मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 70

श्रीमद्भागवत दशम स्कन्ध अध्याय 70 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.70.1

अथोषस्य् उपवृत्तायां कुक्कुटान् कूजतो ऽशपन् । गृहीतकण्ठ्यः पतिभिर् माधव्यो विरहातुराः ॥ 1 ॥

श्लोक 10.70.2

वयांस्य् अरोरुवन् कृष्णं बोधयन्तीव वन्दिनः । गायत्स्व् अलिष्व् अनिद्राणि मन्दारवनवायुभिः ॥ 2 ॥

श्लोक 10.70.3

मुहूर्तं तं तु वैदर्भी नामृष्यद् अतिशोभनम् । परिरम्भणविश्लेषात् प्रियबाह्व्अन्तरं गता ॥ 3 ॥

श्लोक 10.70.4

ब्राह्मे मुहूर्त उत्थाय वार्य् उपस्पृश्य माधवः । दध्यौ प्रसन्नकरण आत्मानं तमसः परम् ॥ 4 ॥

श्लोक 10.70.5

एकं स्वयंज्योतिर् अनन्यम् अव्ययं स्वसंस्थया नित्यनिरस्तकल्मषम् । ब्रह्माख्यम् अस्योद्भवनाशहेतुभिः स्वशक्तिभिर् लक्षितभावनिर्वृतिम् ॥ 5 ॥

श्लोक 10.70.6

अथाप्लुतो ऽम्भस्य् अमले यथाविधि क्रियाकलापं परिधाय वाससी &अम्प्; चकार सन्ध्योपगमादि सत्तमो हुतानलो ब्रह्म जजाप वाग्यतः ॥ 6 ॥

श्लोक 10.70.7

उपस्थायार्कम् उद्यन्तं तर्पयित्वात्मनः कलाः । देवान् ऋषीन् पितॄन् वृद्धान् विप्रान् अभ्यर्च्य चात्मवान् ॥ 7 ॥

श्लोक 10.70.8

धेनूनां रुक्मशृङ्गीनां साध्वीनां मौक्तिकस्रजाम् । पयस्विनीनां गृष्टीनां सवत्सानां सुवाससाम् ॥ 8 ॥

श्लोक 10.70.9

ददौ रूप्यखुराग्राणां क्षौमाजिनतिलैः सह । अलङ्कृतेभ्यो विप्रेभ्यो बद्वं बद्वं दिने दिने ॥ 9 ॥

श्लोक 10.70.10

गोविप्रदेवतावृद्धगुरून् भूतानि सर्वशः । नमस्कृत्यात्मसम्भूतीर् मङ्गलानि समस्पृशत् ॥ 10 ॥

श्लोक 10.70.11

आत्मानं भूषयाम् आस नरलोकविभूषणम् । वासोभिर् भूषणैः स्वीयैर् दिव्यस्रग्अनुलेपनैः ॥ 11 ॥

श्लोक 10.70.12

अवेक्ष्याज्यं तथादर्शं गोवृषद्विजदेवताः । कामांश् च सर्ववर्णानां पौरान्तःपुरचारिणाम् । प्रदाप्य प्रकृतीः कामैः प्रतोष्य प्रत्यनन्दत ॥ 12 ॥

श्लोक 10.70.13

संविभज्याग्रतो विप्रान् स्रक्ताम्बूलानुलेपनैः । सुहृदः प्रकृतीर् दारान् उपायुङ्क्त ततः स्वयम् ॥ 13 ॥

श्लोक 10.70.14

तावत् सूत उपानीय स्यन्दनं परमाद्भुतम् । सुग्रीवाद्यैर् हयैर् युक्तं प्रणम्यावस्थितो ऽग्रतः ॥ 14 ॥

श्लोक 10.70.15

गृहीत्वा पाणिना पाणी सारथेस् तम् अथारुहत् । सात्यक्य्उद्धवसंयुक्तः पूर्वाद्रिम् इव भास्करः ॥ 15 ॥

श्लोक 10.70.16

ईक्षितो ऽन्तःपुरस्त्रीणां सव्रीडप्रेमवीक्षितैः । कृच्छ्राद् विसृष्टो निरगाज् जातहासो हरन् मनः ॥ 16 ॥

