मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 68

श्रीमद्भागवत दशम स्कन्ध अध्याय 68 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.68.1

दुर्योधनसुतां राजन् लक्ष्मणां समितिंजयः । स्वयंवरस्थाम् अहरत् साम्बो जाम्बवतीसुतः ॥ 1 ॥

श्लोक 10.68.2

कौरवाः कुपिता ऊचुर् दुर्विनीतो ऽयम् अर्भकः । कदर्थीकृत्य नः कन्याम् अकामाम् अहरद् बलात् ॥ 2 ॥

श्लोक 10.68.3

बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः । ये ऽस्मत्प्रसादोपचितां दत्तां नो भुञ्जते महीम् ॥ 3 ॥

श्लोक 10.68.4

निगृहीतं सुतं श्रुत्वा यद्य् एष्यन्तीह वृष्णयः । भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः ॥ 4 ॥

श्लोक 10.68.5

इति कर्णः शलो भूरिर् यज्ञकेतुः सुयोधनः । साम्बम् आरेभिरे योद्धुं कुरुवृद्धानुमोदिताः ॥ 5 ॥

श्लोक 10.68.6

दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महारथः । प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः ॥ 6 ॥

श्लोक 10.68.7

तं ते जिघृक्षवः क्रुद्धास् तिष्ठ तिष्ठेति भाषिणः । आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन् ॥ 7 ॥

श्लोक 10.68.8

सो ऽपविद्धः कुरुश्रेष्ठ कुरुभिर् यदुनन्दनः । नामृष्यत् तद् अचिन्त्यार्भः सिंह क्षुद्रमृगैर् इव ॥ 8 ॥

श्लोक 10.68.9

विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः । कर्णादीन् षड् रथान् वीरस् तावद्भिर् युगपत् पृथक् ॥ 9 ॥

श्लोक 10.68.10

चतुर्भिश् चतुरो वाहान् एकैकेन च सारथीन् । रथिनश् च महेष्वासांस् तस्य तत् ते ऽभ्यपूजयन् ॥ 10 ॥

श्लोक 10.68.11

तं तु ते विरथं चक्रुश् चत्वारश् चतुरो हयान् । एकस् तु सारथिं जघ्ने चिच्छेदण्यः शरासनम् ॥ 11 ॥

श्लोक 10.68.12

तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि । कुमारं स्वस्य कन्यां च स्वपुरं जयिनो ऽविशन् ॥ 12 ॥

श्लोक 10.68.13

तच् छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः । कुरून् प्रत्य् उद्यमं चक्रुर् उग्रसेनप्रचोदिताः ॥ 13 ॥

श्लोक 10.68.14

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णिपुङ्गवान् । नैच्छत् कुरूणां वृष्णीनां कलिं कलिमलापहः ॥ 14 ॥

श्लोक 10.68.15

जगाम हास्तिनपुरं रथेनादित्यवर्चसा । ब्राह्मणैः कुलवृद्धैश् च वृतश् चन्द्र इव ग्रहैः ॥ 15 ॥

श्लोक 10.68.16

गत्वा गजाह्वयं रामो बाह्योपवनम् आस्थितः । उद्धवं प्रेषयाम् आस धृतराष्ट्रं बुभुत्सया ॥ 16 ॥

श्लोक 10.68.17

सो ऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् । दुर्योधनं च विधिवद् रामम् आगतं अब्रवीत् ॥ 17 ॥

श्लोक 10.68.18

ते ऽतिप्रीतास् तम् आकर्ण्य प्राप्तं रामं सुहृत्तमम् । तम् अर्चयित्वाभिययुः सर्वे मङ्गलपाणयः ॥ 18 ॥

श्लोक 10.68.19

तं सङ्गम्य यथान्यायं गाम् अर्घ्यं च न्यवेदयन् । तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम् ॥ 19 ॥

श्लोक 10.68.20

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवम् अनामयम् । परस्परम् अथो रामो बभाषे ऽविक्लवं वचः ॥ 20 ॥

