मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 69

श्रीमद्भागवत दशम स्कन्ध अध्याय 69 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.69.1

नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् । कृष्णेनैकेन बह्वीनां तद्दिदृक्षुः स्म नारदः ॥ 1 ॥

श्लोक 10.69.2

चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् । गृहेषु द्व्य्अष्टसाहस्रं स्त्रिय एक उदावहत् ॥ 2 ॥

श्लोक 10.69.3

इत्य् उत्सुको द्वारवतीं देवर्षिर् द्रष्टुम् आगमत् । पुष्पितोपवनारामद्विजालिकुलनादिताम् ॥ 3 ॥

श्लोक 10.69.4

उत्फुल्लेन्दीवराम्भोजकह्लारकुमुदोत्पलैः । छुरितेषु सरःसूच्चैः कूजितां हंससारसैः ॥ 4 ॥

श्लोक 10.69.5

प्रासादलक्षैर् नवभिर् जुष्टां स्फाटिकराजतैः । महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः ॥ 5 ॥

श्लोक 10.69.6

विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः । संसिक्तमार्गाङ्गनवीथिदेहलीं पतत्पताकध्वजवारितातपाम् ॥ 6 ॥

श्लोक 10.69.7

तस्याम् अन्तःपुरं श्रीमद् अर्चितं सर्वधिष्ण्यपैः । हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम् ॥ 7 ॥

श्लोक 10.69.8

तत्र षोडशभिः सद्मसहस्रैः समलङ्कृतम् । विवेशैकतोमं शौरेः पत्नीनां भवनं महत् ॥ 8 ॥

श्लोक 10.69.9

विष्टब्धं विद्रुमस्तम्भैर् वैदूर्यफलकोत्तमैः । इन्द्रनीलमयैः कुड्यैर् जगत्या चाहतत्विषा ॥ 9 ॥

श्लोक 10.69.10

वितानैर् निर्मितैस् त्वष्ट्रा मुक्तादामविलम्बिभिः । दान्तैर् आसनपर्यङ्कैर् मण्य्उत्तमपरिष्कृतैः ॥ 10 ॥

श्लोक 10.69.11

दासीभिर् निष्ककण्ठीभिः सुवासोभिर् अलङ्कृतम् । पुम्भिः सकञ्चुकोष्णीष सुवस्त्रमणिकुण्डलैः ॥ 11 ॥

श्लोक 10.69.12

रत्नप्रदीपनिकरद्युतिभिर् निरस्तध्वान्तं विचित्रवलभीषु शिखण्डिनो ऽङ्ग । नृत्यन्ति यत्र विहितागुरुधूपम् अक्षैर् निर्यान्तम् ईक्ष्य घनबुद्धय उन्नदन्तः ॥ 12 ॥

श्लोक 10.69.13

तस्मिन् समानगुणरूपवयःसुवेषदासीसहस्रयुतयानुसवं गृहिण्या &अम्प्; विप्रो ददर्श चमरव्यजनेन रुक्मदण्डेन सात्वतपतिं परिवीजयन्त्या ॥ 13 ॥

श्लोक 10.69.14

तं सन्निरीक्ष्य भगवान् सहसोत्थितश्रीपर्यङ्कतः सकलधर्मभृतां वरिष्ठः । आनम्य पादयुगलं शिरसा किरीटजुष्टेन साञ्जलिर् अवीविशद् आसने स्वे ॥ 14 ॥

श्लोक 10.69.15

तस्यावनिज्य चरणौ तद्अपः स्वमूर्ध्ना बिभ्रज् जगद्गुरुतमो ऽपि सतां पतिर् हि । ब्रह्मण्यदेव इति यद् गुणनाम युक्तं तस्यैव यच्चरणशौचम् अशेषतीर्थम् ॥ 15 ॥

श्लोक 10.69.16

सम्पूज्य देवऋषिवर्यम् ऋषिः पुराणो नारायणो नरसखो विधिनोदितेन । वाण्याभिभाष्य मितयामृतमिष्टया तं प्राह प्रभो भगवते करवाम हे किम् ॥ 16 ॥

श्लोक 10.69.17

नैवाद्भुतं त्वयि विभो ऽखिललोकनाथे मैत्री जनेषु सकलेषु दमः खलानाम् । निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां स्वैरावतार उरुगाय विदाम सुष्ठु ॥ 17 ॥

श्लोक 10.69.18

दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं ब्रह्मादिभिर् हृदि विचिन्त्यम् अगाधबोधैः । संसारकूपपतितोत्तरणावलम्बं ध्यायंश् चराम्य् अनुगृहाण यथा स्मृतिः स्यात् ॥ 18 ॥

श्लोक 10.69.19

ततो ऽन्यद् आविशद् गेहं कृष्णपत्न्याः स नारदः । योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया ॥ 19 ॥

श्लोक 10.69.20

दीव्यन्तम् अक्षैस् तत्रापि प्रियया चोद्धवेन च । पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः ॥ 20 ॥

श्लोक 10.69.21

पृष्टश् चाविदुषेवासौ कदायातो भवान् इति । क्रियते किं नु पूर्णानाम् अपूर्णैर् अस्मद्आदिभिः ॥ 21 ॥

