श्रीमद्भागवत दशम स्कन्ध अध्याय 7
श्रीमद्भागवत दशम स्कन्ध अध्याय 7 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.7.1
येन येनावतारेण भगवान् हरिर् ईश्वरः । करोति कर्णरम्याणि मनोज्ञानि च नः प्रभो ॥ 1 ॥
श्लोक 10.7.2
यच्छृण्वतो ऽपैत्य् अरतिर् वितृष्णा सत्त्वं च शुद्ध्यत्य् अचिरेण पुंसः । भक्तिर् हरौ तत्पुरुषे च सख्यं तद् एव हारं वद मन्यसे चेत् ॥ 2 ॥
श्लोक 10.7.3
अथान्यद् अपि कृष्णस्य तोकाचरितम् अद्भुतम् । मानुषं लोकम् आसाद्य तज्जातिम् अनुरुन्धतः ॥ 3 ॥
श्लोक 10.7.4
कदाचिद् औत्थानिककौतुकाप्लवे जन्मर्क्षयोगे समवेतयोषिताम् । वादित्रगीतद्विजमन्त्रवाचकैश् चकार सूनोर् अभिषेचनं सती ॥ 4 ॥
श्लोक 10.7.5
नन्दस्य पत्नी कृतमज्जनादिकं विप्रैः कृतस्वस्त्ययनं सुपूजितैः । अन्नाद्यवासःस्रग्अभीष्टधेनुभिः सञ्जातनिद्राक्षम् अशीशयच् छनैः ॥ 5 ॥
श्लोक 10.7.6
औत्थानिकौत्सुक्यमना मनस्विनी समागतान् पूजयती व्रजौकसः । नैवाशृणोद् वै रुदितं सुतस्य सा रुदन् स्तनार्थी चरणाव् उदक्षिपत् ॥ 6 ॥
श्लोक 10.7.7
अधःशयानस्य शिशोर् अनो ऽल्पकप्रवालमृद्व्अङ्घ्रिहतं व्यवर्तत । विध्वस्तनानारसकुप्यभाजनं व्यत्यस्तचक्राक्षविभिन्नकूबरम् ॥ 7 ॥
श्लोक 10.7.8
दृष्ट्वा यशोदाप्रमुखा व्रजस्त्रिय औत्थानिके कर्मणि याः समागताः &अम्प्; नन्दादयश् चाद्भुतदर्शनाकुलाः कथं स्वयं वै शकटं विपर्यगात् ॥ 8 ॥
श्लोक 10.7.9
ऊचुर् अव्यवसितमतीन् गोपान् गोपीश् च बालकाः । रुदतानेन पादेन क्षिप्तम् एतन् न संशयः ॥ 9 ॥
श्लोक 10.7.10
न ते श्रद्दधिरे गोपा बालभाषितम् इत्य् उत । अप्रमेयं बलं तस्य बालकस्य न ते विदुः ॥ 10 ॥
श्लोक 10.7.11
रुदन्तं सुतम् आदाय यशोदा ग्रहशङ्किता । कृतस्वस्त्ययनं विप्रैः सूक्तैः स्तनम् अपाययत् ॥ 11 ॥
श्लोक 10.7.12
पूर्ववत् स्थापितं गोपैर् बलिभिः सपरिच्छदम् । विप्रा हुत्वार्चयां चक्रुर् दध्य्अक्षतकुशाम्बुभिः ॥ 12 ॥
श्लोक 10.7.13
ये ऽसूयानृतदम्भेर्षाहिंसामानविवर्जिताः । न तेषां सत्यशीलानाम् आशिषो विफलाः कृताः ॥ 13 ॥
श्लोक 10.7.14
इति बालकम् आदाय सामर्ग्यजुर्उपाकृतैः । जलैः पवित्रौषधिभिर् अभिषिच्य द्विजोत्तमैः ॥ 14 ॥
श्लोक 10.7.15
वाचयित्वा स्वस्त्ययनं नन्दगोपः समाहितः । हुत्वा चाग्निं द्विजातिभ्यः प्रादाद् अन्नं महागुणम् ॥ 15 ॥
श्लोक 10.7.16
गावः सर्वगुणोपेता वासःस्रग्रुक्ममालिनीः । आत्मजाभ्युदयार्थाय प्रादात् ते चान्वयुञ्जत ॥ 16 ॥
श्लोक 10.7.17
विप्रा मन्त्रविदो युक्तास् तैर् याः प्रोक्तास् तथाशिषः । ता निष्फला भविष्यन्ति न कदाचिद् अपि स्फुटम् ॥ 17 ॥
श्लोक 10.7.18
एकदारोहम् आरूढं लालयन्ती सुतं सती । गरिमाणं शिशोर् वोढुं न सेहे गिरिकूटवत् ॥ 18 ॥
श्लोक 10.7.19