श्लोक 10.68.21

उग्रसेनः क्षितेशेशो यद् व आज्ञापयत् प्रभुः । तद् अव्यग्रधियः श्रुत्वा कुरुध्वम् अविलम्बितम् ॥ 21 ॥

श्लोक 10.68.22

यद् यूयं बहवस् त्व् एकं जित्वाधर्मेण धार्मिकम् । अबध्नीताथ तन् मृष्ये बन्धूनाम् ऐक्यकाम्यया ॥ 22 ॥

श्लोक 10.68.23

वीर्यशौर्यबलोन्नद्धम् आत्मशक्तिसमं वचः । कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः ॥ 23 ॥

श्लोक 10.68.24

अहो महच् चित्रम् इदं कालगत्या दुरत्यया । आरुरुक्षत्य् उपानद् वै शिरो मुकुटसेवितम् ॥ 24 ॥

श्लोक 10.68.25

एते यौनेन सम्बद्धाः सहशय्यासनाशनाः । वृष्णयस् तुल्यतां नीता अस्मद्दत्तनृपासनाः ॥ 25 ॥

श्लोक 10.68.26

चामरव्यजने शङ्खम् आतपत्रं च पाण्डुरम् । किरीटम् आसनं शय्यां भुञ्जते ऽस्मद्उपेक्षया ॥ 26 ॥

श्लोक 10.68.27

अलं यदूनां नरदेवलाञ्छनैर् दातुः प्रतीपैः फणिनाम् इवामृतम् । ये ऽस्मत्प्रसादोपचिता हि यादवा आज्ञापयन्त्य् अद्य गतत्रपा बत ॥ 27 ॥

श्लोक 10.68.28

कथम् इन्द्रो ऽपि कुरुभिर् भीष्मद्रोणार्जुनादिभिः । अदत्तम् अवरुन्धीत सिंहग्रस्तम् इवोरणः ॥ 28 ॥

श्लोक 10.68.29

जन्मबन्धुश्रीयोन्नद्धमदास् ते भरतर्षभ । आश्राव्य रामं दुर्वाच्यम् असभ्याः पुरम् आविशन् ॥ 29 ॥

श्लोक 10.68.30

दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः । अवोचत् कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः ॥ 30 ॥

श्लोक 10.68.31

नूनं नानामदोन्नद्धाः शान्तिं नेच्छन्त्य् असाधवः । तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा ॥ 31 ॥

श्लोक 10.68.32

अहो यदून् सुसंरब्धान् कृष्णं च कुपितं शनैः । सान्त्वयित्वाहम् एतेषां शमम् इच्छन्न् इहागतः ॥ 32 ॥

श्लोक 10.68.33

त इमे मन्दमतयः कलहाभिरताः खलाः । तं माम् अवज्ञाय मुहुर् दुर्भाषान् मानिनो ऽब्रुवन् ॥ 33 ॥

श्लोक 10.68.34

नोग्रसेनः किल विभुर् भोजवृष्ण्य्अन्धकेश्वरः । शक्रादयो लोकपाला यस्यादेशानुवर्तिनः ॥ 34 ॥

श्लोक 10.68.35

सुधर्माक्रम्यते येन पारिजातो ऽमराङ्घ्रिपः । आनीय भुज्यते सो ऽसौ न किलाध्यासनार्हणः ॥ 35 ॥

श्लोक 10.68.36

यस्य पादयुगं साक्षाच् छ्रीर् उपास्ते ऽखिलेश्वरी । स नार्हति किल श्रीशो नरदेवपरिच्छदान् ॥ 36 ॥

श्लोक 10.68.37

यस्याङ्घ्रिपङ्कजरजो ऽखिललोकपालैर् मौल्य्उत्तमैर् धृतम् उपासिततीर्थतीर्थम् &अम्प्; ब्रह्मा भवो ऽहम् अपि यस्य कलाः कलायाः श्रीश् चोद्वहेम चिरम् अस्य नृपासनं क्व ॥ 37 ॥