श्लोक 10.69.22

अथापि ब्रूहि नो ब्रह्मन् जन्मैतच् छोभनं कुरु । स तु विस्मित उत्थाय तूष्णीम् अन्यद् अगाद् गृहम् ॥ 22 ॥

श्लोक 10.69.23

तत्राप्य् अचष्ट गोविन्दं लालयन्तं सुतान् शिशून् । ततो ऽन्यस्मिन् गृहे ऽपश्यन् मज्जनाय कृतोद्यमम् ॥ 23 ॥

श्लोक 10.69.24

जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर् मखैः । भोजयन्तं द्विजान् क्वापि भुञ्जानम् अवशेषितम् ॥ 24 ॥

श्लोक 10.69.25

क्वापि सन्ध्याम् उपासीनं जपन्तं ब्रह्म वाग्यतम् । एकत्र चासिचर्माभ्यां चरन्तम् असिवर्त्मसु ॥ 25 ॥

श्लोक 10.69.26

अश्वैर् गजै रथैः क्वापि विचरन्तं गदाग्रजम् । क्वचिच् छयानं पर्यङ्के स्तूयमानं च वन्दिभिः ॥ 26 ॥

श्लोक 10.69.27

मन्त्रयन्तं च कस्मिंश्चिन् मन्त्रिभिश् चोद्धवादिभिः । जलक्रीडारतं क्वापि वारमुख्याबलावृतम् ॥ 27 ॥

श्लोक 10.69.28

कुत्रचिद् द्विजमुख्येभ्यो ददतं गाः स्व्अलङ्कृताः । इतिहासपुराणानि शृण्वन्तं मङ्गलानि च ॥ 28 ॥

श्लोक 10.69.29

हसन्तं हासकथया कदाचित् प्रियया गृहे । क्वापि धर्मं सेवमानम् अर्थकामौ च कुत्रचित् ॥ 29 ॥

श्लोक 10.69.30

ध्यायन्तम् एकम् आसीनं पुरुषं प्रकृतेः परम् । शुश्रूषन्तं गुरून् क्वापि कामैर् भोगैः सपर्यया ॥ 30 ॥

श्लोक 10.69.31

कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् । कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम् ॥ 31 ॥

श्लोक 10.69.32

पुत्राणां दुहितॄणां च काले विध्य्उपयापनम् । दारैर् वरैस् तत्सदृशैः कल्पयन्तं विभूतिभिः ॥ 32 ॥

श्लोक 10.69.33

प्रस्थापनोपनयनैर् अपत्यानां महोत्सवान् । वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे ॥ 33 ॥

श्लोक 10.69.34

यजन्तं सकलान् देवान् क्वापि क्रतुभिर् ऊर्जितैः । पूर्तयन्तं क्वचिद् धर्मं कूर्पाराममठादिभिः ॥ 34 ॥

श्लोक 10.69.35

चरन्तं मृगयां क्वापि हयम् आरुह्य सैन्धवम् । घ्नन्तं तत्र पशून् मेध्यान् परीतं यदुपुङ्गवैः ॥ 35 ॥

श्लोक 10.69.36

अव्यक्तलिन्गं प्रकृतिष्व् अन्तःपुरगृहादिषु । क्वचिच् चरन्तं योगेशं तत्तद्भावबुभुत्सया ॥ 36 ॥

श्लोक 10.69.37

अथोवाच हृषीकेशं नारदः प्रहसन्न् इव । योगमायोदयं वीक्ष्य मानुषीम् ईयुषो गतिम् ॥ 37 ॥

श्लोक 10.69.38

विदाम योगमायास् ते दुर्दर्शा अपि मायिनाम् । योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया ॥ 38 ॥

श्लोक 10.69.39

अनुजानीहि मां देव लोकांस् ते यशसाप्लुतान् । पर्यटामि तवोद्गायन् लीला भुवनपावनीः ॥ 39 ॥

श्लोक 10.69.40

ब्रह्मन् धन्नस्य वक्ताहं कर्ता तद्अनुमोदिता । तच् छिक्षयन् लोकम् इमम् आस्थितः पुत्र मा खिदः ॥ 40 ॥

श्लोक 10.69.41

इत्य् आचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् । तम् एव सर्वगेहेषु सन्तम् एकं ददर्श ह ॥ 41 ॥

श्लोक 10.69.42

कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् । मुहुर् दृष्ट्वा ऋषिर् अभूद् विस्मितो जातकौतुकः ॥ 42 ॥

श्लोक 10.69.43

इत्य् अर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना । सम्यक् सभाजितः प्रीतस् तम् एवानुस्मरन् ययौ ॥ 43 ॥

श्लोक 10.69.44

एवं मनुष्यपदवीम् अनुवर्तमानो नारायणो ऽखिलभवाय गृहीतशक्तिः । रेमे ऽण्ग षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टः ॥ 44 ॥

श्लोक 10.69.45

यानीह विश्वविलयोद्भववृत्तिहेतुः कर्माण्य् अनन्यविषयाणि हरीश् चकार &अम्प्; यस् त्व् अङ्ग गायति शृणोत्य् अनुमोदते वा भक्तिर् भवेद् भगवति ह्य् अपवर्गमार्गे ॥ 45 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