श्रीमद्भागवत दशम स्कन्ध अध्याय 62
श्रीमद्भागवत दशम स्कन्ध अध्याय 62 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.62.1
बाणस्य तनयाम् ऊषाम् उपयेमे यदूत्तमः । तत्र युद्धम् अभूद् घोरं हरिशङ्करयोर् महत् । एतत् सर्वं महायोगिन् समाख्यातुं त्वम् अर्हसि ॥ 1 ॥
श्लोक 10.62.2
बाणः पुत्रशतज्येष्ठो बलेर् आसीन् महात्मनः । येन वामनरूपाय हरये ऽदायि मेदिनी ॥ 2 ॥
श्लोक 10.62.3
तस्यौरसः सुतो बानः शिवभक्तिरतः सदा । मान्यो वदान्यो धीमांश् च सत्यसन्धो दृढव्रतः ॥ 3 ॥
श्लोक 10.62.4
शोणिताख्ये पुरे रम्ये स राज्यम् अकरोत् पुरा । तस्य शम्भोः प्रसादेन किङ्करा इव ते ऽमराः । सहस्रबाहुर् वाद्येन ताण्दवे ऽतोषयन् मृडम् ॥ 4 ॥
श्लोक 10.62.5
भगवान् सर्वभूतेशः शरण्यो भक्तवत्सलः । वरेण छन्दयाम् आस स तं वव्रे पुराधिपम् ॥ 5 ॥
श्लोक 10.62.6
स एकदाह गिरिशं पार्श्वस्थं वीर्यदुर्मदः । किरीटेनार्कवर्णेन संस्पृशंस् तत्पदाम्बुजम् ॥ 6 ॥
श्लोक 10.62.7
नमस्ये त्वां महादेव लोकानां गुरुम् ईश्वरम् । पुंसाम् अपूर्णकामानां कामपूरामराङ्घ्रिपम् ॥ 7 ॥
श्लोक 10.62.8
दोःसहस्रं त्वया दत्तं परं भाराय मे ऽभवत् । त्रिलोक्यां प्रतियोद्धारं न लभे त्वद् ऋते समम् ॥ 8 ॥
श्लोक 10.62.9
कण्डूत्या निभृतैर् दोर्भिर् युयुत्सुर् दिग्गजान् अहम् । आद्यायां चूर्णयन्न् अद्रीन् भीतास् ते ऽपि प्रदुद्रुवुः ॥ 9 ॥
श्लोक 10.62.10
तच् छ्रुत्वा भगवान् क्रुद्धः केतुस् ते भज्यते यदा । त्वद्दर्पघ्नं भवेन् मूढ संयुगं मत्समेन ते ॥ 10 ॥
श्लोक 10.62.11
इत्य् उक्तः कुमतिर् हृष्टः स्वगृहं प्राविशन् नृप । प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनम् कुधीः ॥ 11 ॥
श्लोक 10.62.12
तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् । कन्यालभत कान्तेन प्राग् अदृष्टश्रुतेन सा ॥ 12 ॥
श्लोक 10.62.13
सा तत्र तम् अपश्यन्ती क्वासि कान्तेति वादिनी । सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम् ॥ 13 ॥
श्लोक 10.62.14
बाणस्य मन्त्री कुम्भाण्डश् चित्रलेखा च तत्सुता । सख्य् अपृच्छत् सखीम् ऊषां कौतूहलसमन्विता ॥ 14 ॥
श्लोक 10.62.15
कं त्वं मृगयसे सुभ्रु कीदृशस् ते मनोरथः । हस्तग्राहं न ते ऽद्यापि राजपुत्र्य् उपलक्षये ॥ 15 ॥
श्लोक 10.62.16
दृष्टः कश्चिन् नरः स्वप्ने श्यामः कमललोचनः । पीतवासा बृहद्बाहुर् योषितां हृदयंगमः ॥ 16 ॥
श्लोक 10.62.17
तम् अहं मृगये कान्तं पाययित्वाधरं मधु । क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे ॥ 17 ॥
श्लोक 10.62.18
व्यसनं ते ऽपकर्षामि त्रिलोक्यां यदि भाव्यते । तम् आनेष्ये वरं यस् ते मनोहर्ता तम् आदिश ॥ 18 ॥
श्लोक 10.62.19
इत्य् उक्त्वा देवगन्धर्व सिद्धचारणपन्नगान् । दैत्यविद्याधरान् यक्षान् मनुजांश् च यथालिखत् ॥ 19 ॥
श्लोक 10.62.20
मनुजेषु च सा वृष्नीन् शूरम् आनकदुन्दुभिम् । व्यलिखद् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता ॥ 20 ॥
श्लोक 10.62.21
अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया । सो ऽसाव् असाव् इति प्राह स्मयमाना महीपते ॥ 21 ॥
श्लोक 10.62.22
चित्रलेखा तम् आज्ञाय पौत्रं कृष्णस्य योगिनी । ययौ विहायसा राजन् द्वारकां कृष्णपालिताम् ॥ 22 ॥
श्लोक 10.62.23
तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगम् आस्थिता । गृहीत्वा शोणितपुरं सख्यै प्रियम् अदर्शयत् ॥ 23 ॥
श्लोक 10.62.24
सा च तं सुन्दरवरं विलोक्य मुदितानना । दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम् ॥ 24 ॥
श्लोक 10.62.25
परार्ध्यवासःस्रग्गन्धधूपदीपासनादिभिः । पानभोजनभक्ष्यैश् च वाक्यैः शुश्रूषणार्चितः ॥ 25 ॥
श्लोक 10.62.26
गूढः कन्यापुरे शश्वत्प्रवृद्धस्नेहया तया । नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः ॥ 26 ॥
श्लोक 10.62.27
तां तथा यदुवीरेण भुज्यमानां हतव्रताम् । हेतुभिर् लक्षयां चक्रुर् आपृईतां दुरवच्छदैः ॥ 27 ॥
श्लोक 10.62.28
भटा आवेदयां चक्रू राजंस् ते दुहितुर् वयम् । विचेष्टितं लक्षयाम कन्यायाः कुलदूषणम् ॥ 28 ॥
श्लोक 10.62.29
अनपायिभिर् अस्माभिर् गुप्तायाश् च गृहे प्रभो । कन्याया दूषणं पुम्भिर् दुष्प्रेक्ष्याया न विद्महे ॥ 29 ॥
श्लोक 10.62.30
ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः । त्वरितः कन्यकागारं प्राप्तो ऽद्राक्षीद् यदूद्वहम् ॥ 30 ॥
श्लोक 10.62.31
कामात्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरम् अम्बुजेक्षणम् । बृहद्भुजं कुण्डलकुन्तलत्विषा स्मितावलोकेन च मण्डिताननम् ॥ 31 ॥
श्लोक 10.62.32
दीव्यन्तम् अक्षैः प्रिययाभिनृम्णया तद्अङ्गसङ्गस्तनकुङ्कुमस्रजम् । बाह्वोर् दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनम् अवेक्ष्य विस्मितः ॥ 32 ॥
श्लोक 10.62.33
स तं प्रविष्टं वृतम् आततायिभिर् भटैर् अनीकैर् अवलोक्य माधवः । उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया ॥ 33 ॥
श्लोक 10.62.34
जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकरयूथपो ऽहनत् । ते हन्यमाना भवनाद् विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः ॥ 34 ॥
श्लोक 10.62.35
तं नागपाशैर् बलिनन्दनो बली घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह । ऊषा भृशं शोकविषादविह्वला बद्धं निशम्याश्रुकलाक्ष्य् अरौत्सीत् ॥ 35 ॥