मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 74

श्रीमद्भागवत दशम स्कन्ध अध्याय 74 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.74.1

एवं युधिष्ठिरो राजा जरासन्धवधं विभोः । कृष्णस्य चानुभावं तं श्रुत्वा प्रीतस् तम् अब्रवीत् ॥ 1 ॥

श्लोक 10.74.2

ये स्युस् त्रैलोक्यगुरवः सर्वे लोका महेश्वराः । वहन्ति दुर्लभं लब्द्वा शिरसैवानुशासनम् ॥ 2 ॥

श्लोक 10.74.3

स भवान् अरविन्दाक्षो दीनानाम् ईशमानिनाम् । धत्ते ऽनुशासनं भूमंस् तद् अत्यन्तविडम्बनम् ॥ 3 ॥

श्लोक 10.74.4

न ह्य् एकस्याद्वितीयस्य ब्रह्मणः परमात्मनः । कर्मभिर् वर्धते तेजो ह्रसते च यथा रवेः ॥ 4 ॥

श्लोक 10.74.5

न वै ते ऽजित भक्तानां ममाहम् इति माधव । त्वं तवेति च नानाधीः पशूनाम् इव वैकृती ॥ 5 ॥

श्लोक 10.74.6

इत्य् उक्त्वा यज्ञिये काले वव्रे युक्तान् स ऋत्विजः । कृष्णानुमोदितः पार्थो ब्राह्मणान् ब्रह्मवादिनः ॥ 6 ॥

श्लोक 10.74.7

द्वैपायनो भरद्वाजः सुमन्तुर् गोतमो ऽसितः । वसिष्ठश् च्यवनः कण्वो मैत्रेयः कवषस् त्रितः ॥ 7 ॥

श्लोक 10.74.8

विश्वामित्रो वामदेवः सुमतिर् जैमिनिः क्रतुः । पैलः पराशरो गर्गो वैशम्पायन एव च ॥ 8 ॥

श्लोक 10.74.9

अथर्वा कश्यपो धौम्यो रामो भार्गव आसुरिः । वीतिहोत्रो मधुच्छन्दा वीरसेनो ऽकृतव्रणः ॥ 9 ॥

श्लोक 10.74.10

उपहूतास् तथा चान्ये द्रोणभीष्मकृपादयः । धृतराष्ट्रः सहसुतो विदुरश् च महामतिः ॥ 10 ॥

श्लोक 10.74.11

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा यज्ञदिदृक्षवः । तत्रेयुः सर्वराजानो राज्ञां प्रकृतयो नृप ॥ 11 ॥

श्लोक 10.74.12

ततस् ते देवयजनं ब्राह्मणाः स्वर्णलाङ्गलैः । कृष्ट्वा तत्र यथाम्नायं दीक्षयां चक्रिरे नृपम् ॥ 12 ॥

श्लोक 10.74.13

हैमाः किलोपकरणा वरुणस्य यथा पुरा । इन्द्रादयो लोकपाला विरिञ्चिभवसंयुताः ॥ 13 ॥

श्लोक 10.74.14

सगणाः सिद्धगन्धर्वा विद्याधरमहोरगाः । मुनयो यक्षरक्षांसि खगकिन्नरचारणाः ॥ 14 ॥

श्लोक 10.74.15

राजानश् च समाहूता राजपत्न्यश् च सर्वशः । राजसूयं समीयुः स्म राज्ञः पाण्डुसुतस्य वै । मेनिरे कृष्णभक्तस्य सूपपन्नम् अविस्मिताः ॥ 15 ॥

श्लोक 10.74.16

अयाजयन् महाराजं याजका देववर्चसः । राजसूयेन विधिवत् प्रचेतसम् इवामराः ॥ 16 ॥

श्लोक 10.74.17

सूत्ये ऽहन्य् अवनीपालो याजकान् सदसस्पतीन् । अपूजयन् महाभागान् यथावत् सुसमाहितः ॥ 17 ॥

श्लोक 10.74.18

सदस्याग्र्यार्हणार्हं वै विमृशन्तः सभासदः । नाध्यगच्छन्न् अनैकान्त्यात् सहदेवस् तदाब्रवीत् ॥ 18 ॥

