श्रीमद्भागवत दशम स्कन्ध अध्याय 76
श्रीमद्भागवत दशम स्कन्ध अध्याय 76 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्लोक 10.76.1
अथान्यद् अपि कृष्णस्य शृणु कर्माद्भुतं नृप । क्रीडानरशरीरस्य यथा सौभपतिर् हतः ॥ 1 ॥
श्लोक 10.76.2
शिशुपालसखः शाल्वो रुक्मिण्य्उद्वाह आगतः । यदुभिर् निर्जितः सङ्ख्ये जरासन्धादयस् तथा ॥ 2 ॥
श्लोक 10.76.3
शाल्वः प्रतिज्ञाम् अकरोच् छृण्वतां सर्वभूभुजाम् । अयादवां क्ष्मां करिष्ये पौरुषं मम पश्यत ॥ 3 ॥
श्लोक 10.76.4
इति मूढः प्रतिज्ञाय देवं पशुपतिं प्रभुम् । आराधयाम् आस नृपः पांशुमुष्टिं सकृद् ग्रसन् ॥ 4 ॥
श्लोक 10.76.5
संवत्सरान्ते भगवान् आशुतोष उमापतिः । वरेण च्छन्दयाम् आस शाल्वं शरणम् आगतम् ॥ 5 ॥
श्लोक 10.76.6
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् । अभेद्यं कामगं वव्रे स यानं वृष्णिभीषणम् ॥ 6 ॥
श्लोक 10.76.7
तथेति गिरिशादिष्टो मयः परपुरंजयः । पुरं निर्माय शाल्वाय प्रादात् सौभम् अयस्मयम् ॥ 7 ॥
श्लोक 10.76.8
स लब्ध्वा कामगं यानं तमोधाम दुरासदम् । ययस् द्वारवतीं शाल्वो वैरं वृष्णिकृतं स्मरन् ॥ 8 ॥
श्लोक 10.76.9
निरुध्य सेनया शाल्वो महत्या भरतर्षभ । पुरीं बभञ्जोपवनान् उद्यानानि च सर्वशः ॥ 9 ॥
श्लोक 10.76.10
सगोपुराणि द्वाराणि प्रासादाट्टालतोलिकाः । विहारान् स विमानाग्र्यान् निपेतुः शस्त्रवृष्टयः ॥ 10 ॥
श्लोक 10.76.11
शिलाद्रुमाश् चाशनयः सर्पा आसारशर्कराः । प्रचण्डश् चक्रवातो ऽभूद् रजसाच्छादिता दिशः ॥ 11 ॥
श्लोक 10.76.12
इत्य् अर्द्यमाना सौभेन कृष्णस्य नगरी भृशम् । नाभ्यपद्यत शं राजंस् त्रिपुरेण यथा मही ॥ 12 ॥
श्लोक 10.76.13
प्रद्युम्नो भगवान् वीक्ष्य बाध्यमाना निजाः प्रजाः । म भैष्टेत्य् अभ्यधाद् वीरो रथारूढो महायशाः ॥ 13 ॥
श्लोक 10.76.14
सात्यकिश् चारुदेष्णश् च साम्बो ऽक्रूरः सहानुजः । हार्दिक्यो भानुविन्दश् च गदश् च शुकसारणौ ॥ 14 ॥
श्लोक 10.76.15
अपरे च महेष्व्आसा रथयूथपयूथपाः । निर्ययुर् दंशिता गुप्ता रथेभाश्वपदातिभिः ॥ 15 ॥
श्लोक 10.76.16
ततः प्रववृते युद्धं शाल्वानां यदुभिः सह । यथासुराणां विबुधैस् तुमुलं लोमहर्षणम् ॥ 16 ॥
श्लोक 10.76.17
