मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 72

श्रीमद्भागवत दशम स्कन्ध अध्याय 72 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.72.1

एकदा तु सभामध्य आस्थितो मुनिभिर् वृतः । ब्राह्मणैः क्षत्रियैर् वैश्यैर् भ्रातृभिश् च युधिष्ठिरः ॥ 1 ॥

श्लोक 10.72.2

आचार्यैः कुलवृद्धैश् च ज्ञातिसम्बन्धिबान्धवैः । शृण्वताम् एव चैतेषाम् आभाष्येदम् उवाच ह ॥ 2 ॥

श्लोक 10.72.3

क्रतुराजेन गोविन्द राजसूयेन पावनीः । यक्ष्ये विभूतीर् भवतस् तत् सम्पादय नः प्रभो ॥ 3 ॥

श्लोक 10.72.4

त्वत्पादुके अविरतं परि ये चरन्ति ध्यायन्त्य् अभद्रनशने शुचयो गृणन्ति &अम्प्; विन्दन्ति ते कमलनाभ भवापवर्गम् आशासते यदि त आशिष ईश नान्ये ॥ 4 ॥

श्लोक 10.72.5

तद् देवदेव भवतश् चरणारविन्दसेवानुभावम् इह पश्यतु लोक एषः । ये त्वां भजन्ति न भजन्त्य् उत वोभयेषां निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम् ॥ 5 ॥

श्लोक 10.72.6

न ब्रह्मणः स्वपरभेदमतिस् तव स्यात् सर्वात्मनः समदृशः स्वसुखानुभूतेः । संसेवतां सुरतरोर् इव ते प्रसादः सेवानुरूपम् उदयो न विपर्ययो ऽत्र ॥ 6 ॥

श्लोक 10.72.7

सम्यग् व्यवसितं राजन् भवता शत्रुकर्शन । कल्याणी येन ते कीर्तिर् लोकान् अनुभविष्यति ॥ 7 ॥

श्लोक 10.72.8

ऋषीणां पितृदेवानां सुहृदाम् अपि नः प्रभो । सर्वेषाम् अपि भूतानाम् ईप्सितः क्रतुराड् अयम् ॥ 8 ॥

श्लोक 10.72.9

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे । सम्भृत्य सर्वसम्भारान् आहरस्व महाक्रतुम् ॥ 9 ॥

श्लोक 10.72.10

एते ते भ्रातरो राजंल् लोकपालांशसम्भवाः । जितो ऽस्म्य् आत्मवता ते ऽहं दुर्जयो यो ऽकृतात्मभिः ॥ 10 ॥

श्लोक 10.72.11

न कश्चिन् मत्परं लोके तेजसा यशसा श्रिया । विभूतिभिर् वाभिभवेद् देवो ऽपि किम् उ पार्थिवः ॥ 11 ॥

श्लोक 10.72.12

निशम्य भगवद्गीतं प्रीतः फुल्लमुखाम्बुजः । भ्रातॄन् दिग्विजये ऽयुङ्क्त विष्णुतेजोपबृंहितान् ॥ 12 ॥

श्लोक 10.72.13

सहदेवं दक्षिणस्याम् आदिशत् सह सृञ्जयैः । दिशि प्रतीच्यां नकुलम् उदीच्यां सव्यसाचिनम् । प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः ॥ 13 ॥

श्लोक 10.72.14

ते विजित्य नृपान् वीरा आजह्रुर् दिग्भ्य ओजसा । अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते ॥ 14 ॥

श्लोक 10.72.15

श्रुत्वाजितं जरासन्धं नृपतेर् ध्यायतो हरिः । आहोपायं तम् एवाद्य उद्धवो यम् उवाच ह ॥ 15 ॥

श्लोक 10.72.16

भीमसेनो ऽर्जुनः कृष्णो ब्रह्मलिन्गधरास् त्रयः । जग्मुर् गिरिव्रजं तात बृहद्रथसुतो यतः ॥ 16 ॥

श्लोक 10.72.17

ते गत्वातिथ्यवेलायां गृहेषु गृहमेधिनम् । ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्गिनः ॥ 17 ॥

श्लोक 10.72.18

राजन् विद्ध्य् अतिथीन् प्राप्तान् अर्थिनो दूरम् आगतान् । तन् नः प्रयच्छ भद्रं ते यद् वयं कामयामहे ॥ 18 ॥

श्लोक 10.72.19

किं दुर्मर्षं तितिक्षूणां किम् अकार्यम् असाधुभिः । किं न देयं वदान्यानां कः परः समदर्शिनाम् ॥ 19 ॥

श्लोक 10.72.20

यो ऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् । नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः ॥ 20 ॥

श्लोक 10.72.21

हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर् बलिः । व्याधः कपोतो बहवो ह्य् अध्रुवेण ध्रुवं गताः ॥ 21 ॥

श्लोक 10.72.22

स्वरैर् आकृतिभिस् तांस् तु प्रकोष्ठैर् ज्याहतैर् अपि । राजन्यबन्धून् विज्ञाय दृष्टपूर्वान् अचिन्तयत् ॥ 22 ॥

श्लोक 10.72.23

राजन्यबन्धवो ह्य् एते ब्रह्मलिङ्गानि बिभ्रति । ददानि भिक्षितं तेभ्य आत्मानम् अपि दुस्त्यजम् ॥ 23 ॥

