वृतः ॥ 28 ॥

श्लोक 10.58.29

अथोपयेमे कालिन्दीं सुपुण्यर्त्व्ऋक्ष ऊर्जिते । वितन्वन् परमानन्दं स्वानां परममङ्गलः ॥ 29 ॥

श्लोक 10.58.30

विन्द्यानुविन्द्याव् आवन्त्यौ दुर्योधनवशानुगौ । स्वयंवरे स्वभगिनीं कृष्णे सक्तां न्यषेधताम् ॥ 30 ॥

श्लोक 10.58.31

राजाधिदेव्यास् तनयां मित्रविन्दां पितृष्वसुः । प्रसह्य हृतवान् कृष्णो राजन् राज्ञां प्रपश्यताम् ॥ 31 ॥

श्लोक 10.58.32

नग्नजिन् नाम कौशल्य आसीद् राजातिधार्मिकः । तस्य सत्याभवत् कन्या देवी नाग्नजिती नृप ॥ 32 ॥

श्लोक 10.58.33

न तां शेकुर् नृपा वोढुम् अजित्वा सप्तगोवृषान् । तीक्ष्णशृङ्गान् सुदुर्धर्षान् वीर्यगन्धासहान् खलान् ॥ 33 ॥

श्लोक 10.58.34

तां श्रुत्वा वृषजिल्लभ्यां भगवान् सात्वतां पतिः । जगाम कौशल्यपुरं सैन्येन महता वृतः ॥ 34 ॥

श्लोक 10.58.35

स कोशलपतिः प्रीतः प्रत्युत्थानासनादिभिः । अर्हणेनापि गुरुणा पूजयन् प्रतिनन्दितः ॥ 35 ॥

श्लोक 10.58.36

वरं विलोक्याभिमतं समागतं नरेन्द्रकन्या चकमे रमापतिम् । भूयाद् अयं मे पतिर् आशिषो ऽनलः करोतु सत्या यदि मे धृतो व्रतः ॥ 36 ॥

श्लोक 10.58.37

यत्पादपङ्कजरजः शिरसा बिभर्ति शृईर् अब्यजः सगिरिशः सह लोकपालैः &अम्प्; लीलातनुः स्वकृतसेतुपरीप्सया यः काले ऽदधत् स भगवान् मम केन तुष्येत् ॥ 37 ॥

श्लोक 10.58.38

अर्चितं पुनर् इत्य् आह नारायण जगत्पते । आत्मानन्देन पूर्णस्य करवाणि किम् अल्पकः ॥ 38 ॥

श्लोक 10.58.39

तम् आह भगवान् हृष्टः कृतासनपरिग्रहः । मेघगम्भीरया वाचा सस्मितं कुरुनन्दन ॥ 39 ॥

श्लोक 10.58.40

नरेन्द्र याच्ञा कविभिर् विगर्हिता राजन्यबन्धोर् निजधर्मवर्तिनः । तथापि याचे तव सौहृदेच्छया कन्यां त्वदीयां न हि शुल्कदा वयम् ॥ 40 ॥

श्लोक 10.58.41

को ऽन्यस् ते ऽभ्यधिको नाथ कन्यावर इहेप्सितः । गुणैकधाम्नो यस्याङ्गे श्रीर् वसत्य् अनपायिनी ॥ 41 ॥

श्लोक 10.58.42

किन्त्व् अस्माभिः कृतः पूर्वं समयः सात्वतर्षभ । पुंसां वीर्यपरीक्षार्थं कन्यावरपरीप्सया ॥ 42 ॥

श्लोक 10.58.43

सप्तैते गोवृषा वीर दुर्दान्ता दुरवग्रहाः । एतैर् भग्नाः सुबहवो भिन्नगात्रा नृपात्मजाः ॥ 43 ॥

श्लोक 10.58.44

यद् इमे निगृहीताः स्युस् त्वयैव यदुनन्दन । वरो भवान् अभिमतो दुहितुर् मे श्रियःपते ॥ 44 ॥

श्लोक 10.58.45

एवं समयम् आकर्ण्य बद्ध्वा परिकरं प्रभुः । आत्मानं सप्तधा कृत्वा न्यगृह्णाल् लीलयैव तान् ॥ 45 ॥

श्लोक 10.58.46

बद्ध्वा तान् दामभिः शौरिर् भग्नदर्पान् हतौजसः । व्यकर्सल् लीलया बद्धान् बालो दारुमयान् यथा ॥ 46 ॥

श्लोक 10.58.47

ततः प्रीतः सुतां राजा ददौ कृष्णाय विस्मितः । तां प्रत्यगृह्णाद् भगवान् विधिवत् सदृशीं प्रभुः ॥ 47 ॥

श्लोक 10.58.48

राजपत्न्यश् च दुहितुः कृष्णं लब्ध्वा प्रियं पतिम् । लेभिरे परमानन्दं जातश् च परमोत्सवः ॥ 48 ॥

श्लोक 10.58.49

शङ्खभेर्य्आनका नेदुर् गीतवाद्यद्विजाशिषः । नरा नार्यः प्रमुदिताः सुवासःस्रग्अलङ्कृताः ॥ 49 ॥

श्लोक 10.58.50

दशधेनुसहस्राणि पारिबर्हम् अदाद् विभुः । युवतीनां त्रिसाहस्रं निष्कग्रीवसुवाससम् ॥ 50 ॥

श्लोक 10.58.51

नवनागसहस्राणि नागाच् छतगुणान् रथान् । रथाच् छतगुणान् अश्वान् अश्वाच् छतगुणान् नरान् ॥ 51 ॥

श्लोक 10.58.52

दम्पती रथम् आरोप्य महत्या सेनया वृतौ । स्नेहप्रक्लिन्नहृदयो यापयाम् आस कोशलः ॥ 52 ॥

श्लोक 10.58.53

श्रुत्वैतद् रुरुधुर् भूपा नयन्तं पथि कन्यकाम् । भग्नवीर्याः सुदुर्मर्षा यदुभिर् गोवृषैः पुरा ॥ 53 ॥

श्लोक 10.58.54

तान् अस्यतः शरव्रातान् बन्धुप्रियकृद् अर्जुनः । गाण्डीवी कालयाम् आस सिंहः क्षुद्रमृगान् इव ॥ 54 ॥

श्लोक 10.58.55

पारिबर्हम् उपागृह्य द्वारकाम् एत्य सत्यया । रेमे यदूनाम् ऋषभो भगवान् देवकीसुतः ॥ 55 ॥

श्लोक 10.58.56

श्रुतकीर्तेः सुतां भद्रां उपयेमे पितृष्वसुः । कैकेयीं भ्रातृभिर् दत्तां कृष्णः सन्तर्दनादिभिः ॥ 56 ॥

श्लोक 10.58.57

सुतां च मद्राधिपतेर् लक्ष्मणां लक्षणैर् यताम् । स्वयंवरे जहारैकः स सुपर्णः सुधाम् इव ॥ 57 ॥

श्लोक 10.58.58

अन्याश् चैवंविधा भार्याः कृष्णस्यासन् सहस्रशः । भौमं हत्वा तन्निरोधाद् आहृताश् चारुदर्शनाः ॥ 58 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