श्रीमद्भागवत दशम स्कन्ध अध्याय 67
श्रीमद्भागवत दशम स्कन्ध अध्याय 67 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.67.1
भुयो ऽहं श्रोतुम् इच्छामि रामस्याद्भुतकर्मणः । अनन्तस्याप्रमेयस्य यद् अन्यत् कृतवान् प्रभुः ॥ 1 ॥
श्लोक 10.67.2
नरकस्य सखा कश्चिद् द्विविदो नाम वानरः । सुग्रीवसचिवः सो ऽथ भ्राता मैन्दस्य वीर्यवान् ॥ 2 ॥
श्लोक 10.67.3
सख्युः सो ऽपचितिं कुर्वन् वानरो राष्ट्रविप्लवम् । पुरग्रामाकरान् घोषान् अदहद् वह्निम् उत्सृजन् ॥ 3 ॥
श्लोक 10.67.4
क्वचित् स शैलान् उत्पाट्य तैर् देशान् समचूर्णयत् । आनर्तान् सुतराम् एव यत्रास्ते मित्रहा हरिः ॥ 4 ॥
श्लोक 10.67.5
क्वचित् समुद्रमध्यस्थो दोर्भ्याम् उत्क्षिप्य तज्जलम् । देशान् नागायुतप्राणो वेलाकूले न्यमज्जयत् ॥ 5 ॥
श्लोक 10.67.6
आश्रमान् ऋषिमुख्यानां कृत्वा भग्नवनस्पतीन् । अदूषयच् छकृन्मूत्रैर् अग्नीन् वैतानिकान् खलः ॥ 6 ॥
श्लोक 10.67.7
पुरुषान् योषितो दृप्तः क्ष्माभृद्द्रोनीगुहासु सः । निक्षिप्य चाप्यधाच् छैलैः पेशष्कारीव कीटकम् ॥ 7 ॥
श्लोक 10.67.8
एवं देशान् विप्रकुर्वन् दूषयंश् च कुलस्त्रियः । श्रुत्वा सुललितं गीतं गिरिं रैवतकं ययौ ॥ 8 ॥
श्लोक 10.67.9
तत्रापश्यद् यदुपतिं रामं पुष्करमालिनम् । सुदर्शनीयसर्वाङ्गं ललनायूथमध्यगम् ॥ 9 ॥
श्लोक 10.67.10
गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् । विभ्राजमानं वपुषा प्रभिन्नम् इव वारणम् ॥ 10 ॥
श्लोक 10.67.11
दुष्टः शाखामृगः शाखाम् आरूढः कम्पयन् द्रुमान् । चक्रे किलकिलाशब्दम् आत्मानं सम्प्रदर्शयन् ॥ 11 ॥
श्लोक 10.67.12
तस्य धार्ष्ट्यं कपेर् वीक्ष्य तरुण्यो जातिचापलाः । हास्यप्रिया विजहसुर् बलदेवपरिग्रहाः ॥ 12 ॥
श्लोक 10.67.13
ता हेलयाम् आस कपिर् भ्रूक्षेपैर् सम्मुखादिभिः । दर्शयन् स्वगुदं तासां रामस्य च निरीक्षितः ॥ 13 ॥
श्लोक 10.67.14
तं ग्राव्णा प्राहरत् क्रुद्धो बलः प्रहरतां वरः । स वञ्चयित्वा ग्रावाणं मदिराकलशं कपिः ॥ 14 ॥
श्लोक 10.67.15
गृहीत्वा हेलयाम् आस धूर्तस् तं कोपयन् हसन् । निर्भिद्य कलशं दुष्टो वासांस्य् आस्फालयद् बलम् ॥ 15 ॥
श्लोक 10.67.16
कदर्थीकृत्य बलवान् विप्रचक्रे मदोद्धतः । तं तस्याविनयं दृष्ट्वा देशांश् च तद्उपद्रुतान् ॥ 16 ॥
श्लोक 10.67.17
क्रुद्धो मुषलम् आदत्त हलं चारिजिघांसया । द्विविदो ऽपि महावीर्यः शालम् उद्यम्य पाणिना ॥ 17 ॥
श्लोक 10.67.18
अभ्येत्य तरसा तेन बलं मूर्धन्य् अताडयत् । तं तु सङ्कर्षणो मूर्ध्नि पतन्तम् अचलो यथा ॥ 18 ॥
श्लोक 10.67.19
प्रतिजग्राह बलवान् सुनन्देनाहनच् च तम् । मूषलाहतमस्तिष्को विरेजे रक्तधारया ॥ 19 ॥
श्लोक 10.67.20
गिरिर् यथा गैरिकया प्रहारं नानुचिन्तयन् । पुनर् अन्यं समुत्क्षिप्य कृत्वा निष्पत्रम् ओजसा ॥ 20 ॥
श्लोक 10.67.21
तेनाहनत् सुसङ्क्रुद्धस् तं बलः शतधाच्छिनत् । ततो ऽन्येन रुषा जघ्ने तं चापि शतधाच्छिनत् ॥ 21 ॥
श्लोक 10.67.22
एवं युध्यन् भगवता भग्ने भग्ने पुनः पुनः । आकृष्य सर्वतो वृक्षान् निर्वृक्षम् अकरोद् वनम् ॥ 22 ॥
श्लोक 10.67.23
ततो ऽमुञ्चच् छिलावर्षं बलस्योपर्य् अमर्षितः । तत् सर्वं चूर्णयां आस लीलया मुषलायुधः ॥ 23 ॥
श्लोक 10.67.24
स बाहू तालसङ्काशौ मुष्टीकृत्य कपीश्वरः । आसाद्य रोहिणीपुत्रं ताभ्यां वक्षस्य् अरूरुजत् ॥ 24 ॥
श्लोक 10.67.25
यादवेन्द्रो ऽपि तं दोर्भ्यां त्यक्त्वा मुषललाङ्गले । जत्राव् अभ्यर्दयत् क्रुद्धः सो ऽपतद् रुधिरं वमन् ॥ 25 ॥
श्लोक 10.67.26
चकम्पे तेन पतता सटङ्कः सवनस्पतिः । पर्वतः कुरुशार्दूल वायुना नौर् इवाम्भसि ॥ 26 ॥
श्लोक 10.67.27
जयशब्दो नमःशब्दः साधु साध्व् इति चाम्बरे । सुरसिद्धमुनीन्द्राणाम् आसीत् कुसुमवर्षिणाम् ॥ 27 ॥
श्लोक 10.67.28
एवं निहत्य द्विविदं जगद्व्यतिकरावहम् । संस्तूयमानो भगवान् जनैः स्वपुरम् आविशत् ॥ 28 ॥