मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 75

श्रीमद्भागवत दशम स्कन्ध अध्याय 75 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.75.1

अजातशत्रोस् तम् दृष्ट्वा राजसूयमहोदयम् । सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागताः ॥ 1 ॥

श्लोक 10.75.2

दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः । इति श्रुतं नो भगवंस् तत्र कारणम् उच्यताम् ॥ 2 ॥

श्लोक 10.75.3

पितामहस्य ते यज्ञे राजसूये महात्मनः । बान्धवाः परिचर्यायां तस्यासन् प्रेमबन्धनाः ॥ 3 ॥

श्लोक 10.75.4

भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः । सहदेवस् तु पूजायां नकुलो द्रव्यसाधने ॥ 4 ॥

श्लोक 10.75.5

गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने । परिवेषणे द्रुपदजा कर्णो दाने महामनाः ॥ 5 ॥

श्लोक 10.75.6

युयुधानो विकर्णश् च हार्दिक्यो विदुरादयः । बाह्लीकपुत्रा भूर्य्आद्या ये च सन्तर्दनादयः ॥ 6 ॥

श्लोक 10.75.7

निरूपिता महायज्ञे नानाकर्मसु ते तदा । प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः ॥ 7 ॥

श्लोक 10.75.8

ऋत्विक्सदस्यबहुवित्सु सुहृत्तमेषु स्व्इष्टेषु सूनृतसमर्हणदक्षिणाभिः &अम्प्; चैद्ये च सात्वतपतेश् चरणं प्रविष्टे चक्रुस् ततस् त्व् अवभृथस्नपनं द्युनद्याम् ॥ 8 ॥

श्लोक 10.75.9

मृदङ्गशङ्खपणवधुन्धुर्य्आनकगोमुखाः । वादित्राणि विचित्राणि नेदुर् आवभृथोत्सवे ॥ 9 ॥

श्लोक 10.75.10

नार्तक्यो ननृतुर् हृष्टा गायका यूथशो जगुः । वीणावेणुतलोन्नादस् तेषां स दिवम् अस्पृशत् ॥ 10 ॥

श्लोक 10.75.11

चित्रध्वजपताकाग्रैर् इभेन्द्रस्यन्दनार्वभिः । स्व्अलङ्कृतैर् भटैर् भूपा निर्ययू रुक्ममालिनः ॥ 11 ॥

श्लोक 10.75.12

यदुसृञ्जयकाम्बोजकुरुकेकयकोशलाः । कम्पयन्तो भुवं सैन्यैर् ययमानपुरःसराः ॥ 12 ॥

श्लोक 10.75.13

सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा । देवर्षिपितृगन्धर्वास् तुष्टुवुः पुष्पवर्षिणः ॥ 13 ॥

श्लोक 10.75.14

स्व्अलण्कृता नरा नार्यो गन्धस्रग्भूषणाम्बरैः । विलिम्पन्त्यो ऽभिसिञ्चन्त्यो विजह्रुर् विविधै रसैः ॥ 14 ॥

श्लोक 10.75.15

तैलगोरसगन्धोदहरिद्रासान्द्रकुङ्कुमैः । पुम्भिर् लिप्ताः प्रलिम्पन्त्यो विजह्रुर् वारयोषितः ॥ 15 ॥

श्लोक 10.75.16

गुप्ता नृभिर् निरगमन्न् उपलब्धुम् एतद् देव्यो यथा दिवि विमानवरैर् नृदेव्यो &अम्प्; ता मातुलेयसखिभिः परिषिच्यमानाः सव्रीडहासविकसद्वदना विरेजुः ॥ 16 ॥

श्लोक 10.75.17

ता देवरान् उत सखीन् सिषिचुर् दृतीभिः क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः । औत्सुक्यमुक्तकवराच् च्यवमानमाल्याः क्षोभं दधुर् मलधियां रुचिरैर् विहारैः ॥ 17 ॥

श्लोक 10.75.18

स सम्राड् रथम् आरुढः सद्अश्वं रुक्ममालिनम् । व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराड् इव ॥ 18 ॥

श्लोक 10.75.19

पत्नीसम्याजावभृथ्यैश् चरित्वा ते तम् ऋत्विजः । आचान्तं स्नापयां चक्रुर् गङ्गायां सह कृष्णया ॥ 19 ॥

श्लोक 10.75.20

देवदुन्दुभयो नेदुर् नरदुन्दुभिभिः समम् । मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः ॥ 20 ॥

श्लोक 10.75.21

सस्नुस् तत्र ततः सर्वे वर्णाश्रमयुता नराः । महापातक्य् अपि यतः सद्यो मुच्येत किल्बिषात् ॥ 21 ॥

