श्रीमद्भागवत दशम स्कन्ध अध्याय 65
श्रीमद्भागवत दशम स्कन्ध अध्याय 65 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.65.1
बलभद्रः कुरुश्रेष्ठ भगवान् रथम् आस्थितः । सुहृद्दिदृक्षुर् उत्कण्ठः प्रययौ नन्दगोकुलम् ॥ 1 ॥
श्लोक 10.65.2
परिष्वक्तश् चिरोत्कण्ठैर् गोपैर् गोपीभिर् एव च । रामो ऽभिवाद्य पितराव् आशीर्भिर् अभिनन्दितः ॥ 2 ॥
श्लोक 10.65.3
चिरं नः पाहि दाशार्ह सानुजो जगद्ईश्वरः । इत्य् आरोप्याङ्कम् आलिङ्ग्य नेत्रैः सिषिचतुर् जलैः ॥ 3 ॥
श्लोक 10.65.4
गोपवृद्धांश् च विधिवद् यविष्ठैर् अभिवन्दितः । यथावयो यथासख्यं यथासम्बन्धम् आत्मनः ॥ 4 ॥
श्लोक 10.65.5
समुपेत्याथ गोपालान् हास्यहस्तग्रहादिभिः । विश्रान्तम् सुखम् आसीनं पप्रच्छुः पर्युपागताः ॥ 5 ॥
श्लोक 10.65.6
पृष्टाश् चानामयं स्वेषु प्रेमगद्गदया गिरा । कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसः ॥ 6 ॥
श्लोक 10.65.7
कच्चिन् नो बान्धवा राम सर्वे कुशलम् आसते । कच्चित् स्मरथ नो राम यूयं दारसुतान्विताः ॥ 7 ॥
श्लोक 10.65.8
दिष्ट्या कंसो हतः पापो दिष्ट्या मुक्ताः सुहृज्जनाः । निहत्य निर्जित्य रिपून् दिष्ट्या दुर्गं समाश्रीताः ॥ 8 ॥
श्लोक 10.65.9
गोप्यो हसन्त्यः पप्रच्छू रामसन्दर्शनादृताः । कच्चिद् आस्ते सुखं कृष्णः पुरस्त्रीजनवल्लभः ॥ 9 ॥
श्लोक 10.65.10
कच्चित् स्मरति वा बन्धून् पितरं मातरं च सः । अप्य् असौ मातरं द्रष्टुं सकृद् अप्य् आगमिष्यति । अपि वा स्मरते ऽस्माकम् अनुसेवां महाभुजः ॥ 10 ॥
श्लोक 10.65.11
मातरं पितरं भ्रातॄन् पतीन् पुत्रान् स्वसॄन् अपि । यद्अर्थे जहिम दाशार्ह दुस्त्यजान् स्वजनान् प्रभो ॥ 11 ॥
श्लोक 10.65.12
ता नः सद्यः परित्यज्य गतः सञ्छिन्नसौहृदः । कथं नु तादृशं स्त्रीभिर् न श्रद्धीयेत भाषितम् ॥ 12 ॥
श्लोक 10.65.13
कथं नु गृह्णन्त्य् अनवस्थितात्मनो वचः कृतघ्नस्य बुधाः पुरस्त्रियः &अम्प्; गृह्णन्ति वै चित्रकथस्य सुन्दरस्मितावलोकोच्छ्वसितस्मरातुराः ॥ 13 ॥
श्लोक 10.65.14
किं नस् तत्कथया गोप्यः कथाः कथयतापराः । यात्य् अस्माभिर् विना कालो यदि तस्य तथैव नः ॥ 14 ॥
श्लोक 10.65.15
इति प्रहसितं शौरेर् जल्पितं चारुवीक्षितम् । गतिं प्रेमपरिष्वङ्गं स्मरन्त्यो रुरुदुः स्त्रियः ॥ 15 ॥
श्लोक 10.65.16
सङ्कर्षणस् ताः कृष्णस्य सन्देशैर् हृदयंगमैः । सान्त्वयाम् आस भगवान् नानानुनयकोविदः ॥ 16 ॥