श्लोक 10.74.19

अर्हति ह्य् अच्युतः श्रैष्ठ्यं भगवान् सात्वतां पतिः । एष वै देवताः सर्वा देशकालधनादयः ॥ 19 ॥

श्लोक 10.74.20

यद्आत्मकम् इदं विश्वं क्रतवश् च यद्आत्मकाः । अग्निर् आहुतयो मन्त्रा साङ्ख्यं योगश् च यत्परः ॥ 20 ॥

श्लोक 10.74.21

एक एवाद्वितीयो ऽसाव् ऐतद्आत्म्यम् इदं जगत् । आत्मनात्माश्रयः सभ्याः सृजत्य् अवति हन्त्य् अजः ॥ 21 ॥

श्लोक 10.74.22

विविधानीह कर्माणि जनयन् यद्अवेक्षया । ईहते यद् अयं सर्वः श्रेयो धर्मादिलक्षणम् ॥ 22 ॥

श्लोक 10.74.23

तस्मात् कृष्णाय महते दीयतां परमार्हणम् । एवं चेत् सर्वभूतानाम् आत्मनश् चार्हणं भवेत् ॥ 23 ॥

श्लोक 10.74.24

सर्वभूतात्मभूताय कृष्णायानन्यदर्शिने । देयं शान्ताय पूर्णाय दत्तस्यानन्त्यम् इच्छता ॥ 24 ॥

श्लोक 10.74.25

इत्य् उक्त्वा सहदेवो ऽभूत् तूष्णीं कृष्णानुभाववित् । तच् छ्रुत्वा तुष्टुवुः सर्वे साधु साध्व् इति सत्तमाः ॥ 25 ॥

श्लोक 10.74.26

श्रुत्वा द्विजेरितं राजा ज्ञात्वा हार्दं सभासदाम् । समर्हयद् धृषीकेशं प्रीतः प्रणयविह्वलः ॥ 26 ॥

श्लोक 10.74.27

तत्पादाव् अवनिज्यापः शिरसा लोकपावनीः । सभार्यः सानुजामात्यः सकुटुम्बो वहन् मुदा ॥ 27 ॥

श्लोक 10.74.28

वासोभिः पीतकौषेयैर् भूषणैश् च महाधनैः । अर्हयित्वाश्रुपूर्णाक्षो नाशकत् समवेक्षितुम् ॥ 28 ॥

श्लोक 10.74.29

इत्थं सभाजितं वीक्ष्य सर्वे प्राञ्जलयो जनाः । नमो जयेति नेमुस् तं निपेतुः पुष्पवृष्टयः ॥ 29 ॥

श्लोक 10.74.30

इत्थं निशम्य दमघोषसुतः स्वपीठाद् उत्थाय कृष्णगुणवर्णनजातमन्युः &अम्प्; उत्क्षिप्य बाहुम् इदम् आह सदस्य् अमर्षी संश्रावयन् भगवते परुषाण्य् अभीतः ॥ 30 ॥

श्लोक 10.74.31

ईशो दुरत्ययः काल इति सत्यवती स्रुतिः । वृद्धानाम् अपि यद् बुद्धिर् बालवाक्यैर् विभिद्यते ॥ 31 ॥

श्लोक 10.74.32

यूयं पात्रविदां श्रेष्ठा मा मन्ध्वं बालभाषीतम् । सदसस्पतयः सर्वे कृष्णो यत् सम्मतो ऽर्हणे ॥ 32 ॥

श्लोक 10.74.33

तपोविद्याव्रतधरान् ज्ञानविध्वस्तकल्मषान् । परमऋषीन् ब्रह्मनिष्ठांल् लोकपालैश् च पूजितान् ॥ 33 ॥

श्लोक 10.74.34

सदस्पतीन् अतिक्रम्य गोपालः कुलपांसनः । यथा काकः पुरोडाशं सपर्यां कथम् अर्हति ॥ 34 ॥

श्लोक 10.74.35

वर्णाश्रमकुलापेतः सर्वधर्मबहिष्कृतः । स्वैरवर्ती गुणैर् हीनः सपर्यां कथम् अर्हति ॥ 35 ॥

श्लोक 10.74.36

ययातिनैषां हि कुलं शप्तं सद्भिर् बहिष्कृतम् । वृथापानरतं शश्वत् सपर्यां कथम् अर्हति ॥ 36 ॥