भूमौ निधाय तं गोपी विस्मिता भारपीडिता । महापुरुषम् आदध्यौ जगताम् आस कर्मसु ॥ 19 ॥
श्लोक 10.7.20
दैत्यो नाम्ना तृणावर्तः कंसभृत्यः प्रणोदितः । चक्रवातस्वरूपेण जहारासीनम् अर्भकम् ॥ 20 ॥
श्लोक 10.7.21
गोकुलं सर्वम् आवृण्वन् मुष्णंश् चक्षूंषि रेणुभिः । ईरयन् सुमहाघोरशब्देन प्रदिशो दिशः ॥ 21 ॥
श्लोक 10.7.22
मुहूर्तम् अभवद् गोष्ठं रजसा तमसावृतम् । सुतं यशोदा नापश्यत् तस्मिन् न्यस्तवती यतः ॥ 22 ॥
श्लोक 10.7.23
नापश्यत् कश्चनात्मानं परं चापि विमोहितः । तृणावर्तनिसृष्टाभिः शर्कराभिर् उपद्रुतः ॥ 23 ॥
श्लोक 10.7.24
इति खरपवनचक्रपांशुवर्षे सुतपदवीम् अबलाविलक्ष्य माता । अतिकरुणम् अनुस्मरन्त्य् अशोचद् भुवि पतिता मृतवत्सका यथा गौः ॥ 24 ॥
श्लोक 10.7.25
रुदितम् अनुनिशम्य तत्र गोप्यो भृशम् अनुतप्तधियो ऽश्रुपूर्णमुख्यः । रुरुदुर् अनुपलभ्य नन्दसूनुं पवन उपारतपांशुवर्षवेगे ॥ 25 ॥
श्लोक 10.7.26
तृणावर्तः शान्तरयो वात्यारूपधरो हरन् । कृष्णं नभोगतो गन्तुं नाशक्नोद् भूरिभारभृत् ॥ 26 ॥
श्लोक 10.7.27
तम् अश्मानं मन्यमान आत्मनो गुरुमत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोद् अद्भुतार्भकम् ॥ 27 ॥
श्लोक 10.7.28
गलग्रहणनिश्चेष्टो दैत्यो निर्गतलोचनः । अव्यक्तरावो न्यपतत् सहबालो व्यसुर् व्रजे ॥ 28 ॥
श्लोक 10.7.29
तम् अन्तरिक्षात् पतितं शिलायां विशीर्णसर्वावयवं करालम् । पुरं यथा रुद्रशरेण विद्धं स्त्रियो रुदत्यो ददृशुः समेताः ॥ 29 ॥
श्लोक 10.7.30
प्रादाय मात्रे प्रतिहृत्य विस्मिताः कृष्णं च तस्योरसि लम्बमानम् । तं स्वस्तिमन्तं पुरुषादनीतं विहायसा मृत्युमुखात् प्रमुक्तम् । गोप्यश् च गोपाः किल नन्दमुख्या लब्ध्वा पुनः प्रापुर् अतीव मोदम् ॥ 30 ॥
श्लोक 10.7.31
अहो बतात्य्अद्भुतम् एष रक्षसा बालो निवृत्तिं गमितो ऽभ्यगात् पुनः । हिंस्रः स्वपापेन विहिंसितः खलः साधुः समत्वेन भयाद् विमुच्यते ॥ 31 ॥
श्लोक 10.7.32
किं नस् तपश् चीर्णम् अधोक्षजार्चनं पूर्तेष्टदत्तम् उत भूतसौहृदम् &अम्प्; यत् सम्परेतः पुनर् एव बालको दिष्ट्या स्वबन्धून् प्रणयन्न् उपस्थितः ॥ 32 ॥
श्लोक 10.7.33
दृष्ट्वाद्भुतानि बहुशो नन्दगोपो बृहद्वने । वसुदेववचो भूयो मानयाम् आस विस्मितः ॥ 33 ॥
श्लोक 10.7.34
एकदार्भकम् आदाय स्वाङ्कम् आरोप्य भामिनी । प्रस्नुतं पाययाम् आस स्तनं स्नेहपरिप्लुता ॥ 34 ॥
श्लोक 10.7.35
पीतप्रायस्य जननी सुतस्य रुचिरस्मितम् । मुखं लालयती राजञ् जृम्भतो ददृशे इदम् ॥ 35 ॥
श्लोक 10.7.36
खं रोदसी ज्योतिर्अनीकम् आशाः सूर्येन्दुवह्निश्वसनाम्बुधींश् च । द्वीपान् नगांस् तद्दुहितॄर् वनानि भूतानि यानि स्थिरजङ्गमानि ॥ 36 ॥
श्लोक 10.7.37
सा वीक्ष्य विश्वं सहसा राजन् सञ्जातवेपथुः । सम्मील्य मृगशावाक्षी नेत्रे आसीत् सुविस्मिता ॥ 37 ॥