श्रीमद्भागवत दशम स्कन्ध अध्याय 60
श्रीमद्भागवत दशम स्कन्ध अध्याय 60 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.60.1
कर्हिचित् सुखम् आसीनं स्वतल्पस्थं जगद्गुरुम् । पतिं पर्यचरद् भैष्मी व्यजनेन सखीजनैः ॥ 1 ॥
श्लोक 10.60.2
यस् त्व् एतल् लीलया विश्वं सृजत्य् अत्त्य् अवतीश्वरः । स हि जातः स्वसेतूनां गोपीथाय यदुष्व् अजः ॥ 2 ॥
श्लोक 10.60.3
तस्मिन् अन्तर्गृहे भ्राजन्मुक्तादामविलम्बिना । विराजिते वितानेन दीपैर् मणिमयैर् अपि ॥ 3 ॥
श्लोक 10.60.4
मल्लिकादामभिः पुष्पैर् द्विरेफकुलनादिते । जालरन्ध्रप्रविष्टैश् च गोभिश् चन्द्रमसो ऽमलैः ॥ 4 ॥
श्लोक 10.60.5
पारिजातवनामोदवायुनोद्यानशालिना । धूपैर् अगुरुजै राजन् जालरन्ध्रविनिर्गतैः ॥ 5 ॥
श्लोक 10.60.6
पयःफेननिभे शुभ्रे पर्यङ्के कशिपूत्तमे । उपतस्थे सुखासीनं जगताम् ईश्वरं पतिम् ॥ 6 ॥
श्लोक 10.60.7
वालव्यजनम् आदाय रत्नदण्डं सखीकरात् । तेन वीजयती देवी उपासां चक्र ईश्वरम् ॥ 7 ॥
श्लोक 10.60.8
सोपाच्युतं क्वणयती मणिनूपुराभ्यां रेजे ऽङ्गुलीयवलयव्यजनाग्रहस्ता &अम्प्; वस्त्रान्तगूढकुचकुङ्कुमशोणहारभासा नितम्बधृतया च परार्ध्यकाञ्च्या ॥ 8 ॥
श्लोक 10.60.9
तां रूपिणीं श्रीयम् अनन्यगतिं निरीक्ष्य या लीलया धृततनोर् अनुरूपरूपा । प्रीतः स्मयन्न् अलककुण्डलनिष्ककण्ठवक्त्रोल्लसत्स्मितसुधां हरिर् आबभाषे ॥ 9 ॥
श्लोक 10.60.10
राजपुत्रीप्सिता भूपैर् लोकपालविभूतिभिः । महानुभावैः श्रीमद्भी रूपौदार्यबलोर्जितैः ॥ 10 ॥
श्लोक 10.60.11
तान् प्राप्तान् अर्थिनो हित्वा चैद्यादीन् स्मरदुर्मदान् । दत्ता भ्रात्रा स्वपित्रा च कस्मान् नो ववृषे ऽसमान् ॥ 11 ॥
श्लोक 10.60.12
राजभ्यो बिभ्यतः सुभ्रु समुद्रं शरणं गतान् । बलवद्भिः कृतद्वेषान् प्रायस् त्यक्तनृपासनान् ॥ 12 ॥
श्लोक 10.60.13
अस्पष्टवर्त्मनाम् पुंसाम् अलोकपथम् ईयुषाम् । आस्थिताः पदवीं सुभ्रु प्रायः सीदन्ति योषितः ॥ 13 ॥
श्लोक 10.60.14
निष्किञ्चना वयं शश्वन् निष्किञ्चनजनप्रियाः । तस्मा त्प्रायेण न ह्य् आढ्या मां भजन्ति सुमध्यमे ॥ 14 ॥
श्लोक 10.60.15
ययोर् आत्मसमं वित्तं जन्मैश्वर्याकृतिर् भवः । तयोर् विवाहो मैत्री च नोत्तमाधमयोः क्वचित् ॥ 15 ॥
श्लोक 10.60.16
वैदर्भ्य् एतद् अविज्ञाय त्वयादीर्घसमीक्षया । वृता वयं गुणैर् हीना भिक्षुभिः श्लाघिता मुधा ॥ 16 ॥
श्लोक 10.60.17
