मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 71

श्रीमद्भागवत दशम स्कन्ध अध्याय 71 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.71.1

इत्य् उदीरितम् आकर्ण्य देवऋषेर् उद्धवो ऽब्रवीत् । सभ्यानां मतम् आज्ञाय कृष्णस्य च महामतिः ॥ 1 ॥

श्लोक 10.71.2

यद् उक्तम् ऋषिना देव साचिव्यं यक्ष्यतस् त्वया । कार्यं पैतृष्वस्रेयस्य रक्षा च शरणैषिणाम् ॥ 2 ॥

श्लोक 10.71.3

यष्टव्यम् राजसूयेन दिक्चक्रजयिना विभो । अतो जरासुतजय उभयार्थो मतो मम ॥ 3 ॥

श्लोक 10.71.4

अस्माकं च महान् अर्थो ह्य् एतेनैव भविष्यति । यशश् च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः ॥ 4 ॥

श्लोक 10.71.5

स वै दुर्विषहो राजा नागायुतसमो बले । बलिनाम् अपि चान्येषां भीमं समबलं विना ॥ 5 ॥

श्लोक 10.71.6

द्वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः । ब्राह्मण्यो ऽभ्यर्थितो विप्रैर् न प्रत्याख्याति कर्हिचित् ॥ 6 ॥

श्लोक 10.71.7

ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः । हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ ॥ 7 ॥

श्लोक 10.71.8

निमित्तं परम् ईशस्य विश्वसर्गनिरोधयोः । हिरण्यगर्भः शर्वश् च कालस्यारूपिणस् तव ॥ 8 ॥

श्लोक 10.71.9

गायन्ति ते विशदकर्म गृहेषु देव्यो राज्ञां स्वशत्रुवधम् आत्मविमोक्षणं च &अम्प्; गोप्यश् च कुञ्जरपतेर् जनकात्मजायाः पित्रोश् च लब्धशरणा मुनयो वयं च ॥ 9 ॥

श्लोक 10.71.10

जरासन्धवधः कृष्ण भूर्य्अर्थायोपकल्पते । प्रायः पाकविपाकेन तव चाभिमतः क्रतुः ॥ 10 ॥

श्लोक 10.71.11

इत्य् उद्धववचो राजन् सर्वतोभद्रम् अच्युतम् । देवर्षिर् यदुवृद्धाश् च कृष्णश् च प्रत्यपूजयन् ॥ 11 ॥

श्लोक 10.71.12

अथादिशत् प्रयाणाय भगवान् देवकीसुतः । भृत्यान् दारुकजैत्रादीन् अनुज्ञाप्य गुरून् विभुः ॥ 12 ॥

श्लोक 10.71.13

निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान् । सङ्कर्षणम् अनुज्ञाप्य यदुराजं च शत्रुहन् । सूतोपनीतं स्वरथम् आरुहद् गरुडध्वजम् ॥ 13 ॥

श्लोक 10.71.14

ततो रथद्विपभटसादिनायकैः करालया परिवृत आत्मसेनया &अम्प्; मृदङ्गभेर्य्आनकशङ्खगोमुखैः प्रघोषघोषितककुभो निरक्रमत् ॥ 14 ॥

श्लोक 10.71.15

नृवाजिकाञ्चनशिबिकाभिर् अच्युतं सहात्मजाः पतिम् अनु सुव्रता ययुः । वराम्बराभरणविलेपनस्रजः सुसंवृता नृभिर् असिचर्मपाणिभिः ॥ 15 ॥

श्लोक 10.71.16

नरोष्ट्रगोमहिषखराश्वतर्य्अनः करेणुभिः परिजनवारयोषितः &अम्प्; स्व्अलङ्कृताः कटकुटिकम्बलाम्बराद्य्उपस्करा ययुर् अधियुज्य सर्वतः ॥ 16 ॥

श्लोक 10.71.17

बलं बृहद्ध्वजपटछत्रचामरैर् वरायुधाभरणकिरीटवर्मभिः । दिवांशुभिस् तुमुलरवं बभौ रवेर् यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः ॥ 17 ॥

श्लोक 10.71.18

अथो मुनिर् यदुपतिना सभाजितः प्रणम्य तं हृदि विदधद् विहायसा । निशम्य तद्व्यवसितम् आहृतार्हणो मुकुन्दसन्दरशननिर्वृतेन्द्रियः ॥ 18 ॥

श्लोक 10.71.19

राजदूतम् उवाचेदं भगवान् प्रीणयन् गिरा । मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ 19 ॥

श्लोक 10.71.20

इत्य् उक्तः प्रस्थितो दूतो यथावद् अवदन् नृपान् । ते ऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन् मुमुक्षवः ॥ 20 ॥

श्लोक 10.71.21

आनर्तसौवीरमरूंस् तीर्त्वा विनशनं हरिः । गिरीन् नदीर् अतीयाय पुरग्रामव्रजाकरान् ॥ 21 ॥

