श्रीमद्भागवत दशम स्कन्ध अध्याय 63
श्रीमद्भागवत दशम स्कन्ध अध्याय 63 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.63.1
अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत । चत्वारो वार्षिका मासा व्यतीयुर् अनुशोचताम् ॥ 1 ॥
श्लोक 10.63.2
नारदात् तद् उपाकर्ण्य वार्तां बद्धस्य कर्म च । प्रययुः शोणितपुरं वृष्णयः कृष्णदैवताः ॥ 2 ॥
श्लोक 10.63.3
प्रद्युम्नो युयुधानश् च गदः साम्बो ऽथ सारणः । नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः ॥ 3 ॥
श्लोक 10.63.4
अक्षौहिणीभिर् द्वादशभिः समेताः सर्वतो दिशम् । रुरुधुर् बाणनगरं समन्तात् सात्वतर्षभाः ॥ 4 ॥
श्लोक 10.63.5
भज्यमानपुरोद्यानप्राकाराट्टालगोपुरम् । प्रेक्षमाणो रुषाविष्टस् तुल्यसैन्यो ऽभिनिर्ययौ ॥ 5 ॥
श्लोक 10.63.6
बाणार्थे भगवान् रुद्रः ससुतः प्रमथैर् वृतः । आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः ॥ 6 ॥
श्लोक 10.63.7
आसीत् सुतुमुलं युद्धम् अद्भुतं रोमहर्षणम् । कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोर् अपि ॥ 7 ॥
श्लोक 10.63.8
कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः । साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः ॥ 8 ॥
श्लोक 10.63.9
ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः । गन्धर्वाप्सरसो यक्षा विमानैर् द्रष्टुम् आगमन् ॥ 9 ॥
श्लोक 10.63.10
शङ्करानुचरान् शौरिर् भूतप्रमथगुह्यकान् । डाकिनीर् यातुधानांश् च वेतालान् सविनायकान् ॥ 10 ॥
श्लोक 10.63.11
प्रेतमातृपिशाचांश् च कुष्माण्डान् ब्रह्मराक्षसान् । द्रावयाम् आस तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः ॥ 11 ॥
श्लोक 10.63.12
पृथग्विधानि प्रायुङ्क्त पिणाक्य् अस्त्राणि शार्ङ्गिणे । प्रत्य्अस्त्रैः शमयाम् आस शार्ङ्गपाणिर् अविस्मितः ॥ 12 ॥
श्लोक 10.63.13
ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् । आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च ॥ 13 ॥
श्लोक 10.63.14
मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् । बाणस्य पृतनां शौरिर् जघानासिगदेषुभिः ॥ 14 ॥
श्लोक 10.63.15
स्कन्दः प्रद्युम्नबाणौघैर् अर्द्यमानः समन्ततः । असृग् विमुञ्चन् गात्रेभ्यः शिखिनापक्रमद् रणात् ॥ 15 ॥
श्लोक 10.63.16
कुम्भाण्डकूपकर्णश् च पेततुर् मुषलार्दितौ । दुद्रुवुस् तद्अनीकनि हतनाथानि सर्वतः ॥ 16 ॥
श्लोक 10.63.17
विशीर्यमाणम् स्वबलं दृष्ट्वा बाणो ऽत्य्अमर्षितः । कृष्णम् अभ्यद्रवत् सङ्ख्ये रथी हित्वैव सात्यकिम् ॥ 17 ॥
श्लोक 10.63.18
धनूंष्य् आकृष्य युगपद् बाणः पञ्चशतानि वै । एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मदः ॥ 18 ॥