श्लोक 10.70.17

सुधर्माख्यां सभां सर्वैर् वृष्णिभिः परिवारितः । प्राविशद् यन्निविष्टानां न सन्त्य् अङ्ग षड् ऊर्मयः ॥ 17 ॥

श्लोक 10.70.18

तत्रोपविस्तः परमासने विभुर् बभौ स्वभासा ककुभो ऽवभासयन् । वृतो नृसिंहैर् यदुभिर् यदूत्तमो यथोडुराजो दिवि तारकागणैः ॥ 18 ॥

श्लोक 10.70.19

तत्रोपमन्त्रिणो राजन् नानाहास्यरसैर् विभुम् । उपतस्थुर् नटाचार्या नर्तक्यस् ताण्डवैः पृथक् ॥ 19 ॥

श्लोक 10.70.20

मृदङ्गवीणामुरजवेणुतालदरस्वनैः । ननृतुर् जगुस् तुष्टुवुश् च सूतमागधवन्दिनः ॥ 20 ॥

श्लोक 10.70.21

तत्राहुर् ब्राह्मणाः केचिद् आसीना ब्रह्मवादिनः । पूर्वेषां पुण्ययशसां राज्ञां चाकथयन् कथाः ॥ 21 ॥

श्लोक 10.70.22

तत्रैकः पुरुषो राजन्न् आगतो ऽपूर्वदर्शनः । विज्ञापितो भगवते प्रतीहारैः प्रवेशितः ॥ 22 ॥

श्लोक 10.70.23

स नमस्कृत्य कृष्णाय परेशाय कृताञ्जलिः । राज्ञाम् आवेदयद् दुःखं जरासन्धनिरोधजम् ॥ 23 ॥

श्लोक 10.70.24

ये च दिग्विजये तस्य सन्नतिं न ययुर् नृपाः । प्रसह्य रुद्धास् तेनासन्न् अयुते द्वे गिरिव्रजे ॥ 24 ॥

श्लोक 10.70.25

कृष्ण कृष्णाप्रमेयात्मन् प्रपन्नभयभञ्जन । वयं त्वां शरणं यामो भवभीताः पृथग्धियः ॥ 25 ॥

श्लोक 10.70.26

लोको विकर्मनिरतः कुशले प्रमत्तः कर्मण्य् अयं त्वद्उदिते भवद्अर्चने स्वे &अम्प्; यस् तावद् अस्य बलवान् इह जीविताशां सद्यश् छिनत्त्य् अनिमिषाय नमो ऽस्तु तस्मै ॥ 26 ॥

श्लोक 10.70.27

लोके भवाञ् जगद्इनः कलयावतीर्णः सद्रक्षणाय खलनिग्रहणाय चान्यः । कश्चित् त्वदीयम् अतियाति निदेशम् ईश किं वा जनः स्वकृतम् ऋच्छति तन् न विद्मः ॥ 27 ॥

श्लोक 10.70.28

स्वप्नायितं नृपसुखं परतन्त्रम् ईश शश्वद्भयेन मृतकेन धुरं वहामः । हित्वा तद् आत्मनि सुखं त्वद्अनीहलभ्यं क्लिश्यामहे ऽतिकृपणास् तव माययेह ॥ 28 ॥

श्लोक 10.70.29

तन् नो भवान् प्रणतशोकहराङ्घ्रियुग्मो बद्धान् वियुङ्क्ष्व मगधाह्वयकर्मपाशात् । यो भूभुजो ऽयुतमतङ्गजवीर्यम् एको बिभ्रद् रुरोध भवने मृगराड् इवावीः ॥ 29 ॥

श्लोक 10.70.30

यो वै त्वया द्विनवकृत्व उदात्तचक्र भग्नो मृधे खलु भवन्तम् अनन्तवीर्यम् । जित्वा नृलोकनिरतं सकृद् ऊढदर्पो युष्मत्प्रजा रुजति नो ऽजित तद् विधेहि ॥ 30 ॥

श्लोक 10.70.31

इति मागधसंरुद्धा भवद्दर्शनकङ्क्षिणः । प्रपन्नाः पादमूलं ते दीनानां शं विधीयताम् ॥ 31 ॥

