श्रीमद्भागवत दशम स्कन्ध अध्याय 73
श्रीमद्भागवत दशम स्कन्ध अध्याय 73 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.73.1
अयुते द्वे शतान्य् अष्टौ निरुद्धा युधि निर्जिताः । ते निर्गता गिरिद्रोण्यां मलिना मलवाससः ॥ 1 ॥
श्लोक 10.73.2
क्षुत्क्षामाः शुष्कवदनाः संरोधपरिकर्शिताः । ददृशुस् ते घनश्यामं पीतकौशेयवाससम् ॥ 2 ॥
श्लोक 10.73.3
श्रीवत्साङ्कं चतुर्बाहुं पद्मगर्भारुणेक्षणम् । चारुप्रसन्नवदनं स्फुरन्मकरकुण्डलम् ॥ 3 ॥
श्लोक 10.73.4
पद्महस्तं गदाशङ्ख रथाङ्गैर् उपलक्षितम् । किरीटहारकटककटिसूत्राङ्गदाञ्चितम् ॥ 4 ॥
श्लोक 10.73.5
भ्राजद्वरमणिग्रीवं निवीतं वनमालया । पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ॥ 5 ॥
श्लोक 10.73.6
जिघ्रन्त इव नासाभ्यां रम्भन्त इव बाहुभिः । प्रणेमुर् हतपाप्मानो मूर्धभिः पादयोर् हरेः ॥ 6 ॥
श्लोक 10.73.7
कृष्णसन्दर्शनाह्लाद ध्वस्तसंरोधनक्लमाः । प्रशशंसुर् हृषीकेशं गीर्भिः प्राञ्जलयो नृपाः ॥ 7 ॥
श्लोक 10.73.8
नमस् ते देवदेवेश प्रपन्नार्तिहराव्यय । प्रपन्नान् पाहि नः कृष्ण निर्विण्णान् घोरसंसृतेः ॥ 8 ॥
श्लोक 10.73.9
नैनं नाथानुसूयामो मागधं मधुसूदन । अनुग्रहो यद् भवतो राज्ञां राज्यच्युतिर् विभो ॥ 9 ॥
श्लोक 10.73.10
राज्यैश्वर्यमदोन्नद्धो न श्रेयो विन्दते नृपः । त्वन्मायामोहितो ऽनित्या मन्यते सम्पदो ऽचलाः ॥ 10 ॥
श्लोक 10.73.11
मृगतृष्णां यथा बाला मन्यन्त उदकाशयम् । एवं वैकारिकीं मायाम् अयुक्ता वस्तु चक्षते ॥ 11 ॥
श्लोक 10.73.12
वयं पुरा श्रीमदनष्टदृष्टयो जिगीषयास्या इतरेतरस्पृधः । घ्नन्तः प्रजाः स्वा अतिनिर्घृणाः प्रभो मृत्युं पुरस् त्वाविगणय्य दुर्मदाः ॥ 12 ॥
श्लोक 10.73.13
त एव कृष्णाद्य गभीररंहसा दुरन्तेवीर्येण विचालिताः श्रियः । कालेन तन्वा भवतो ऽनुकम्पया विनष्टदर्पाश् चरणौ स्मराम ते ॥ 13 ॥
श्लोक 10.73.14
अथो न राज्यम् मृगतृष्णिरूपितं देहेन शश्वत् पतता रुजां भुवा । उपासितव्यं स्पृहयामहे विभो क्रियाफलं प्रेत्य च कर्णरोचनम् ॥ 14 ॥
श्लोक 10.73.15
तं नः समादिशोपायं येन ते चरणाब्जयोः । स्मृतिर् यथा न विरमेद् अपि संसरताम् इह ॥ 15 ॥
श्लोक 10.73.16
कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ 16 ॥
श्लोक 10.73.17
संस्तूयमानो भगवान् राजभिर् मुक्तबन्धनैः । तान् आह करुणस् तात शरण्यः श्लक्ष्णया गिरा ॥ 17 ॥