श्लोक 10.75.22

अथ राजाहते क्षौमे परिधाय स्व्अलङ्कृतः । ऋत्विक्सदस्यविप्रादीन् आनर्चाभरणाम्बरैः ॥ 22 ॥

श्लोक 10.75.23

बन्धूञ् ज्ञातीन् नृपान् मित्रसुहृदो ऽन्यांश् च सर्वशः । अभीक्ष्नं पूजयाम् आस नारायणपरो नृपः ॥ 23 ॥

श्लोक 10.75.24

सर्वे जनाः सुररुचो मणिकुण्डलस्रग्उष्णीषकञ्चुकदुकूलमहार्घ्यहाराः &अम्प्; नार्यश् च कुण्डलयुगालकवृन्दजुष्टवक्त्रश्रियः कनकमेखलया विरेजुः ॥ 24 ॥

श्लोक 10.75.25

अथर्त्विजो महाशीलाः सदस्या ब्रह्मवादिनः । ब्रह्मक्षत्रियविट्शुद्राराजानो ये समागताः ॥ 25 ॥

श्लोक 10.75.26

देवर्षिपितृभूतानि लोकपालाः सहानुगाः । पूजितास् तम् अनुज्ञाप्य स्वधामानि ययुर् नृप ॥ 26 ॥

श्लोक 10.75.27

हरिदासस्य राजर्षे राजसूयमहोदयम् । नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्यो ऽमृतं यथा ॥ 27 ॥

श्लोक 10.75.28

ततो युधिष्ठिरो राजा सुहृत्सम्बन्धिबान्धवान् । प्रेम्णा निवारयाम् आस कृष्णं च त्यागकातरः ॥ 28 ॥

श्लोक 10.75.29

भगवान् अपि तत्राङ्ग न्यावात्सीत् तत्प्रियंकरः । प्रस्थाप्य यदुवीरांश् च साम्बादींश् च कुशस्थलीम् ॥ 29 ॥

श्लोक 10.75.30

इत्थं राजा धर्मसुतो मनोरथमहार्णवम् । सुदुस्तरं समुत्तीर्य कृष्णेनासीद् गतज्वरः ॥ 30 ॥

श्लोक 10.75.31

एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम् । अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः ॥ 31 ॥

श्लोक 10.75.32

यस्मिंस् नरेन्द्रदितिजेन्द्रसुरेन्द्रलक्ष्मीर् नाना विभान्ति किल विश्वसृजोपकॢप्ताः &अम्प्; ताभिः पतीन् द्रुपदराजसुतोपतस्थे यस्यां विषक्तहृदयः कुरुराड् अतप्यत् ॥ 32 ॥

श्लोक 10.75.33

यस्मिन् तदा मधुपतेर् महिषीसहस्रं श्रोणीभरेण शनकैः क्वणद्अङ्घ्रिशोभम् । मध्ये सुचारु कुचकुङ्कुमशोणहारं श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम् ॥ 33 ॥

श्लोक 10.75.34

सभायां मयकॢप्तायां क्वापि धर्मसुतो ऽधिराट् । वृतो ऽनुगैर् बन्धुभिश् च कृष्णेनापि स्वचक्षुषा ॥ 34 ॥

श्लोक 10.75.35

आसीनः काञ्चने साक्षाद् आसने मघवान् इव । पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश् च वन्दिभिः ॥ 35 ॥

श्लोक 10.75.36

तत्र दुर्योधनो मानी परीतो भ्रातृभिर् नृप । किरीटमाली न्यविशद् असिहस्तः क्षिपन् रुषा ॥ 36 ॥

श्लोक 10.75.37

स्थले ऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थले ऽपतत् । जले च स्थलवद् भ्रान्त्या मयमायाविमोहितः ॥ 37 ॥

श्लोक 10.75.38

जहास भीमस् तं दृष्ट्वा स्त्रियो नृपतयो परे । निवार्यमाणा अप्य् अङ्ग राज्ञा कृष्णानुमोदिताः ॥ 38 ॥

श्लोक 10.75.39

स व्रीडितो ऽवग्वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् । हाहेति शब्दः सुमहान् अभूत् सताम् अजातशत्रुर् विमना इवाभवत् । बभूव तूष्णीं भगवान् भुवो भरं समुज्जिहीर्षुर् भ्रमति स्म यद्दृशा ॥ 39 ॥

श्लोक 10.75.40

एतत् ते ऽभिहितं राजन् यत् पृष्टो ऽहम् इह त्वया । सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ ॥ 40 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