ताश् च सौभपतेर् माया दिव्यास्त्रै रुक्मिणीसुतः । क्षणेन नाशयाम् आस नैशं तम इवोष्णगुः ॥ 17 ॥
श्लोक 10.76.18
विव्याध पञ्चविंशत्या स्वर्णपुङ्खैर् अयोमुखैः । शाल्वस्य ध्वजिनीपालं शरैः सन्नतपर्वभिः ॥ 18 ॥
श्लोक 10.76.19
शतेनाताडयच् छाल्वम् एकैकेनास्य सैनिकान् । दशभिर् दशभिर् नेतॄन् वाहनानि त्रिभिस् त्रिभिः ॥ 19 ॥
श्लोक 10.76.20
तद् अद्भुतं महत् कर्म प्रद्युम्नस्य महात्मनः । दृष्ट्वा तं पूजयाम् आसुः सर्वे स्वपरसैनिकाः ॥ 20 ॥
श्लोक 10.76.21
बहुरूपैकरूपं तद् दृश्यते न च दृश्यते । मायामयं मयकृतं दुर्विभाव्यं परैर् अभूत् ॥ 21 ॥
श्लोक 10.76.22
क्वचिद् भूमौ क्वचिद् व्योम्नि गिरिमूर्ध्नि जले क्वचित् । अलातचक्रवद् भ्राम्यत् सौभं तद् दुरवस्थितम् ॥ 22 ॥
श्लोक 10.76.23
यत्र यत्रोपलक्ष्येत ससौभः सहसैनिकः । शाल्वस् ततस् ततो ऽमुञ्चञ् छरान् सात्वतयूथपाः ॥ 23 ॥
श्लोक 10.76.24
शरैर् अग्न्य्अर्कसंस्पर्शैर् आशीविषदुरासदैः । पीड्यमानपुरानीकः शाल्वो ऽमुह्यत् परेरितैः ॥ 24 ॥
श्लोक 10.76.25
शाल्वानीकपशस्त्रौघैर् वृष्णिवीरा भृशार्दिताः । न तत्यजू रणं स्वं स्वं लोकद्वयजिगीषवः ॥ 25 ॥
श्लोक 10.76.26
शाल्वामात्यो द्युमान् नाम प्रद्युम्नं प्रक् प्रपीडितः । आसाद्य गदया मौर्व्या व्याहत्य व्यनदद् बली ॥ 26 ॥
श्लोक 10.76.27
प्रद्युम्नं गदया सीर्णवक्षःस्थलम् अरिंदमम् । अपोवाह रणात् सूतो धर्मविद् दारुकात्मजः ॥ 27 ॥
श्लोक 10.76.28
लब्धसम्ज्ञो मुहूर्तेन कार्ष्णिः सारथिम् अब्रवीत् । अहो असाध्व् इदं सूत यद् रणान् मे ऽपसर्पणम् ॥ 28 ॥
श्लोक 10.76.29
न यदूनां कुले जातः श्रूयते रणविच्युतः । विना मत् क्लीबचित्तेन सूतेन प्राप्तकिल्बिषात् ॥ 29 ॥
श्लोक 10.76.30
किं नु वक्ष्ये ऽभिसङ्गम्य पितरौ रामकेशवौ । युद्धात् सम्यग् अपक्रान्तः पृष्टस् तत्रात्मनः क्षमम् ॥ 30 ॥
श्लोक 10.76.31
व्यक्तं मे कथयिष्यन्ति हसन्त्यो भ्रातृजामयः । क्लैब्यं कथं कथं वीर तवान्यैः कथ्यतां मृधे ॥ 31 ॥
श्लोक 10.76.32
धर्मं विजानतायुष्मन् कृतम् एतन् मया विभो । सूतः कृच्छ्रगतं रक्षेद् रथिनं सारथिं रथी ॥ 32 ॥
श्लोक 10.76.33
एतद् विदित्वा तु भवान् मयापोवाहितो रणात् । उपसृष्टः परेणेति मूर्च्छितो गदया हतः ॥ 33 ॥