मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 66

श्रीमद्भागवत दशम स्कन्ध अध्याय 66 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.66.1

नन्दव्रजं गते रामे करूषाधिपतिर् नृप । वासुदेवो ऽहम् इत्य् अज्ञो दूतं कृष्णाय प्राहिणोत् ॥ 1 ॥

श्लोक 10.66.2

त्वं वासुदेवो भगवान् अवतीऋनो जगत्पतिः । इति प्रस्तोभितो बालैर् मेन आत्मानम् अच्युतम् ॥ 2 ॥

श्लोक 10.66.3

दूतं च प्राहिणोन् मन्दः कृष्णायाव्यक्तवर्त्मने । द्वारकायां यथा बालो नृपो बालकृतो ऽबुधः ॥ 3 ॥

श्लोक 10.66.4

दूतस् तु द्वारकाम् एत्य सभायाम् आस्थितं प्रभुम् । कृष्णं कमलपत्राक्षं राजसन्देशम् अब्रवीत् ॥ 4 ॥

श्लोक 10.66.5

वासुदेवो ऽवतीर्नो ऽहम् एक एव न चापरः । भूतानाम् अनुकम्पार्थं त्वं तु मिथ्याभिधां त्यज ॥ 5 ॥

श्लोक 10.66.6

यानि त्वम् अस्मच्चिह्नानि मौढ्याद् बिभर्षि सात्वत । त्यक्त्वैहि मां त्वं शरणं नो चेद् देहि ममाहवम् ॥ 6 ॥

श्लोक 10.66.7

कत्थनं तद् उपाकर्ण्य पौण्ड्रकस्याल्पमेधसः । उग्रसेनादयः सभ्या उच्चकैर् जहसुस् तदा ॥ 7 ॥

श्लोक 10.66.8

उवाच दूतं भगवान् परिहासकथाम् अनु । उत्स्रक्ष्ये मूढ चिह्नानि यैस् त्वम् एवं विकत्थसे ॥ 8 ॥

श्लोक 10.66.9

मुखं तद् अपिधायाज्ञ कङ्कगृध्रवटैर् वृतः । शयिष्यसे हतस् तत्र भविता शरणं शुनाम् ॥ 9 ॥

श्लोक 10.66.10

इति दूतस् तम् आक्षेपं स्वामिने सर्वम् आहरत् । कृष्णो ऽपि रथम् आस्थाय काशीम् उपजगाम ह ॥ 10 ॥

श्लोक 10.66.11

पौण्ड्रको ऽपि तद्उद्योगम् उपलभ्य महारथः । अक्षौहिणीभ्यां संयुक्तो निश्चक्राम पुराद् द्रुतम् ॥ 11 ॥

श्लोक 10.66.12

तस्य काशीपतिर् मित्रं पार्ष्णिग्राहो ऽन्वयान् नृप । अक्षौहिणीभिस् तिसृभिर् अपश्यत् पौण्ड्रकं हरिः ॥ 12 ॥

श्लोक 10.66.13

शङ्खार्य्असिगदाशार्ङ्गश्रीवत्साद्य्उपलक्षितम् । बिभ्राणं कौस्तुभमणिं वनमालाविभूषितम् ॥ 13 ॥

श्लोक 10.66.14

कौशेयवाससी पीते वसानं गरुडध्वजम् । अमूल्यमौल्य्आभरणं स्फुरन्मकरकुण्डलम् ॥ 14 ॥

श्लोक 10.66.15

दृष्ट्वा तम् आत्मनस् तुल्यं वेषं कृत्रिमम् आस्थितम् । यथा नटं रङ्गगतं विजहास भृशं हरीः ॥ 15 ॥

श्लोक 10.66.16

शुलैर् गदाभिः परिघैः शक्त्य्ऋष्टिप्रासतोमरैः । असिभिः पट्टिशैर् बाणैः प्राहरन्न् अरयो हरिम् ॥ 16 ॥

श्लोक 10.66.17

कृष्णस् तु तत् पौण्ड्रककाशिराजयोर् बलं गजस्यन्दनवाजिपत्तिमत् &अम्प्; गदासिचक्रेषुभिर् आर्दयद् भृशं यथा युगान्ते हुतभुक् पृथक् प्रजाः ॥ 17 ॥

श्लोक 10.66.18

आयोधनं तद् रथवाजिकुञ्जरद्विपत्खरोष्ट्रैर् अरिणावखण्डितैः । बभौ चितं मोदवहं मनस्विनाम् आक्रीडनं भूतपतेर् इवोल्बणम् ॥ 18 ॥

श्लोक 10.66.19

अथाह पौण्ड्रकं शौरिर् भो भो पौण्ड्रक यद् भवान् । दूतवाक्येन माम् आह तान्य् अस्त्रण्य् उत्सृजामि ते ॥ 19 ॥

श्लोक 10.66.20

त्याजयिष्ये ऽभिधानं मे यत् त्वयाज्ञ मृषा धृतम् । व्रजामि शरनं ते ऽद्य यदि नेच्छामि संयुगम् ॥ 20 ॥

श्लोक 10.66.21

इति क्षिप्त्वा शितैर् बाणैर् विरथीकृत्य पौण्ड्रकम् । शिरो ऽवृश्चद् रथाङ्गेन वज्रेणेन्द्रो यथा गिरेः ॥ 21 ॥

श्लोक 10.66.22

तथा काशीपतेः कायाच् छिर उत्कृत्य पत्रिभिः । न्यपातयत् काशीपुर्यां पद्मकोशम् इवानिलः ॥ 22 ॥