श्लोक 10.63.19
तानि चिच्छेद भगवान् धनूंसि युगपद् धरिः । सारथिं रथम् अश्वांश् च हत्वा शङ्खम् अपूरयत् ॥ 19 ॥
श्लोक 10.63.20
तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा । पुरो ऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया ॥ 20 ॥
श्लोक 10.63.21
ततस् तिर्यङ्मुखो नग्नाम् अनिरीक्षन् गदाग्रजः । बाणश् च तावद् विरथश् छिन्नधन्वाविशत् पुरम् ॥ 21 ॥
श्लोक 10.63.22
विद्राविते भूतगणे ज्वरस् तु त्रीशिरास् त्रीपात् । अभ्यधावत दाशार्हं दहन्न् इव दिशो दश ॥ 22 ॥
श्लोक 10.63.23
अथ नारायणः देवः तं दृष्ट्वा व्यसृजज् ज्वरम् । माहेश्वरो वैष्णवश् च युयुधाते ज्वराव् उभौ ॥ 23 ॥
श्लोक 10.63.24
माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः । अलब्ध्वाभयम् अन्यत्र भीतो माहेश्वरो ज्वरः । शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः ॥ 24 ॥
श्लोक 10.63.25
नमामि त्वानन्तशक्तिं परेशम् सर्वात्मानं केवलं ज्ञप्तिमात्रम् । विश्वोत्पत्तिस्थानसंरोधहेतुं यत् तद् ब्रह्म ब्रह्मलिङ्गम् प्रशान्तम् ॥ 25 ॥
श्लोक 10.63.26
कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः । तत्सङ्घातो बीजरोहप्रवाहस् त्वन्मायैषा तन्निषेधं प्रपद्ये ॥ 26 ॥
श्लोक 10.63.27
नानाभावैर् लीलयैवोपपन्नैर् देवान् साधून् लोकसेतून् बिभर्षि । हंस्य् उन्मार्गान् हिंसया वर्तमानान् जन्मैतत् ते भारहाराय भूमेः ॥ 27 ॥
श्लोक 10.63.28
तप्तो ऽहम् ते तेजसा दुःसहेन शान्तोग्रेणात्य्उल्बणेन ज्वरेण । तावत् तापो देहिनां ते ऽन्घ्रिमूलं नो सेवेरन् यावद् आशानुबद्धाः ॥ 28 ॥
श्लोक 10.63.29
त्रिशिरस् ते प्रसन्नो ऽस्मि व्येतु ते मज्ज्वराद् भयम् । यो नौ स्मरति संवादं तस्य त्वन् न भवेद् भयम् ॥ 29 ॥
श्लोक 10.63.30
इत्य् उक्तो ऽच्युतम् आनम्य गतो माहेश्वरो ज्वरः । बाणस् तु रथम् आरूढः प्रागाद् योत्स्यन् जनार्दनम् ॥ 30 ॥
श्लोक 10.63.31
ततो बाहुसहस्रेण नानायुधधरो ऽसुरः । मुमोच परमक्रुद्धो बाणांश् चक्रायुधे नृप ॥ 31 ॥
श्लोक 10.63.32
तस्यास्यतो ऽस्त्राण्य् असकृच् चक्रेण क्षुरनेमिना । चिच्छेद भगवान् बाहून् शाखा इव वनस्पतेः ॥ 32 ॥
श्लोक 10.63.33
बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः । भक्तानकम्प्य् उपव्रज्य चक्रायुधम् अभाषत ॥ 33 ॥
श्लोक 10.63.34
त्वं हि ब्रह्म परं ज्योतिर् गूढं ब्रह्मणि वाङ्मये । यं पश्यन्त्य् अमलात्मान आकाशम् इव केवलम् ॥ 34 ॥
श्लोक 10.63.35
नाभिर् नभो ऽग्निर् मुखम् अम्बु रेतो द्यौः शीर्षम् आशाः श्रुतिर् अङ्घ्रिर् उर्वी &अम्प्; चन्द्रो मनो यस्य दृग् अर्क आत्मा अहं समुद्रो जठरं भुजेन्द्रः ॥ 35 ॥
श्लोक 10.63.36
