मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 59

श्रीमद्भागवत दशम स्कन्ध अध्याय 59 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.59.1

श्रीराजोवाच यथा हतो भगवता भौमो येने च ताः स्त्रियः । निरुद्धा एतद् आचक्ष्व विक्रमं शार्ङ्गधन्वनः ॥ 1 ॥

श्लोक 10.59.2

इन्द्रेण हृतछत्रेण हृतकुण्डलबन्धुना । हृतामराद्रिस्थानेन ज्ञापितो भौमचेष्टितम् ॥ 2 ॥

श्लोक 10.59.3

सभार्यो गरुडारूढः प्राग्ज्योतिषपुरं ययौ । गिरिदुर्गैः शस्त्रदुर्गैर् जलाग्न्य्अनिलदुर्गमम् । मुरपाशायुतैर् घोरैर् दृढैः सर्वत आवृतम् ॥ 3 ॥

श्लोक 10.59.4

गदया निर्बिभेदाद्रीन् शस्त्रदुर्गाणि सायकैः । चक्रेणाग्निं जलं वायुं मुरपाशांस् तथासिना ॥ 4 ॥

श्लोक 10.59.5

शङ्खनादेन यन्त्राणि हृदयानि मनस्विनाम् । प्राकारं गदया गुर्व्या निर्बिभेद गदाधरः ॥ 5 ॥

श्लोक 10.59.6

पाञ्चजन्यध्वनिं श्रुत्वा युगान्तशनिभीषणम् । मुरः शयान उत्तस्थौ दैत्यः पञ्चशिरा जलात् ॥ 6 ॥

श्लोक 10.59.7

त्रिशूलम् उद्यम्य सुदुर्निरीक्षणो युगान्तसूर्यानलरोचिर् उल्बणः । ग्रसंस् त्रिलोकीम् इव पञ्चभिर् मुखैर् अभ्यद्रवत् तार्क्ष्यसुतं यथोरगः ॥ 7 ॥

श्लोक 10.59.8

आविध्य शूलं तरसा गरुत्मते निरस्य वक्त्रैर् व्यनदत् स पञ्चभिः । स रोदसी सर्वदिशो ऽम्बरं महान् आपूरयन्न् अण्डकटाहम् आवृणोत् ॥ 8 ॥

श्लोक 10.59.9

तदापतद् वै त्रिशिखं गरुत्मते हरिः शराभ्याम् अभिनत् त्रिधोजसा । मुखेषु तं चापि शरैर् अताडयत् तस्मै गदां सो ऽपि रुषा व्यमुञ्चत ॥ 9 ॥

श्लोक 10.59.10

ताम् आपतन्तीं गदया गदां मृधे गदाग्रजो निर्बिभिदे सहस्रधा । उद्यम्य बाहून् अभिधावतो ऽजितः शिरांसि चक्रेण जहार लीलया ॥ 10 ॥

श्लोक 10.59.11

व्यसुः पपाताम्भसि कृत्तशीर्षो निकृत्तशृङ्गो ऽद्रिर् इवेन्द्रतेजसा । तस्यात्मजाः सप्त पितुर् वधातुराः प्रतिक्रियामर्षजुषः समुद्यताः ॥ 11 ॥

श्लोक 10.59.12

ताम्रो ऽन्तरिक्षः श्रवणो विभावसुर् वसुर् नभस्वान् अरुणश् च सप्तमः &अम्प्; पीठं पुरस्कृत्य चमूपतिं मृधे भौमप्रयुक्ता निरगन् धृतायुधाः ॥ 12 ॥

श्लोक 10.59.13

प्रायुञ्जतासाद्य शरान् असीन् गदाः शक्त्य्ऋष्टिशूलान्य् अजिते रुषोल्बणाः । तच्छस्त्रकूटं भगवान् स्वमार्गणैर् अमोघवीर्यस् तिलशश् चकर्त ह ॥ 13 ॥