अथात्मनो ऽनुरूपं वै भजस्व क्षत्रियर्षभम् । येन त्वम् आशिषः सत्या इहामुत्र च लप्स्यसे ॥ 17 ॥
श्लोक 10.60.18
चैद्यशाल्वजरासन्ध दन्तवक्रादयो नृपाः । मम द्विषन्ति वामोरु रुक्मी चापि तवाग्रजः ॥ 18 ॥
श्लोक 10.60.19
तेषां वीर्यमदान्धानां दृप्तानां स्मयनुत्तये । आनितासि मया भद्रे तेजोपहरतासताम् ॥ 19 ॥
श्लोक 10.60.20
उदासीना वयं नूनं न स्त्र्य्अपत्यार्थकामुकाः । आत्मलब्ध्यास्महे पूर्णा गेहयोर् ज्योतिर्अक्रियाः ॥ 20 ॥
श्लोक 10.60.21
एतावद् उक्त्वा भगवान् आत्मानं वल्लभाम् इव । मन्यमानाम् अविश्लेषात् तद्दर्पघ्न उपारमत् ॥ 21 ॥
श्लोक 10.60.22
इति त्रिलोकेशपतेस् तदात्मनः प्रियस्य देव्य् अश्रुतपूर्वम् अप्रियम् । आश्रुत्य भीता हृदि जातवेपथुश् चिन्तां दुरन्तां रुदती जगाम ह ॥ 22 ॥
श्लोक 10.60.23
पदा सुजातेन नखारुणश्रीया भुवं लिखन्त्य् अश्रुभिर् अञ्जनासितैः । आसिञ्चती कुङ्कुमरूषितौ स्तनौ तस्थाव् अधोमुख्य् अतिदुःखरुद्धवाक् ॥ 23 ॥
श्लोक 10.60.24
तस्याः सुदुःखभयशोकविनष्टबुद्धेर् हस्ताच् छ्लथद्वलयतो व्यजनं पपात &अम्प्; देहश् च विक्लवधियः सहसैव मुह्यन् रम्भेव वायुविहतो प्रविकीर्य केशान् ॥ 24 ॥
श्लोक 10.60.25
तद् दृष्ट्वा भगवान् कृष्णः प्रियायाः प्रेमबन्धनम् । हास्यप्रौढिम् अजानन्त्याः करुणः सो ऽन्वकम्पत ॥ 25 ॥
श्लोक 10.60.26
पर्यङ्काद् अवरुह्याशु ताम् उत्थाप्य चतुर्भुजः । केशान् समुह्य तद्वक्त्रं प्रामृजत् पद्मपाणिना ॥ 26 ॥
श्लोक 10.60.27
प्रमृज्याश्रुकले नेत्रे स्तनौ चोपहतौ शुचा । आश्लिष्य बाहुना राजन् अनन्यविषयां सतीम् ॥ 27 ॥
श्लोक 10.60.28
सान्त्वयाम् आस सान्त्वज्ञः कृपया कृपणां प्रभुः । हास्यप्रौढिभ्रमच्चित्ताम् अतद्अर्हां सतां गतिः ॥ 28 ॥
श्लोक 10.60.29
मा मा वैदर्भ्य् असूयेथा जाने त्वां मत्परायणाम् । त्वद्वचः श्रोतुकामेन क्ष्वेल्याचरितम् अङ्गने ॥ 29 ॥
श्लोक 10.60.30
मुखं च प्रेमसंरम्भस्फुरिताधरम् ईक्षितुम् । कटाक्षेपारुणापाङ्गं सुन्दरभ्रुकुटीतटम् ॥ 30 ॥
श्लोक 10.60.31
अयं हि परमो लाभो गृहेषु गृहमेधिनाम् । यन् नर्मैर् ईयते यामः प्रियया भीरु भामिनि ॥ 31 ॥
श्लोक 10.60.32
सैवं भगवता राजन् वैदर्भी परिसान्त्विता । ज्ञात्वा तत्परिहासोक्तिं प्रियत्यागभयं जहौ ॥ 32 ॥
श्लोक 10.60.33
बभाष ऋषभं पुंसां वीक्षन्ती भगवन्मुखम् । सव्रीडहासरुचिरस्निग्धापाङ्गेन भारत ॥ 33 ॥