श्लोक 10.66.23

एवं मत्सरिणम् हत्वा पौण्ड्रकं ससखं हरिः । द्वारकाम् आविशत् सिद्धैर् गीयमानकथामृतः ॥ 23 ॥

श्लोक 10.66.24

स नित्यं भगवद्ध्यानप्रध्वस्ताखिलबन्धनः । बिभ्राणश् च हरे राजन् स्वरूपं तन्मयो ऽभवत् ॥ 24 ॥

श्लोक 10.66.25

शिरः पतितम् आलोक्य राजद्वारे सकुण्डलम् । किम् इदं कस्य वा वक्त्रम् इति संशिशिरे जनाः ॥ 25 ॥

श्लोक 10.66.26

राज्ञः काशीपतेर् ज्ञात्वा महिष्यः पुत्रबान्धवाः । पौराश् च हा हता राजन् नाथ नाथेति प्रारुदन् ॥ 26 ॥

श्लोक 10.66.27

सुदक्षिणस् तस्य सुतः कृत्वा संस्थाविधिं पतेः । निहत्य पितृहन्तारं यास्याम्य् अपचितिं पितुः ॥ 27 ॥

श्लोक 10.66.28

इत्य् आत्मनाभिसन्धाय सोपाध्यायो महेश्वरम् । सुदक्षिणो ऽर्चयाम् आस परमेण समाधिना ॥ 28 ॥

श्लोक 10.66.29

प्रीतो ऽविमुक्ते भगवांस् तस्मै वरम् अदाद् विभुः । पितृहन्तृवधोपायं स वव्रे वरम् ईप्सितम् ॥ 29 ॥

श्लोक 10.66.30

दक्षिणाग्निं परिचर ब्राह्मणैः समम् ऋत्विजम् । अभिचारविधानेन स चाग्निः प्रमथैर् वृतः ॥ 30 ॥

श्लोक 10.66.31

साधयिष्यति सङ्कल्पम् अब्रह्मण्ये प्रयोजितः । इत्य् आदिष्टस् तथा चक्रे कृष्णायाभिचरन् व्रती ॥ 31 ॥

श्लोक 10.66.32

ततो ऽग्निर् उत्थितः कुण्डान् मूर्तिमान् अतिभीषणः । तप्तताम्रशिखाश्मश्रुर् अङ्गारोद्गारिलोचनः ॥ 32 ॥

श्लोक 10.66.33

दंष्ट्रोग्रभ्रुकुटीदण्डकठोरास्यः स्वजिह्वया । आलिहन् सृक्वणी नग्नो विधुन्वंस् त्रिशिखं ज्वलत् ॥ 33 ॥

श्लोक 10.66.34

पद्भ्यां तालप्रमाणाभ्यां कम्पयन्न् अवनीतलम् । सो ऽभ्यधावद् वृतो भूतैर् द्वारकां प्रदहन् दिशः ॥ 34 ॥

श्लोक 10.66.35

तम् आभिचारदहनम् आयान्तं द्वारकौकसः । विलोक्य तत्रसुः सर्वे वनदाहे मृगा यथा ॥ 35 ॥

श्लोक 10.66.36

अक्षैः सभायां क्रीडन्तं भगवन्तं भयातुराः । त्राहि त्राहि त्रिलोकेश वह्नेः प्रदहतः पुरम् ॥ 36 ॥

श्लोक 10.66.37

श्रुत्वा तज् जनवैक्लव्यं दृष्ट्वा स्वानां च साध्वसम् । शरण्यः सम्प्रहस्याह मा भैष्टेत्य् अवितास्म्य् अहम् ॥ 37 ॥

श्लोक 10.66.38

सर्वस्यान्तर्बहिःसाक्षी कृत्यां माहेश्वरीं विभुः । विज्ञाय तद्विघातार्थं पार्श्वस्थं चक्रम् आदिशत् ॥ 38 ॥

श्लोक 10.66.39

तत् सूर्यकोटिप्रतिमं सुदर्शनं जाज्वल्यमानं प्रलयानलप्रभम् । स्वतेजसा खं ककुभो ऽथ रोदसी चक्रं मुकुन्दास्त्रं अथाग्निम् आर्दयत् ॥ 39 ॥

श्लोक 10.66.40

कृत्यानलः प्रतिहतः स रथान्गपाणेर् अस्त्रौजसा स नृप भग्नमुखो निवृत्तः &अम्प्; वाराणसीं परिसमेत्य सुदक्षिणं तं सर्त्विग्जनं समदहत् स्वकृतो ऽभिचारः ॥ 40 ॥

श्लोक 10.66.41

चक्रं च विष्णोस् तद्अनुप्रविष्टं वारानसीं साट्टसभालयापणाम् । सगोपुराट्टालककोष्ठसङ्कुलां सकोशहस्त्य्अश्वरथान्नशालिनीम् ॥ 41 ॥

श्लोक 10.66.42

दग्ध्वा वाराणसीं सर्वां विष्णोश् चक्रं सुदर्शनम् । भूयः पार्श्वम् उपातिष्ठत् कृष्णस्याक्लिष्टकर्मणः ॥ 42 ॥

श्लोक 10.66.43

य एनं श्रावयेन् मर्त्य उत्तमःश्लोकविक्रमम् । समाहितो वा शृणुयात् सर्वपापैः प्रमुच्यते ॥ 43 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