श्लोक 10.71.22

ततो दृषद्वतीं तीर्त्वा मुकुन्दो ऽथ सरस्वतीम् । पञ्चालान् अथ मत्स्यांश् च शक्रप्रस्थम् अथागमत् ॥ 22 ॥

श्लोक 10.71.23

तम् उपागतम् आकर्ण्य प्रीतो दुर्दर्शनं नृनाम् । अजातशत्रुर् निरगात् सोपध्यायः सुहृद्वृतः ॥ 23 ॥

श्लोक 10.71.24

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा । अभ्ययात् स हृषीकेशं प्राणाः प्राणम् इवादृतः ॥ 24 ॥

श्लोक 10.71.25

दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः । चिराद् दृष्टं प्रियतमं सस्वजे ऽथ पुनः पुनः ॥ 25 ॥

श्लोक 10.71.26

दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्दगात्रं नृपतिर् हताशुभः । लेभे परां निर्वृतिम् अश्रुलोचनो हृष्यत्तनुर् विस्मृतलोकविभ्रमः ॥ 26 ॥

श्लोक 10.71.27

तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेमजलाकुलेन्द्रियः । यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरे ऽच्युतम् ॥ 27 ॥

श्लोक 10.71.28

अर्जुनेन परिष्वक्तो यमाभ्याम् अभिवादितः । ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश् च यथार्हतः । मानिनो मानयाम् आस कुरुसृञ्जयकैकयान् ॥ 28 ॥

श्लोक 10.71.29

सूतमागधगन्धर्वा वन्दिनश् चोपमन्त्रिणः । मृदङ्गशङ्खपटह वीणापणवगोमुखैः । ब्राह्मणाश् चारविन्दाक्षं तुष्टुवुर् ननृतुर् जगुः ॥ 29 ॥

श्लोक 10.71.30

एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः । संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम् ॥ 30 ॥

श्लोक 10.71.31

संसिक्तवर्त्म करिणां मदगन्धतोयैश् चित्रध्वजैः कनकतोरणपूर्णकुम्भैः &अम्प्; मृष्टात्मभिर् नवदुकूलविभूषणस्रग्गन्धैर् नृभिर् युवतिभिश् च विराजमानम् ॥ 31 ॥

श्लोक 10.71.32

उद्दीप्तदीपबलिभिः प्रतिसद्म जाल निर्यातधूपरुचिरं विलसत्पताकम् । मूर्धन्यहेमकलशै रजतोरुशृङ्गैर् जुष्टं ददर्श भवनैः कुरुराजधाम ॥ 32 ॥

श्लोक 10.71.33

प्राप्तं निशम्य नरलोचनपानपात्रम् औत्सुक्यविश्लथितकेशदुकूलबन्धाः । सद्यो विसृज्य गृहकर्म पतींश् च तल्पे द्रष्टुं ययुर् युवतयः स्म नरेन्द्रमार्गे ॥ 33 ॥

श्लोक 10.71.34

तस्मिन् सुसङ्कुल इभाश्वरथद्विपद्भिः कृष्णम् सभार्यम् उपलभ्य गृहाधिरूढाः । नार्यो विकीर्य कुसुमैर् मनसोपगुह्य सुस्वागतं विदधुर् उत्स्मयवीक्षितेन ॥ 34 ॥

श्लोक 10.71.35

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीस् तारा यथोडुपसहाः किम् अकार्य् अमूभिः । यच् चक्षुषां पुरुषमौलिर् उदारहास लीलावलोककलयोत्सवम् आतनोति ॥ 35 ॥

श्लोक 10.71.36

तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः । चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः ॥ 36 ॥

श्लोक 10.71.37

अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः । ससम्भ्रमैर् अभ्युपेतः प्राविशद् राजमन्दिरम् ॥ 37 ॥

श्लोक 10.71.38

पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् । प्रीतात्मोत्थाय पर्यङ्कात् सस्नुषा परिषस्वजे ॥ 38 ॥

श्लोक 10.71.39

गोविन्दं गृहम् आनीय देवदेवेशम् आदृतः । पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः ॥ 39 ॥

श्लोक 10.71.40

पितृस्वसुर् गुरुस्त्रीणां कृष्णश् चक्रे ऽभिवादनम् । स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः ॥ 40 ॥

श्लोक 10.71.41

श्वशृवा सञ्चोदिता कृष्णा कृष्णपत्नीश् च सर्वशः । आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा ॥ 41 ॥

श्लोक 10.71.42

कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् । अन्याश् चाभ्यागता यास् तु वासःस्रङ्मण्डनादिभिः ॥ 42 ॥

श्लोक 10.71.43

सुखं निवासयाम् आस धर्मराजो जनार्दनम् । ससैन्यं सानुगामत्यं सभार्यं च नवं नवम् ॥ 43 ॥

श्लोक 10.71.44

तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः । मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता ॥ 44 ॥

श्लोक 10.71.45

उवास कतिचिन् मासान् राज्ञः प्रियचिकीर्षया । विहरन् रथम् आरुह्य फाल्गुनेन भटैर् वृतः ॥ 45 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