रोमाणि यस्यौषधयो ऽम्बुवाहाः केशा विरिञ्चो धिषणा विसर्गः । प्रजापतिर् हृदयं यस्य धर्मः स वै भवान् पुरुषो लोककल्पः ॥ 36 ॥
श्लोक 10.63.37
तवावतारो ऽयम् अकुण्ठधामन् धर्मस्य गुप्त्यै जगतो हिताय । वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त ॥ 37 ॥
श्लोक 10.63.38
त्वम् एक आद्यः पुरुषो ऽद्वितीयस् तुर्यः स्वदृग् धेतुर् अहेतुर् ईशः । प्रतीयसे ऽथापि यथाविकारं स्वमायया सर्वगुणप्रसिद्ध्यै ॥ 38 ॥
श्लोक 10.63.39
यथैव सूर्यः पिहितश् छायया स्वया छायां च रूपाणि च सञ्चकास्ति &अम्प्; एवं गुणेनापिहितो गुणांस् त्वम् आत्मप्रदीपो गुणिनश् च भूमन् ॥ 39 ॥
श्लोक 10.63.40
यन्मायामोहितधियः पुत्रदारगृहादिषु । उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे ॥ 40 ॥
श्लोक 10.63.41
देवदत्तम् इमं लब्ध्वा नृलोकम् अजितेन्द्रियः । यो नाद्रियेत त्वत्पादौ स शोच्यो ह्य् आत्मवञ्चकः ॥ 41 ॥
श्लोक 10.63.42
यस् त्वां विसृजते मर्त्य आत्मानं प्रियम् ईश्वरम् । विपर्ययेन्द्रियार्थार्थं विषम् अत्त्य् अमृतं त्यजन् ॥ 42 ॥
श्लोक 10.63.43
अहं ब्रह्माथ विबुधा मुनयश् चामलाशयाः । सर्वात्मना प्रपन्नास् त्वाम् आत्मानं प्रेष्ठम् ईश्वरम् ॥ 43 ॥
श्लोक 10.63.44
तं त्वा जगत्स्थित्य्उदयान्तहेतुं समं प्रसान्तं सुहृद्आत्मदैवम् &अम्प्; अनन्यम् एकं जगद्आत्मकेतं भवापवर्गाय भजाम देवम् ॥ 44 ॥
श्लोक 10.63.45
अयं ममेष्टो दयितो ऽनुवर्ती मयाभयं दत्तम् अमुष्य देव । सम्पाद्यतां तद् भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः ॥ 45 ॥
श्लोक 10.63.46
यद् आत्थ भगवंस् त्वं नः करवाम प्रियं तव । भवतो यद् व्यवसितं तन् मे साध्व् अनुमोदितम् ॥ 46 ॥
श्लोक 10.63.47
अवध्यो ऽयं ममाप्य् एष वैरोचनिसुतो ऽसुरः । प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः ॥ 47 ॥
श्लोक 10.63.48
दर्पोपशमनायास्य प्रवृक्णा बाहवो मया । सूदितं च बलं भूरि यच् च भारायितं भुवः ॥ 48 ॥
श्लोक 10.63.49
चत्वारो ऽस्य भुजाः शिष्टा भविष्यत्य् अजरामरः । पार्षदमुख्यो भवतो न कुतश्चिद्भयो ऽसुरः ॥ 49 ॥
श्लोक 10.63.50
इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः । प्राद्युम्निं रथम् आरोप्य सवध्वो समुपानयत् ॥ 50 ॥
श्लोक 10.63.51
अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् । सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः ॥ 51 ॥
श्लोक 10.63.52
स्वराजधानीं समलङ्कृतां ध्वजैः सतोरणैर् उक्षितमार्गचत्वराम् &अम्प्; विवेश शङ्खानकदुन्दुभिस्वनैर् अभ्युद्यतः पौरसुहृद्द्विजातिभिः ॥ 52 ॥
श्लोक 10.63.53
य एवं कृष्णविजयं शङ्करेण च संयुगम् । संस्मरेत् प्रातर् उत्थाय न तस्य स्यात् पराजयः ॥ 53 ॥