मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 64

श्रीमद्भागवत दशम स्कन्ध अध्याय 64 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.64.1

एकदोपवनं राजन् जग्मुर् यदुकुमारकाः । विहर्तुं साम्बप्रद्युम्न चारुभानुगदादयः ॥ 1 ॥

श्लोक 10.64.2

क्रीडित्वा सुचिरं तत्र विचिन्वन्तः पिपासिताः । जलं निरुदके कूपे ददृशुः सत्त्वम् अद्भुतम् ॥ 2 ॥

श्लोक 10.64.3

कृकलासं गिरिनिभं वीक्ष्य विस्मितमानसाः । तस्य चोद्धरणे यत्नं चक्रुस् ते कृपयान्विताः ॥ 3 ॥

श्लोक 10.64.4

चर्मजैस् तान्तवैः पाशैर् बद्ध्वा पतितम् अर्भकाः । नाशक्नुरन् समुद्धर्तुं कृष्णायाचख्युर् उत्सुकाः ॥ 4 ॥

श्लोक 10.64.5

तत्रागत्यारविन्दाक्षो भगवान् विश्वभावनः । वीक्ष्योज्जहार वामेन तं करेण स लीलया ॥ 5 ॥

श्लोक 10.64.6

स उत्तमःश्लोककराभिमृष्टो विहाय सद्यः कृकलासरूपम् । सन्तप्तचामीकरचारुवर्णः स्वर्ग्य् अद्भुतालङ्करणाम्बरस्रक् ॥ 6 ॥

श्लोक 10.64.7

पप्रच्छ विद्वान् अपि तन्निदानं जनेषु विख्यापयितुं मुकुन्दः । कस् त्वं महाभाग वरेण्यरूपो देवोत्तमं त्वां गणयामि नूनम् ॥ 7 ॥

श्लोक 10.64.8

दशाम् इमां वा कतमेन कर्मणा सम्प्रापितो ऽस्य् अतद्अर्हः सुभद्र । आत्मानम् आख्याहि विवित्सतां नो यन् मन्यसे नः क्षमम् अत्र वक्तुम् ॥ 8 ॥

श्लोक 10.64.9

इति स्म राजा सम्पृष्टः कृष्णेनानन्तमूर्तिना । माधवं प्रणिपत्याह किरीटेनार्कवर्चसा ॥ 9 ॥

श्लोक 10.64.10

नृगो नाम नरेन्द्रो ऽहम् इक्ष्वाकुतनयः प्रभो । दानिष्व् आख्यायमानेषु यदि ते कर्णम् अस्पृशम् ॥ 10 ॥

श्लोक 10.64.11

किं नु ते ऽविदितं नाथ सर्वभूतात्मसाक्षिणः । कालेनाव्याहतदृशो वक्ष्ये ऽथापि तवाज्ञया ॥ 11 ॥

श्लोक 10.64.12

यावत्यः सिकता भूमेर् यावत्यो दिवि तारकाः । यावत्यो वर्षधाराश् च तावतीर् अददं स्म गाः ॥ 12 ॥

श्लोक 10.64.13

पयस्विनीस् तरुणीः शीलरूपगुणोपपन्नाः कपिला हेमसृङ्गीः । न्यायार्जिता रूप्यखुराः सवत्सा दुकूलमालाभरणा ददाव् अहम् ॥ 13 ॥

श्लोक 10.64.14

स्व्अलङ्कृतेभ्यो गुणशीलवद्भ्यः सीदत्कुटुम्बेभ्य ऋतव्रतेभ्यः । तपःश्रुतब्रह्मवदान्यसद्भ्यः प्रादां युवभ्यो द्विजपुङ्गवेभ्यः ॥ 14 ॥

श्लोक 10.64.15

गोभूहिरण्यायतनाश्वहस्तिनः कन्याः सदासीस् तिलरूप्यशय्याः । वासांसि रत्नानि परिच्छदान् रथान् इष्टं च यज्ञैश् चरितं च पूर्तम् ॥ 15 ॥

श्लोक 10.64.16

कस्यचिद् द्विजमुख्यस्य भ्रष्टा गौर् मम गोधने । सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये ॥ 16 ॥

श्लोक 10.64.17

तां नीयमानां तत्स्वामी दृष्ट्रोवाच ममेति तम् । ममेति परिग्राह्य् आह नृगो मे दत्तवान् इति ॥ 17 ॥

श्लोक 10.64.18

विप्रौ विवदमानौ माम् ऊचतुः स्वार्थसाधकौ । भवान् दातापहर्तेति तच् छ्रुत्वा मे ऽभवद् भ्रमः ॥ 18 ॥

श्लोक 10.64.19

अनुनीताव् उभौ विप्रौ धर्मकृच्छ्रगतेन वै । गवां लक्षं प्रकृष्टानां दास्याम्य् एषा प्रदीयताम् ॥ 19 ॥

श्लोक 10.64.20

भवन्ताव् अनुगृह्णीतां किङ्करस्याविजानतः । समुद्धरतं मां कृच्छ्रात् पतन्तं निरये ऽशुचौ ॥ 20 ॥

श्लोक 10.64.21

नाहं प्रतीच्छे वै राजन्न् इत्य् उक्त्वा स्वाम्य् अपाक्रमत् । नान्यद् गवाम् अप्य् अयुतम् इच्छामीत्य् अपरो ययौ ॥ 21 ॥

