मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 61

श्रीमद्भागवत दशम स्कन्ध अध्याय 61 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.61.1

एकैकशस् ताः कृष्णस्य पुत्रान् दशदशाबआः । अजीजनन्न् अनवमान् पितुः सर्वात्मसम्पदा ॥ 1 ॥

श्लोक 10.61.2

गृहाद् अनपगं वीक्ष्य राजपुत्र्यो ऽच्युतं स्थितम् । प्रेष्ठं न्यमंसत स्वं स्वं न तत्तत्त्वविदः स्त्रियः ॥ 2 ॥

श्लोक 10.61.3

चार्व्अब्जकोशवदनायतबाहुनेत्रसप्रेमहासरसवीक्षितवल्गुजल्पैः &अम्प्; सम्मोहिता भगवतो न मनो विजेतुं स्वैर् विभ्रमैः समशकन् वनिता विभूम्नः ॥ 3 ॥

श्लोक 10.61.4

स्मायावलोकलवदर्शितभावहारि भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डैः । पत्न्यस् तु शोडशसहस्रम् अनङ्गबाणैर् यस्येन्द्रियं विमथितुम् करणैर् न शेकुः ॥ 4 ॥

श्लोक 10.61.5

इत्थं रमापतिम् अवाप्य पतिं स्त्रियस् ता ब्रह्मादयो ऽपि न विदुः पदवीं यदीयाम् । भेजुर् मुदाविरतम् एधितयानुरागहासावलोकनवसङ्गमलालसाद्यम् ॥ 5 ॥

श्लोक 10.61.6

प्रत्युद्गमासनवरार्हणपादशौचताम्बूलविश्रमणवीजनगन्धमाल्यैः । केशप्रसारशयनस्नपनोपहार्यैः दासीशता अपि विभोर् विदधुः स्म दास्यम् ॥ 6 ॥

श्लोक 10.61.7

तासां या दशपुत्राणां कृष्णस्त्रीणां पुरोदिताः । अष्टौ महिष्यस् तत्पुत्रान् प्रद्युम्नादीन् गृणामि ते ॥ 7 ॥

श्लोक 10.61.8

चारुदेष्णः सुदेष्णश् च चारुदेहश् च वीर्यवान् । सुचारुश् चारुगुप्तश् च भद्रचारुस् तथापरः ॥ 8 ॥

श्लोक 10.61.9

चारुचन्द्रो विचारुश् च चारुश् च दशमो हरेः । प्रद्युम्नप्रमुखा जाता रुक्मिण्यां नावमाः पितुः ॥ 9 ॥

श्लोक 10.61.10

भानुः सुभानुः स्वर्भानुः प्रभानुर् भानुमांस् तथा । चन्द्रभानुर् बृहद्भानुर् अतिभानुस् तथाष्टमः ॥ 10 ॥

श्लोक 10.61.11

श्रीभानुः प्रतिभानुश् च सत्यभामात्मजा दश । साम्बः सुमित्रः पुरुजिच् छतजिच् च सहस्रजित् ॥ 11 ॥

श्लोक 10.61.12

विययश् चित्रकेतुश् च वसुमान् द्रविडः क्रतुः । जाम्बवत्याः सुता ह्य् एते साम्बाद्याः पितृसम्मताः ॥ 12 ॥

श्लोक 10.61.13

वीरश् चन्द्रो ऽश्वसेनश् च चित्रगुर् वेगवान् वृषः । आमः शङ्कुर् वसुः श्रीमान् कुन्तिर् नाग्नजितेः सुताः ॥ 13 ॥

श्लोक 10.61.14

श्रुतः कविर् वृषो वीरः सुबाहुर् भद्र एकलः । शान्तिर् दर्शः पूर्णमासः कालिन्द्याः सोमको ऽवरः ॥ 14 ॥

श्लोक 10.61.15

प्रघोषो गात्रवान् सिंहो बलः प्रबल ऊर्धगः । माद्र्याः पुत्रा महाशक्तिः सह ओजो ऽपराजितः ॥ 15 ॥

श्लोक 10.61.16

वृको हर्षो ऽनिलो गृध्रो वर्धनोन्नाद एव च । महांसः पावनो वह्निर् मित्रविन्दात्मजाः क्षुधिः ॥ 16 ॥

श्लोक 10.61.17

सङ्ग्रामजिद् बृहत्सेनः शूरः प्रहरणो ऽरिजित् । जयः सुभद्रो भद्राया वाम आयुश् च सत्यकः ॥ 17 ॥

श्लोक 10.61.18

दीप्तिमांस् ताम्रतप्ताद्या रोहिण्यास् तनया हरेः । प्रद्यम्नाच् चानिरुद्धो ऽभूद् रुक्मवत्यां महाबलः । पुत्र्यां तु रुक्मिणो राजन् नाम्ना भोजकटे पुरे ॥ 18 ॥

श्लोक 10.61.19

एतेषां पुत्रपौत्राश् च बभूवुः कोटिशो नृप । मातरः कृष्णजातीनां सहस्राणि च षोडश ॥ 19 ॥