श्लोक 10.59.14

तान् पीठमुख्यान् अनयद् यमक्षयं निकृत्तशीर्षोरुभुजाङ्घ्रिवर्मणः । स्वानीकपान् अच्युतचक्रसायकैस् तथा निरस्तान् नरको धरासुतः \ निरीक्ष्य दुर्मर्षण आस्रवन्मदैर् # गजैः पयोधिप्रभवैर् निराक्रमात् ॥ 14 ॥

श्लोक 10.59.15

दृष्ट्वा सभार्यं गरुडोपरि स्थितं सूर्योपरिष्टात् सतडिद् घनं यथा &अम्प्; कृष्णं स तस्मै व्यसृजच् छतघ्नीं योधाश् च सर्वे युगपच् च विव्यधुः ॥ 15 ॥

श्लोक 10.59.16

तद् भौमसैन्यं भगवान् गदाग्रजो विचित्रवाजैर् निशितैः शिलीमुखैः । निकृत्तबाहूरुशिरोध्रविग्रहं चकार तर्ह्य् एव हताश्वकुञ्जरम् ॥ 16 ॥

श्लोक 10.59.17

यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह । हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैकशस् त्रीभिः ॥ 17 ॥

श्लोक 10.59.18

उह्यमानः सुपर्णेन पक्षाभ्यां निघ्नता गजान् । गुरुत्मता हन्यमानास् तुण्डपक्षनखेर् गजाः ॥ 18 ॥

श्लोक 10.59.19

पुरम् एवाविशन्न् आर्ता नरको युध्य् अयुध्यत । दृष्ट्वा विद्रावितं सैन्यं गरुडेनार्दितं स्वकं ॥ 19 ॥

श्लोक 10.59.20

तं भौमः प्राहरच् छक्त्या वज्रः प्रतिहतो यतः । नाकम्पत तया विद्धो मालाहत इव द्विपः ॥ 20 ॥

श्लोक 10.59.21

शूलं भौमो ऽच्युतं हन्तुम् आददे वितथोद्यमः । तद्विसर्गात् पूर्वम् एव नरकस्य शिरो हरिः । अपाहरद् गजस्थस्य चक्रेण क्षुरनेमिना ॥ 21 ॥

श्लोक 10.59.22

सकुण्डलं चारुकिरीटभूषणं बभौ पृथिव्यां पतितम् समुज्ज्वलम् । ह हेति साध्व् इत्य् ऋषयः सुरेश्वरा माल्यैर् मुकुन्दं विकिरन्त ईदिरे ॥ 22 ॥

श्लोक 10.59.23

ततश् च भूः कृष्णम् उपेत्य कुण्डले प्रतप्तजाम्बूनदरत्नभास्वरे &अम्प्; सवैजयन्त्या वनमालयार्पयत् प्राचेतसं छत्रम् अथो महामणिम् ॥ 23 ॥

श्लोक 10.59.24

अस्तौषीद् अथ विश्वेशं देवी देववरार्चितम् । प्राञ्जलिः प्रणता राजन् भक्तिप्रवणया धिया ॥ 24 ॥

श्लोक 10.59.25

नमस् ते देवदेवेश शङ्खचक्रगदाधर । भक्तेच्छोपात्तरूपाय परमात्मन् नमो ऽस्तु ते ॥ 25 ॥

श्लोक 10.59.26

नमः पङ्कजनाभाय नमः पङ्कजमालिने । नमः पङ्कजनेत्राय नमस् तेपङ्कजाङ्घ्रये ॥ 26 ॥

श्लोक 10.59.27

नमो भगवते तुभ्यं वासुदेवाय विष्णवे । पुरुषायादिबीजाय पूर्णबोधाय ते नमः ॥ 27 ॥

श्लोक 10.59.28

अजाय जनयित्रे ऽस्य ब्रह्मणे ऽनन्तशक्तये । परावरात्मन् भूतात्मन् परमात्मन् नमो ऽस्तु ते ॥ 28 ॥

श्लोक 10.59.29

त्वं वै सिसृक्षुर् अज उत्कटं प्रभो तमो निरोधाय बिभर्ष्य् असंवृतः &अम्प्; स्थानाय सत्त्वं जगतो जगत्पते कालः प्रधानं पुरुषो भवान् परः ॥ 29 ॥