श्लोक 10.65.17
द्वौ मासौ तत्र चावात्सीन् मधुं माधवं एव च । रामः क्षपासु भगवान् गोपीनां रतिम् आवहन् ॥ 17 ॥
श्लोक 10.65.18
पूर्णचन्द्रकलामृष्टे कौमुदीगन्धवायुना । यमुनोपवने रेमे सेविते स्त्रीगणैर् वृतः ॥ 18 ॥
श्लोक 10.65.19
वरुणप्रेषिता देवी वारुणी वृक्षकोटरात् । पतन्ती तद् वनं सर्वं स्वगन्धेनाध्यवासयत् ॥ 19 ॥
श्लोक 10.65.20
तं गन्धं मधुधाराया वायुनोपहृतं बलः । आघ्रायोपगतस् तत्र ललनाभिः समं पपौ ॥ 20 ॥
श्लोक 10.65.21
उपगीयमानो गन्धर्वैर् वनिताशोभिमण्डले । रेमे करेणुयूथेशो माहेन्द्र इव वारणः ॥ 21 ॥
श्लोक 10.65.22
नेदुर् दुन्दुभयो व्योम्नि ववृषुः कुसुमैर् मुदा । गन्धर्वा मुनयो रामं तद्वीर्यैर् ईडिरे तदा ॥ 22 ॥
श्लोक 10.65.23
उपगीयमानचरितो वनिताभिर् हलायुध । वनेषु व्यचरत् क्षीवो मदविह्वललोचनः ॥ 23 ॥
श्लोक 10.65.24
स्रग्व्य् एककुण्डलो मत्तो वैजयन्त्या च मालया । बिभ्रत् स्मितमुखाम्भोजं स्वेदप्रालेयभूषितम् ॥ 24 ॥
श्लोक 10.65.25
स आजुहाव यमुनां जलक्रीडार्थम् ईश्वरः । निजं वाक्यम् अनादृत्य मत्त इत्य् आपगां बलः ॥ 25 ॥
श्लोक 10.65.26
अनागतां हलाग्रेण कुपितो विचकर्ष ह । पापे त्वं माम् अवज्ञाय यन् नायासि मयाहुता । नेष्ये त्वां लाङ्गलाग्रेण शतधा कामचारिणीम् ॥ 26 ॥
श्लोक 10.65.27
एवं निर्भर्त्सिता भीता यमुना यदुनन्दनम् । उवाच चकिता वाचं पतिता पादयोर् नृप ॥ 27 ॥
श्लोक 10.65.28
राम राम महाबाहो न जाने तव विक्रमम् । यस्यैकांशेन विधृता जगती जगतः पते ॥ 28 ॥
श्लोक 10.65.29
परं भावं भगवतो भगवन् माम् अजानतीम् । मोक्तुम् अर्हसि विश्वात्मन् प्रपन्नां भक्तवत्सल ॥ 29 ॥
श्लोक 10.65.30
ततो व्यमुञ्चद् यमुनां याचितो भगवान् बलः । विजगाह जलं स्त्रीभिः करेणुभिर् इवेभराट् ॥ 30 ॥
श्लोक 10.65.31
कामं विहृत्य सलिलाद् उत्तीर्णायासीताम्बरे । भूषणानि महार्हाणि ददौ कान्तिः शुभां स्रजम् ॥ 31 ॥
श्लोक 10.65.32
वसित्वा वाससी नीले मालां आमुच्य काञ्चनीम् । रेये स्व्अलङ्कृतो लिप्तो माहेन्द्र इव वारणः ॥ 32 ॥
श्लोक 10.65.33
अद्यापि दृश्यते राजन् यमुनाकृष्टवर्त्मना । बलस्यानन्तवीर्यस्य वीर्यं सूचयतीव हि ॥ 33 ॥
श्लोक 10.65.34
एवं सर्वा निशा याता एकेव रमतो व्रजे । रामस्याक्षिप्तचित्तस्य माधुर्यैर् व्रजयोषिताम् ॥ 34 ॥