श्लोक 10.61.20

कथं रुक्म्य् अरीपुत्राय प्रादाद् दुहितरं युधि । कृष्णेन परिभूतस् तं हन्तुं रन्ध्रं प्रतीक्षते । एतद् आख्याहि मे विद्वन् द्विषोर् वैवाहिकं मिथः ॥ 20 ॥

श्लोक 10.61.21

अनागतम् अतीतं च वर्तमानम् अतीन्द्रियम् । विप्रकृष्टं व्यवहितं सम्यक् पश्यन्ति योगिनः ॥ 21 ॥

श्लोक 10.61.22

वृतः स्वयंवरे साक्षाद् अनण्गो ऽण्गयुतस् तया । राज्ञः समेतान् निर्जित्य जहारैकरथो युधि ॥ 22 ॥

श्लोक 10.61.23

यद्य् अप्य् अनुस्मरन् वैरं रुक्मी कृष्णावमानितः । व्यतरद् भागिनेयाय सुतां कुर्वन् स्वसुः प्रियम् ॥ 23 ॥

श्लोक 10.61.24

रुक्मिण्यास् तनयां राजन् कृतवर्मसुतो बली । उपयेमे विशालाक्षीं कन्यां चारुमतीं किल ॥ 24 ॥

श्लोक 10.61.25

दौहित्रायानिरुद्धाय पौत्रीं रुक्म्य् आददाद् धरेः । रोचनां बद्धवैरो ऽपि स्वसुः प्रियचिकीर्षया । जानन्न् अधर्मं तद् यौनं स्नेहपाशानुबन्धनः ॥ 25 ॥

श्लोक 10.61.26

तस्मिन्न् अभ्युदये राजन् रुक्मिणी रामकेशवौ । पुरं भोजकटं जग्मुः साम्बप्रद्युम्नकादयः ॥ 26 ॥

श्लोक 10.61.27

तस्मिन् निवृत्त उद्वाहे कालिङ्गप्रमुखा नृपाः । दृप्तास् ते रुक्मिणं प्रोचुर् बलम् अक्षैर् विनिर्जय ॥ 27 ॥

श्लोक 10.61.28

अनक्षज्ञो ह्य् अयं राजन्न् अपि तद्व्यसनं महत् । इत्य् उक्तो बलम् आहूय तेनाक्षैर् रुक्म्य् अदीव्यत ॥ 28 ॥

श्लोक 10.61.29

शतं सहस्रम् अयुतं रामस् तत्राददे पणम् । तं तु रुक्म्य् अजयत् तत्र कालिङ्गः प्राहसद् बलम् । दन्तान् सन्दर्शयन्न् उच्चैर् नामृष्यत् तद् धलायुधः ॥ 29 ॥

श्लोक 10.61.30

ततो लक्षं रुक्म्य् अगृह्णाद् ग्लहं तत्राजयद् बलः । जितवान् अहम् इत्य् आह रुक्मी कैतवम् आश्रितः ॥ 30 ॥

श्लोक 10.61.31

मन्युना क्षुभितः श्रीमान् समुद्र इव पर्वणि । जात्यारुणाक्षो ऽतिरुषा न्यर्बुदं ग्लहम् आददे ॥ 31 ॥

श्लोक 10.61.32

तं चापि जितवान् रामो धर्मेण छलम् आश्रितः । रुक्मी जितं मयात्रेमे वदन्तु प्राश्निका इति ॥ 32 ॥

श्लोक 10.61.33

तदाब्रवीन् नभोवाणी बलेनैव जितो ग्लहः । धर्मतो वचनेनैव रुक्मी वदति वै मृषा ॥ 33 ॥

श्लोक 10.61.34

ताम् अनादृत्य वैदर्भो दुष्टराजन्यचोदितः । सङ्कर्षणं परिहसन् बभाषे कालचोदितः ॥ 34 ॥

श्लोक 10.61.35

नैवाक्षकोविदा यूयं गोपाला वनगोचराः । अक्षैर् दीव्यन्ति राजानो बाणैश् च न भवादृशाः ॥ 35 ॥

श्लोक 10.61.36

रुक्मिणैवम् अधिक्षिप्तो राजभिश् चोपहासितः । क्रुद्धः परिघम् उद्यम्य जघ्ने तं नृम्णसंसदि ॥ 36 ॥

श्लोक 10.61.37

कलिङ्गराजं तरसा गृहीत्वा दशमे पदे । दन्तान् अपातयत् क्रुद्धो यो ऽहसद् विवृतैर् द्विजैः ॥ 37 ॥

श्लोक 10.61.38

अन्ये निर्भिन्नबाहूरुशिरसो रुधिरोक्षिताः । राजानो दुद्रवर् भीता बलेन पङ्घार्दिताः ॥ 38 ॥

श्लोक 10.61.39

निहते रुक्मिणि श्याले नाब्रवीत् साध्व् असाधु वा । रक्मिणीबलयो राजन् स्नेहभङ्गभयाद् धरिः ॥ 39 ॥

श्लोक 10.61.40

ततो ऽनिरुद्धं सह सूर्यया वरं रथं समारोप्य ययुः कुशस्थलीम् । रामादयो भोजकटाद् दशार्हाः सिद्धाखिलार्था मधुसूदनाश्रयाः ॥ 40 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