श्लोक 10.72.24

बलेर् नु श्रूयते कीर्तिर् वितता दिक्ष्व् अकल्मषा । ऐश्वर्याद् भ्रंशितस्यापि विप्रव्याजेन विष्णुना ॥ 24 ॥

श्लोक 10.72.25

श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे । जानन्न् अपि महीम् प्रादाद् वार्यमाणो ऽपि दैत्यराट् ॥ 25 ॥

श्लोक 10.72.26

जीवता ब्राह्मणार्थाय को न्व् अर्थः क्षत्रबन्धुना । देहेन पतमानेन नेहता विपुलं यशः ॥ 26 ॥

श्लोक 10.72.27

इत्य् उदारमतिः प्राह कृष्णार्जुनवृकोदरान् । हे विप्रा व्रियतां कामो ददाम्य् आत्मशिरो ऽपि वः ॥ 27 ॥

श्लोक 10.72.28

युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे । युद्धार्थिनो वयं प्राप्ता राजन्या नान्यकाङ्क्षिणः ॥ 28 ॥

श्लोक 10.72.29

असौ वृकोदरः पार्थस् तस्य भ्रातार्जुनो ह्य् अयम् । अनयोर् मातुलेयं मां कृष्णं जानीहि ते रिपुम् ॥ 29 ॥

श्लोक 10.72.30

एवम् आवेदितो राजा जहासोच्चैः स्म मागधः । आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः ॥ 30 ॥

श्लोक 10.72.31

न त्वया भीरुणा योत्स्ये युधि विक्लवतेजसा । मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः ॥ 31 ॥

श्लोक 10.72.32

अयं तु वयसातुल्यो नातिसत्त्वो न मे समः । अर्जुनो न भवेद् योद्धा भीमस् तुल्यबलो मम ॥ 32 ॥

श्लोक 10.72.33

इत्य् उक्त्वा भीमसेनाय प्रादाय महतीं गदाम् । द्वितीयां स्वयम् आदाय निर्जगाम पुराद् बहिः ॥ 33 ॥

श्लोक 10.72.34

ततः समेखले वीरौ संयुक्ताव् इतरेतरम् । जघ्नतुर् वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ ॥ 34 ॥

श्लोक 10.72.35

मण्डलानि विचित्राणि सव्यं दक्षिणम् एव च । चरतोः शुशुभे युद्धं नटयोर् इव रङ्गिणोः ॥ 35 ॥

श्लोक 10.72.36

ततश् चटचटाशब्दो वज्रनिष्पेससन्निभः । गदयोः क्षिप्तयो राजन् दन्तयोर् इव दन्तिनोः ॥ 36 ॥

श्लोक 10.72.37

ते वै गदे भुजजवेन निपात्यमाने अन्योन्यतो ऽंसकटिपादकरोरुजत्रुम् &अम्प्; चूर्णीबभूवतुर् उपेत्य यथार्कशाखे संयुध्यतोर् द्विरदयोर् इव दीप्तमन्व्योः ॥ 37 ॥

श्लोक 10.72.38

इत्थं तयोः प्रहतयोर् गदयोर् नृवीरौ क्रुद्धौ स्वमुष्टिभिर् अयःस्परशैर् अपिष्टाम् । शब्दस् तयोः प्रहरतोर् इभयोर् इवासीन् निर्घातवज्रपरुषस् तलताडनोत्थः ॥ 38 ॥

श्लोक 10.72.39

तयोर् एवं प्रहरतोः समशिक्षाबलौजसोः । निर्विशेषम् अभूद् युद्धम् अक्षीणजवयोर् नृप ॥ 39 ॥

श्लोक 10.72.40

शत्रोर् जन्ममृती विद्वाञ् जीवितं च जराकृतम् । पार्थम् आप्याययन् स्वेन तेजसाचिन्तयद् धरिः ॥ 40 ॥

श्लोक 10.72.41

सञ्चिन्त्यारीवधोपायं भीमस्यामोघदर्शनः । दर्शयाम् आस विटपं पाटयन्न् इव संज्ञया ॥ 41 ॥

श्लोक 10.72.42

तद् विज्ञाय महासत्त्वो भीमः प्रहरतां वरः । गृहीत्वा पादयोः शत्रुं पातयाम् आस भूतले ॥ 42 ॥

श्लोक 10.72.43

एकम् पादं पदाक्रम्य दोर्भ्याम् अन्यं प्रगृह्य सः । गुदतः पाटयाम् आस शाखम् इव महागजः ॥ 43 ॥

श्लोक 10.72.44

एकपादोरुवृषणकटिपृष्ठस्तनांसके । एकबाह्व्अक्षिभ्रूकर्णे शकले ददृशुः प्रजाः ॥ 44 ॥

श्लोक 10.72.45

हाहाकारो महान् आसीन् निहते मगधेश्वरे । पूजयाम् आसतुर् भीमं परिरभ्य जयाच्यतौ ॥ 45 ॥

श्लोक 10.72.46

सहदेवं तत्तनयं भगवान् भूतभावनः । अभ्यषिञ्चद् अमेयात्मा मगधानां पतिं प्रभुः । मोचयाम् आस राजन्यान् संरुद्धा मागधेन ये ॥ 46 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