श्लोक 10.59.30

अहं पयो ज्योतिर् अथानिलो नभो मात्राणि देवा मन इन्द्रियाणि । कर्ता महान् इत्य् अखिलं चराचरं त्वय्य् अद्वितीये भगवन् अयं भ्रमः ॥ 30 ॥

श्लोक 10.59.31

तस्यात्मजो ऽयं तव पादपङ्कजं भीतः प्रपन्नार्तिहरोपसादितः । तत् पालयैनं कुरु हस्तपङ्कजं शिरस्य् अमुष्याखिलकल्मषापहम् ॥ 31 ॥

श्लोक 10.59.32

इति भूम्य्अर्थितो वाग्भिर् भगवान् भक्तिनम्रया । दत्त्वाभयं भौमगृहम् प्राविशत् सकलर्द्धिमत् ॥ 32 ॥

श्लोक 10.59.33

तत्र राजन्यकन्यानां षट्सहस्राधिकायुतम् । भौमाहृतानां विक्रम्य राजभ्यो ददृशे हरिः ॥ 33 ॥

श्लोक 10.59.34

तम् प्रविष्टं स्त्रियो वीक्ष्य नरवर्यं विमोहिताः । मनसा वव्रिरे ऽभीष्टं पतिं दैवोपसादितम् ॥ 34 ॥

श्लोक 10.59.35

भूयात् पतिर् अयं मह्यं धाता तद् अनुमोदताम् । इति सर्वाः पृथक् कृष्णे भावेन हृदयं दधुः ॥ 35 ॥

श्लोक 10.59.36

ताः प्राहिणोद् द्वारवतीं सुमृष्टविरजोऽम्बराः । नरयानैर् महाकोशान् रथाश्वान् द्रविणं महात् ॥ 36 ॥

श्लोक 10.59.37

ऐरावतकुलेभांश् च चतुर्दन्तांस् तरस्विनः । पाण्डुरांश् च चतुःषष्टिं प्रेरयाम् आस केशवः ॥ 37 ॥

श्लोक 10.59.38

गत्वा सुरेन्द्रभवनं दत्त्वादित्यै च कुण्डले । पूजितस् त्रिदशेन्द्रेण महेन्द्र्याण्या च सप्रियः ॥ 38 ॥

श्लोक 10.59.39

चोदितो भार्ययोत्पाट्य पारीजातं गरुत्मति । आरोप्य सेन्द्रान् विबुधान् निर्जित्योपानयत् पुरम् ॥ 39 ॥

श्लोक 10.59.40

स्थापितः सत्यभामाया गृहोद्यानोपशोभनः । अन्वगुर् भ्रमराः स्वर्गात् तद्गन्धासवलम्पटाः ॥ 40 ॥

श्लोक 10.59.41

ययाच आनम्य किरीटकोटिभिः पादौ स्पृशन्न् अच्युतम् अर्थसाधनम् । सिद्धार्थ एतेन विगृह्यते महान् अहो सुराणां च तमो धिग् आढ्यताम् ॥ 41 ॥

श्लोक 10.59.42

अथो मुहूर्त एकस्मिन् नानागारेषु ताः स्त्रियः । यथोपयेमे भगवान् तावद्रूपधरो ऽव्ययः ॥ 42 ॥

श्लोक 10.59.43

गृहेषु तासाम् अनपाय्य् अतर्ककृन् निरस्तसाम्यातिशयेष्व् अवस्थितः । रेमे रमाभिर् निजकामसम्प्लुतो यथेतरो गार्हकमेधिकांश् चरन् ॥ 43 ॥

श्लोक 10.59.44

इत्थं रमापतिम् अवाप्य पतिं स्त्रियस् ता ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् &अम्प्; भेजुर् मुदाविरतम् एधितयानुराग हासावलोकनवसङ्गमजल्पलज्जाः ॥ 44 ॥

श्लोक 10.59.45

प्रत्युद्गमासनवरार्हणपदशौचताम्बूलविश्रमणवीजनगन्धमाल्यैः । केशप्रसारशयनस्नपनोपहार्यैः दासीशता अपि विभोर् विदधुः स्म दास्यम् ॥ 45 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