श्लोक 10.70.32

राजदूते ब्रुवत्य् एवं देवर्षिः परमद्युतिः । बिभ्रत् पिङ्गजटाभारं प्रादुरासीद् यथा रविः ॥ 32 ॥

श्लोक 10.70.33

तं दृष्ट्वा भगवान् कृष्णः सर्वलोकेश्वरेश्वरः । ववन्द उत्थितः शीर्ष्णा ससभ्यः सानुगो मुदा ॥ 33 ॥

श्लोक 10.70.34

सभाजयित्वा विधिवत् कृतासनपरिग्रहम् । बभाषे सुनृतैर् वाक्यैः श्रद्धया तर्पयन् मुनिम् ॥ 34 ॥

श्लोक 10.70.35

अपि स्विद् अद्य लोकानां त्रयाणाम् अकुतोभयम् । ननु भूयान् भगवतो लोकान् पर्यटतो गुणः ॥ 35 ॥

श्लोक 10.70.36

न हि ते ऽविदितं किञ्चिल् लोकेष्व् ईश्वरकर्तृषु । अथ पृच्छामहे युष्मान् पाण्डवानां चिकीर्षितम् ॥ 36 ॥

श्लोक 10.70.37

दृष्टा माया ते बहुशो दुरत्यया माया विभो विश्वसृजश् च मायिनः । भूतेषु भूमंश् चरतः स्वशक्तिभिर् वह्नेर् इव च्छन्नरुचो न मे ऽद्भुतम् ॥ 37 ॥

श्लोक 10.70.38

तवेहितं को ऽर्हति साधु वेदितुं स्वमाययेदं सृजतो नियच्छतः । यद् विद्यमानात्मतयावभासते तस्मै नमस् ते स्वविलक्षणात्मने ॥ 38 ॥

श्लोक 10.70.39

जीवस्य यः संसरतो विमोक्षणं न जानतो ऽनर्थवहाच् छरीरतः । लीलावतारैः स्वयशः प्रदीपकं प्राज्वालयत् त्वा तम् अहं प्रपद्ये ॥ 39 ॥

श्लोक 10.70.40

अथाप्य् आश्रावये ब्रह्म नरलोकविडम्बनम् । राज्ञः पैतृष्वस्रेयस्य भक्तस्य च चिकीर्षितम् ॥ 40 ॥

श्लोक 10.70.41

यक्ष्यति त्वां मखेन्द्रेण राजसूयेन पाण्डवः । पारमेष्ठ्यकामो नृपतिस् तद् भवान् अनुमोदताम् ॥ 41 ॥

श्लोक 10.70.42

तस्मिन् देव क्रतुवरे भवन्तं वै सुरादयः । दिदृक्षवः समेष्यन्ति राजानश् च यशस्विनः ॥ 42 ॥

श्लोक 10.70.43

श्रवणात् कीर्तनाद् ध्यानात् पूयन्ते ऽन्तेवसायिनः । तव ब्रह्ममयस्येश किम् उतेक्षाभिमर्शिनः ॥ 43 ॥

श्लोक 10.70.44

यस्यामलं दिवि यशः प्रथितं रसायां भूमौ च ते भुवनमङ्गल दिग्वितानम् &अम्प्; मन्दाकिनीति दिवि भोगवतीति चाधो गङ्गेति चेह चरणाम्बु पुनाति विश्वम् ॥ 44 ॥

श्लोक 10.70.45

तत्र तेष्व् आत्मपक्षेष्व् अगृणत्सु विजिगीषया । वाचः पेशैः स्मयन् भृत्यम् उद्धवं प्राह केशवः ॥ 45 ॥

श्लोक 10.70.46

त्वं हि नः परमं चक्षुः सुहृन् मन्त्रार्थतत्त्ववित् । अथात्र ब्रूह्य् अनुष्ठेयं श्रद्दध्मः करवाम तत् ॥ 46 ॥

श्लोक 10.70.47

इत्य् उपामन्त्रितो भर्त्रा सर्वज्ञेनापि मुग्धवत् । निदेशं शिरसाधाय उद्धवः प्रत्यभाषत ॥ 47 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