श्लोक 10.60.34
नन्व् एवम् एतद् अरविन्दविलोचनाह यद् वै भवान् भगवतो ऽसदृशी विभूम्नः । क्व स्वे महिम्न्य् अभिरतो भगवांस् त्र्य्अधीशः क्वाहं गुणप्रकृतिर् अज्ञगृहीतपादा ॥ 34 ॥
श्लोक 10.60.35
सत्यं भयाद् इव गुणेभ्य उरुक्रमान्तः शेते समुद्र उपलम्भनमात्र आत्मा &अम्प्; नित्यं कद्इन्द्रियगणैः कृतविग्रहस् त्वं त्वत्सेवकैर् नृपपदं विधुतं तमो ऽन्धम् ॥ 35 ॥
श्लोक 10.60.36
त्वत्पादपद्ममकरन्दजुषां मुनीनां वर्त्मास्फुटं न्र्पशुभिर् ननु दुर्विभाव्यम् । यस्माद् अलौकिकम् इवेहितम् ईश्वरस्य भूमंस् तवेहितम् अथो अनु ये भवन्तम् ॥ 36 ॥
श्लोक 10.60.37
निष्किञ्चनो ननु भवान् न यतो ऽस्ति किञ्चिद् यस्मै बलिं बलिभुजो ऽपि हरन्त्य् अजाद्याः । न त्वा विदन्त्य् असुतृपो ऽन्तकम् आढ्यतान्धाः प्रेष्ठो भवान् बलिभुजाम् अपि ते ऽपि तुभ्यम् ॥ 37 ॥
श्लोक 10.60.38
त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् । तेषां विभो समुचितो भवतः समाजः पुंसः स्त्रियाश् च रतयोः सुखदुःखिनोर् न ॥ 38 ॥
श्लोक 10.60.39
त्वं न्यस्तदण्डमुनिभिर् गदितानुभाव आत्मात्मदश् च जगताम् इति मे वृतो ऽसि । हित्वा भवद्भ्रुव उदीरितकालवेगध्वस्ताशिषो ऽब्जभवनाकपतीन् कुतो ऽन्ये ॥ 39 ॥
श्लोक 10.60.40
जाड्यं वचस् तव गदाग्रज यस् तु भूपान् विद्राव्य शार्ङ्गनिनदेन जहर्थ मां त्वम् । सिंहो यथा स्वबलिम् ईश पशून् स्वभागं तेभ्यो भयाद् यद् उदधिं शरणं प्रपन्नः ॥ 40 ॥
श्लोक 10.60.41
यद्वाञ्छया नृपशिखामणयो ऽन्गवैन्यजायन्तनाहुषगयादय ऐक्यपत्यम् । राज्यं विसृज्य विविशुर् वनम् अम्बुजाक्ष सीदन्ति ते ऽनुपदवीं त इहास्थिताः किम् ॥ 41 ॥
श्लोक 10.60.42
कान्यं श्रयेत तव पादसरोजगन्धम् आघ्राय सन्मुखरितं जनतापवर्गम् । लक्ष्म्य्आलयं त्व् अविगणय्य गुणालयस्य मर्त्या सदोरुभयम् अर्थविविइतदृष्टिः ॥ 42 ॥
श्लोक 10.60.43
तं त्वानुरूपम् अभजं जगताम् अधीशम् आत्मानम् अत्र च परत्र च कामपूरम् । स्यान् मे तवाङ्घ्रिर् अरणं सृतिभिर् भ्रमन्त्या यो वै भजन्तम् उपयात्य् अनृतापवर्गः ॥ 43 ॥
श्लोक 10.60.44
तस्याः स्युर् अच्युत नृपा भवतोपदिष्टाः स्त्रीणां गृहेषु खरगोश्वविडालभृत्याः । यत्कर्णमूलम् अन्कर्षण नोपयायाद् युष्मत्कथा मृडविरिञ्चसभासु गीता ॥ 44 ॥
श्लोक 10.60.45