श्लोक 10.74.37

ब्रह्मर्षिसेवितान् देशान् हित्वैते ऽब्रह्मवर्चसम् । समुद्रं दुर्गम् आश्रित्य बाधन्ते दस्यवः प्रजाः ॥ 37 ॥

श्लोक 10.74.38

एवम्आदीन्य् अभद्राणि बभाषे नष्टमङ्गलः । नोवाच किञ्चिद् भगवान् यथा सिंहः शिवारुतम् ॥ 38 ॥

श्लोक 10.74.39

भगवन्निन्दनं श्रुत्वा दुःसहं तत् सभासदः । कर्णौ पिधाय निर्जग्मुः शपन्तश् चेदिपं रुषा ॥ 39 ॥

श्लोक 10.74.40

निन्दां भगवतः शृण्वंस् तत्परस्य जनस्य वा । ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः ॥ 40 ॥

श्लोक 10.74.41

ततः पाण्डुसुताः क्रुद्धा मत्स्यकैकयसृञ्जयाः । उदायुधाः समुत्तस्थुः शिशुपालजिघांसवः ॥ 41 ॥

श्लोक 10.74.42

ततश् चैद्यस् त्व् असम्भ्रान्तो जगृहे खड्गचर्मणी । भर्त्सयन् कृष्णपक्षीयान् राज्ञः सदसि भारत ॥ 42 ॥

श्लोक 10.74.43

तावद् उत्थाय भगवान् स्वान् निवार्य स्वयं रुषा । शिरः क्षुरान्तचक्रेण जहार पततो रिपोः ॥ 43 ॥

श्लोक 10.74.44

शब्दः कोलाहलो ऽथासीच् छिशुपाले हते महान् । तस्यानुयायिनो भूपा दुद्रुवुर् जीवितैषिणः ॥ 44 ॥

श्लोक 10.74.45

चैद्यदेहोत्थितं ज्योतिर् वासुदेवम् उपाविशत् । पश्यतां सर्वभूतानाम् उल्केव भुवि खाच् च्युता ॥ 45 ॥

श्लोक 10.74.46

जन्मत्रयानुगुणितवैरसंरब्धया धिया । ध्यायंस् तन्मयतां यातो भावो हि भवकारणम् ॥ 46 ॥

श्लोक 10.74.47

ऋत्विग्भ्यः ससदस्येभ्यो दक्षिनां विपुलाम् अदात् । सर्वान् सम्पूज्य विधिवच् चक्रे ऽवभृथम् एकराट् ॥ 47 ॥

श्लोक 10.74.48

साधयित्वा क्रतुः राज्ञः कृष्णो योगेश्वरेश्वरः । उवास कतिचिन् मासान् सुहृद्भिर् अभियाचितः ॥ 48 ॥

श्लोक 10.74.49

ततो ऽनुज्ञाप्य राजानम् अनिच्छन्तम् अपीश्वरः । ययौ सभार्यः सामात्यः स्वपुरं देवकीसुतः ॥ 49 ॥

श्लोक 10.74.50

वर्णितं तद् उपाख्यानं मया ते बहुविस्तरम् । वैकुण्ठवासिनोर् जन्म विप्रशापात् पुनः पुनः ॥ 50 ॥

श्लोक 10.74.51

राजसूयावभृथ्येन स्नातो राजा युधिष्ठिरः । ब्रह्मक्षत्रसभामध्ये शुशुभे सुरराड् इव ॥ 51 ॥

श्लोक 10.74.52

राज्ञा सभाजिताः सर्वे सुरमानवखेचराः । कृष्णं क्रतुं च शंसन्तः स्वधामानि ययुर् मुदा ॥ 52 ॥

श्लोक 10.74.53

दुर्योधनम् ऋते पापं कलिं कुरुकुलामयम् । यो न सेहे श्रीयं स्फीतां दृष्ट्वा पाण्डुसुतस्य ताम् ॥ 53 ॥

श्लोक 10.74.54

य इदं कीर्तयेद् विष्णोः कर्म चैद्यवधादिकम् । राजमोक्षं वितानं च सर्वपापैः प्रमुच्यते ॥ 54 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