श्लोक 10.68.38

भुञ्जते कुरुभिर् दत्तं भूखण्डं वृष्णयः किल । उपानहः किल वयं स्वयं तु कुरवः शिरः ॥ 38 ॥

श्लोक 10.68.39

अहो ऐश्वर्यमत्तानां मत्तानाम् इव मानिनाम् । असम्बद्धा गिऋओ रुक्षाः कः सहेतानुशासीता ॥ 39 ॥

श्लोक 10.68.40

अद्य निष्कौरवं पृथ्वीं करिष्यामीत्य् अमर्षितः । गृहीत्वा हलम् उत्तस्थौ दहन्न् इव जगत्त्रयम् ॥ 40 ॥

श्लोक 10.68.41

लाङ्गलाग्रेण नगरम् उद्विदार्य गजाह्वयम् । विचकर्ष स गङ्गायां प्रहरिष्यन्न् अमर्षितः ॥ 41 ॥

श्लोक 10.68.42

जलयानम् इवाघूर्णं गङ्गायां नगरं पतत् । आकृष्यमाणम् आलोक्य कौरवाः जातसम्भ्रमाः ॥ 42 ॥

श्लोक 10.68.43

तम् एव शरणं जग्मुः सकुटुम्बा जिजीविषवः । सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुम् ॥ 43 ॥

श्लोक 10.68.44

राम रामाखिलाधार प्रभावं न विदाम ते । मूढानां नः कुबुद्धीनां क्षन्तुम् अर्हस्य् अतिक्रमम् ॥ 44 ॥

श्लोक 10.68.45

स्थित्य्उत्पत्त्य्अप्ययानां त्वम् एको हेतुर् निराश्रयः । लोकान् क्रीडनकान् ईश क्रीडतस् ते वदन्ति हि ॥ 45 ॥

श्लोक 10.68.46

त्वम् एव मूर्ध्नीदम् अनन्त लीलया भूमण्डलं बिभर्षि सहस्रमूर्धन् । अन्ते च यः स्वात्मनिरुद्धविश्वः शेषे ऽद्वितीयः परिशिष्यमाणः ॥ 46 ॥

श्लोक 10.68.47

कोपस् ते ऽखिलशिक्षार्थं न द्वेषान् न च मत्सरात् । बिभ्रतो भगवन् सत्त्वं स्थितिपालनतत्परः ॥ 47 ॥

श्लोक 10.68.48

नमस् ते सर्वभूतात्मन् सर्वशक्तिधराव्यय । विश्वकर्मन् नमस् ते ऽस्तु त्वां वयं शरणं गताः ॥ 48 ॥

श्लोक 10.68.49

एवं प्रपन्नैः संविग्नैर् वेपमानायनैर् बलः । प्रसादितः सुप्रसन्नो मा भैष्टेत्य् अभयं ददौ ॥ 49 ॥

श्लोक 10.68.50

दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान् । ददौ च द्वादशशतान्य् अयुतानि तुरङ्गमान् ॥ 50 ॥

श्लोक 10.68.51

रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम् । दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः ॥ 51 ॥

श्लोक 10.68.52

प्रतिगृह्य तु तत् सर्वं भगवान् सात्वतर्षभः । ससुतः सस्नुषः प्रायात् सुहृद्भिर् अभिनन्दितः ॥ 52 ॥

श्लोक 10.68.53

ततः प्रविष्टः स्वपुरं हलायुधः समेत्य बन्धून् अनुरक्तचेतसः &अम्प्; शशंस सर्वं यदुपुङ्गवानां मध्ये सभायां कुरुषु स्वचेष्टितम् ॥ 53 ॥

श्लोक 10.68.54

अद्यापि च पुरं ह्य् एतत् सूचयद् रामविक्रमम् । समुन्नतं दक्षिणतो गङ्गायाम् अनुदृश्यते ॥ 54 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