त्वक्श्मश्रुरोमनखकेशपिनद्धम् अन्तर् मांसास्थिरक्तकृमिविट्कफपित्तवातम् । जीवच्छवं भजति कान्तमतिर् विमूढा या ते पदाब्जमकरन्दम् अजिघ्रती स्त्री ॥ 45 ॥
श्लोक 10.60.46
अस्त्व् अम्बुजाक्ष मम ते चरणानुराग आत्मन् रतस्य मयि चानतिरिक्तदृष्टेः । यर्ह्य् अस्य वृद्धय उपात्तरजोऽतिमात्रो माम् ईक्षसे तद् उ ह नः परमानुकम्पा ॥ 46 ॥
श्लोक 10.60.47
नैवालीकम् अहं मन्ये वचस् ते मधुसूदन । अम्बाया एव हि प्रायः कन्यायाः स्याद् रतिः क्वचित् ॥ 47 ॥
श्लोक 10.60.48
व्यूढायाश् चापि पुंश्चल्या मनो ऽभ्येति नवं नवम् । बुधो ऽसतीं न बिभृयात् तां बिभ्रद् उभयच्युतः ॥ 48 ॥
श्लोक 10.60.49
साध्व्य् एतच्छ्रोतुकामैस् त्वं राजपुत्री प्रलम्भिता । मयोदितं यद् अन्वात्थ सर्वं तत् सत्यम् एव हि ॥ 49 ॥
श्लोक 10.60.50
यान् यान् कामयसे कामान् मय्य् अकामाय भामिनि । सन्ति ह्य् एकान्तभक्तायास् तव कल्याणि नित्यद ॥ 50 ॥
श्लोक 10.60.51
उपलब्धं पतिप्रेम पातिव्रत्यं च ते ऽनघे । यद् वाक्यैश् चाल्यमानाया न धीर् मय्य् अपकर्षिता ॥ 51 ॥
श्लोक 10.60.52
ये मां भजन्ति दाम्पत्ये तपसा व्रतचर्यया । कामात्मानो ऽपवर्गेशं मोहिता मम मायया ॥ 52 ॥
श्लोक 10.60.53
मां प्राप्य मानिन्य् अपवर्गसम्पदं वाञ्छन्ति ये सम्पद एव तत्पतिम् &अम्प्; ते मन्दभागा निरये ऽपि ये नृणां मात्रात्मकत्वात् निरयः सुसङ्गमः ॥ 53 ॥
श्लोक 10.60.54
दिष्ट्या गृहेश्वर्य् असकृन् मयि त्वया कृतानुवृत्तिर् भवमोचनी खलैः । सुदुष्करासौ सुतरां दुराशिषो ह्य् असुंभराया निकृतिं जुषः स्त्रियाः ॥ 54 ॥
श्लोक 10.60.55
न त्वादृशीम् प्रणयिनीं गृहिणीं गृहेषु पश्यामि मानिनि यया स्वविवाहकाले &अम्प्; प्राप्तान् नृपान् न विगणय्य रहोहरो मे प्रस्थापितो द्विज उपश्रुतसत्कथस्य ॥ 55 ॥
श्लोक 10.60.56
भ्रातुर् विरूपकरणं युधि निर्जितस्य प्रोद्वाहपर्वणि च तद्वधम् अक्षगोष्ठ्याम् । दुःखं समुत्थम् असहो ऽस्मद्अयोगभीत्या नैवाब्रवीः किम् अपि तेन वयं जितास् ते ॥ 56 ॥
श्लोक 10.60.57
दूतस् त्वयात्मलभने सुविविक्तमन्त्रः प्रस्थापितो मयि चिरायति शून्यम् एतत् । मत्वा जिहास इदं अङ्गम् अनन्ययोग्यं तिष्ठेत तत् त्वयि वयं प्रतिनन्दयामः ॥ 57 ॥
श्लोक 10.60.58
एवं सौरतसंलापैर् भगवान् जगद्ईश्वरः । स्वरतो रमया रेमे नरलोकं विडम्बयन् ॥ 58 ॥
श्लोक 10.60.59
तथान्यासाम् अपि विभुर् गृहेसु गृहवान् इव । आस्थितो गृहमेधीयान् धर्मान् लोकगुरुर् हरिः ॥ 59 ॥