श्लोक 10.64.22

एतस्मिन्न् अन्तरे यामैर् दूतैर् नीतो यमक्षयम् । यमेन पृष्टस् तत्राहं देवदेव जगत्पते ॥ 22 ॥

श्लोक 10.64.23

पूर्वं त्वम् अशुभं भुङ्क्ष उताहो नृपते शुभम् । नान्तं दानस्य धर्मस्य पश्ये लोकस्य भास्वतः ॥ 23 ॥

श्लोक 10.64.24

पूर्वं देवाशुभं भुञ्ज इति प्राह पतेति सः । तावद् अद्राक्षम् आत्मानं कृकलासं पतन् प्रभो ॥ 24 ॥

श्लोक 10.64.25

ब्रह्मण्यस्य वदान्यस्य तव दासस्य केशव । स्मृतिर् नाद्यापि विध्वस्ता भवत्सन्दर्शनार्थिनः ॥ 25 ॥

श्लोक 10.64.26

स त्वं कथं मम विभो ऽक्षिपथः परात्मा योगेश्वरः श्रुतिदृशामलहृद्विभाव्यः &अम्प्; साक्षाद् अधोक्षज उरुव्यसनान्धबुद्धेः स्यान् मे ऽनुदृश्य इह यस्य भवापवर्गः ॥ 26 ॥

श्लोक 10.64.27

देवदेव जगन्नाथ गोविन्द पुरुषोत्तम । नारायण हृषीकेश पुण्यश्लोकाच्युताव्यय ॥ 27 ॥

श्लोक 10.64.28

अनुजानीहि मां कृष्ण यान्तं देवगतिं प्रभो । यत्र क्वापि सतश् चेतो भूयान् मे त्वत्पदास्पदम् ॥ 28 ॥

श्लोक 10.64.29

नमस् ते सर्वभावाय ब्रह्मणे ऽनन्तशक्तये । कृष्णाय वासुदेवाय योगानां पतये नमः ॥ 29 ॥

श्लोक 10.64.30

इत्य् उक्त्वा तं परिक्रम्य पादौ स्पृष्ट्वा स्वमौलिना । अनुज्ञातो विमानाग्र्यम् आरुहत् पश्यतां नृणाम् ॥ 30 ॥

श्लोक 10.64.31

कृष्णः परिजनं प्राह भगवान् देवकीसुतः । ब्रह्मण्यदेवो धर्मात्मा राजन्यान् अनुशिक्षयन् ॥ 31 ॥

श्लोक 10.64.32

दुर्जरं बत ब्रह्मस्वं भुक्तम् अग्नेर् मनाग् अपि । तेजीयसो ऽपि किम् उत राज्ञां ईश्वरमानिनाम् ॥ 32 ॥

श्लोक 10.64.33

नाहं हालाहलं मन्ये विषं यस्य प्रतिक्रिया । ब्रह्मस्वं हि विषं प्रोक्तं नास्य प्रतिविधिर् भुवि ॥ 33 ॥

श्लोक 10.64.34

हिनस्ति विषम् अत्तारं वह्निर् अद्भिः प्रशाम्यति । कुलं समूलं दहति ब्रह्मस्वारणिपावकः ॥ 34 ॥

श्लोक 10.64.35

ब्रह्मस्वं दुरनुज्ञातं भुक्तं हन्ति त्रिपूरुषम् । प्रसह्य तु बलाद् भुक्तं दश पूर्वान् दशापरान् ॥ 35 ॥

श्लोक 10.64.36

राजानो राजलक्ष्म्यान्धा नात्मपातं विचक्षते । निरयं ये ऽभिमन्यन्ते ब्रह्मस्वं साधु बालिशाः ॥ 36 ॥

श्लोक 10.64.37

गृह्णन्ति यावतः पांशून् क्रन्दताम् अश्रुबिन्दवः । विप्राणां हृतवृत्तीनाम् वदान्यानां कुटुम्बिनाम् ॥ 37 ॥

श्लोक 10.64.38

राजानो राजकुल्याश् च तावतो ऽब्दान् निरङ्कुशाः । कुम्भीपाकेषु पच्यन्ते ब्रह्मदायापहारिणः ॥ 38 ॥

श्लोक 10.64.39

स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेच् च यः । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ॥ 39 ॥

श्लोक 10.64.40

न मे ब्रह्मधनं भूयाद् यद् गृध्वाल्पायुषो नराः । पराजिताश् च्युता राज्याद् भवन्त्य् उद्वेजिनो ऽहयः ॥ 40 ॥

श्लोक 10.64.41

विप्रं कृतागसम् अपि नैव द्रुह्यत मामकाः । घ्नन्तं बहु शपन्तं वा नमस्कुरुत नित्यशः ॥ 41 ॥

श्लोक 10.64.42

यथाहं प्रणमे विप्रान् अनुकालं समाहितः । तथा नमत यूयं च यो ऽन्यथा मे स दण्डभाक् ॥ 42 ॥

श्लोक 10.64.43

ब्राह्मणार्थो ह्य् अपहृतो हर्तारं पातयत्य् अधः । अजानन्तम् अपि ह्य् एनं नृगं ब्राह्मणगौर् इव ॥ 43 ॥

श्लोक 10.64.44

एवं विश्राव्य भगवान् मुकुन्दो द्वारकौकसः । पावनः सर्वलोकानां विवेश निजमन्दिरम् ॥ 44 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