श्लोक 10.73.18
अद्य प्रभृति वो भूपा मय्य् आत्मन्य् अखिलेश्वरे । सुदृढा जायते भक्तिर् बाढम् आशंसितं तथा ॥ 18 ॥
श्लोक 10.73.19
दिष्ट्या व्यवसितं भूपा भवन्त ऋतभाषिणः । श्रीय्ऐश्वर्यमदोन्नाहं पश्य उन्मादकं नृणाम् ॥ 19 ॥
श्लोक 10.73.20
हैहयो नहुषो वेणो रावणो नरको ऽपरे । श्रीमदाद् भ्रंशिताः स्थानाद् देवदैत्यनरेश्वराः ॥ 20 ॥
श्लोक 10.73.21
भवन्त एतद् विज्ञाय देहाद्य् उत्पाद्यम् अन्तवत् । मां यजन्तो ऽध्वरैर् युक्ताः प्रजा धर्मेण रक्ष्यथ ॥ 21 ॥
श्लोक 10.73.22
सन्तन्वन्तः प्रजातन्तून् सुखं दुःखं भवाभवौ । प्राप्तं प्राप्तं च सेवन्तो मच्चित्ता विचरिष्यथ ॥ 22 ॥
श्लोक 10.73.23
उदासीनाश् च देहादाव् आत्मारामा धृतव्रताः । मय्य् आवेश्य मनः सम्यङ् माम् अन्ते ब्रह्म यास्यथ ॥ 23 ॥
श्लोक 10.73.24
इत्य् आदिश्य नृपान् कृष्णो भगवान् भुवनेश्वरः । तेषां न्ययुङ्क्त पुरुषान् स्त्रियो मज्जनकर्मणि ॥ 24 ॥
श्लोक 10.73.25
सपर्यां कारयाम् आस सहदेवेन भारत । नरदेवोचितैर् वस्त्रैर् भूषणैः स्रग्विलेपनैः ॥ 25 ॥
श्लोक 10.73.26
भोजयित्वा वरान्नेन सुस्नातान् समलङ्कृतान् । भोगैश् च विविधैर् युक्तांस् ताम्बूलाद्यैर् नृपोचितैः ॥ 26 ॥
श्लोक 10.73.27
ते पूजिता मुकुन्देन राजानो मृष्टकुण्डलाः । विरेजुर् मोचिताः क्लेशात् प्रावृड्अन्ते यथा ग्रहाः ॥ 27 ॥
श्लोक 10.73.28
रथान् सद्अश्वान् आरोप्य मणिकाञ्चनभूषितान् । प्रीणय्य सुनृतैर् वाक्यैः स्वदेशान् प्रत्ययापयत् ॥ 28 ॥
श्लोक 10.73.29
त एवं मोचिताः कृच्छ्रात् कृष्णेन सुमहात्मना । ययुस् तम् एव ध्यायन्तः कृतानि च जगत्पतेः ॥ 29 ॥
श्लोक 10.73.30
जगदुः प्रकृतिभ्यस् ते महापुरुषचेष्टितम् । यथान्वशासद् भगवांस् तथा चक्रुर् अतन्द्रिताः ॥ 30 ॥
श्लोक 10.73.31
जरासन्धं घातयित्वा भीमसेनेन केशवः । पार्थाभ्यां संयुतः प्रायात् सहदेवेन पूजितः ॥ 31 ॥
श्लोक 10.73.32
गत्वा ते खाण्डवप्रस्थं शङ्खान् दध्मुर् जितारयः । हर्षयन्तः स्वसुहृदो दुर्हृदां चासुखावहाः ॥ 32 ॥
श्लोक 10.73.33
तच् छ्रुत्वा प्रीतमनस इन्द्रप्रस्थनिवासिनः । मेनिरे मागधं शान्तं राजा चाप्तमनोरथः ॥ 33 ॥
श्लोक 10.73.34
अभिवन्द्याथ राजानं भीमार्जुनजनार्दनाः । सर्वम् आश्रावयां चक्रुर् आत्मना यद् अनुष्ठितम् ॥ 34 ॥
श्लोक 10.73.35
निशम्य धर्मराजस् तत् केशवेनानुकम्पितम् । आनन्दाश्रुकलां मुञ्चन् प्रेम्णा नोवाच किञ्चन ॥ 35 ॥