मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 77

श्रीमद्भागवत दशम स्कन्ध अध्याय 77 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.77.1

स उपस्पृश्य सलिलं दंशितो धृतकार्मुकः । नय मां द्युमतः पार्श्वं वीरस्येत्य् आह सारथिम् ॥ 1 ॥

श्लोक 10.77.2

विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः । प्रतिहत्य प्रत्यविध्यान् नाराचैर् अष्टभिः स्मयन् ॥ 2 ॥

श्लोक 10.77.3

चतुर्भिश् चतुरो वाहान् सूतम् एकेन चाहनत् । द्वाभ्यं धनुश् च केतुं च शरेणान्येन वै शिरः ॥ 3 ॥

श्लोक 10.77.4

गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर् बलम् । पेतुः समुद्रे सौभेयाः सर्वे सञ्छिन्नकन्धराः ॥ 4 ॥

श्लोक 10.77.5

एवं यदूनां शाल्वानां निघ्नताम् इतरेतरम् । युद्धं त्रिनवरात्रं तद् अभूत् तुमुलम् उल्बणम् ॥ 5 ॥

श्लोक 10.77.6

इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना । राजसूये ऽथ निवृत्ते शिशुपाले च संस्थिते ॥ 6 ॥

श्लोक 10.77.7

कुरुवृद्धान् अनुज्ञाप्य मुनींश् च ससुतां पृथाम् । निमित्तान्य् अतिघोराणि पश्यन् द्वारवतीं ययौ ॥ 7 ॥

श्लोक 10.77.8

आह चाहम् इहायात आर्यमिश्राभिसङ्गतः । राजन्याश् चैद्यपक्षीया नूनं हन्युः पुरीं मम ॥ 8 ॥

श्लोक 10.77.9

वीक्ष्य तत् कदनं स्वानां निरूप्य पुररक्षणम् । सौभं च शाल्वराजं च दारुकं प्राह केशवः ॥ 9 ॥

श्लोक 10.77.10

रथं प्रापय मे सूत शाल्वस्यान्तिकम् आशु वै । सम्भ्रमस् ते न कर्तव्यो मायावी सौभराड् अयम् ॥ 10 ॥

श्लोक 10.77.11

इत्य् उक्तश् चोदयाम् आस रथम् आस्थाय दारुकः । विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम् ॥ 11 ॥

श्लोक 10.77.12

शाल्वश् च कृष्णम् आलोक्य हतप्रायबलेश्वरः । प्राहरत् कृष्णसूतय शक्तिं भीमरवां मृधे ॥ 12 ॥

श्लोक 10.77.13

ताम् आपतन्तीं नभसि महोल्काम् इव रंहसा । भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत् ॥ 13 ॥

श्लोक 10.77.14

तं च षोडशभिर् विद्ध्वा बानैः सौभं च खे भ्रमत् । अविध्यच् छरसन्दोहैः खं सूर्य इव रश्मिभिः ॥ 14 ॥

श्लोक 10.77.15

शाल्वः शौरेस् तु दोः सव्यं सशार्ङ्गं शार्ङ्गधन्वनः । बिभेद न्यपतद् धस्ताच् छार्ङ्गम् आसीत् तद् अद्भुतम् ॥ 15 ॥

श्लोक 10.77.16

हाहाकारो महान् आसीद् भूतानां तत्र पश्यताम् । निनद्य सौभराड् उच्चैर् इदम् आह जनार्दनम् ॥ 16 ॥

श्लोक 10.77.17

यत् त्वया मूढ नः सख्युर् भ्रातुर् भार्या हृतेक्षताम् । प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा ॥ 17 ॥

श्लोक 10.77.18

तं त्वाद्य निशितैर् बाणैर् अपराजितमानिनम् । नयाम्य् अपुनर्आवृत्तिं यदि तिष्ठेर् ममाग्रतः ॥ 18 ॥

श्लोक 10.77.19

वृथा त्वं कत्थसे मन्द न पश्यस्य् अन्तिके ऽन्तकम् । पौरुसं दर्शयन्ति स्म शूरा न बहुभाषिणः ॥ 19 ॥

श्लोक 10.77.20

इत्य् उक्त्वा भगवाञ् छाल्वं गदया भीमवेगया । तताड जत्रौ संरब्धः स चकम्पे वमन्न् असृक् ॥ 20 ॥

श्लोक 10.77.21

गदायां सन्निवृत्तायां शाल्वस् त्व् अन्तरधीयत । ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् । देवक्या प्रहितो ऽस्मीति नत्वा प्राह वचो रुदन् ॥ 21 ॥

श्लोक 10.77.22

कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल । बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः ॥ 22 ॥

श्लोक 10.77.23

निशम्य विप्रियं कृष्णो मानुसीं प्रकृतिं गतः । विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा ॥ 23 ॥

श्लोक 10.77.24

कथं रामम् असम्भ्रान्तं जित्वाजेयं सुरासुरैः । शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः ॥ 24 ॥

श्लोक 10.77.25

इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः । वसुदेवम् इवानीय कृष्णं चेदम् उवाच सः ॥ 25 ॥

श्लोक 10.77.26

एष ते जनिता तातो यद्अर्थम् इह जीवसि । वधिष्ये वीक्षतस् ते ऽमुम् ईशश् चेत् पाहि बालिश ॥ 26 ॥

श्लोक 10.77.27

एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः । उत्कृत्य शिर आदाय खस्थं सौभं समाविशत् ॥ 27 ॥

श्लोक 10.77.28

ततो मुहूर्तं प्रकृताव् उपप्लुतः स्वबोध आस्ते स्वजनानुषङ्गतः । महानुभावस् तद् अबुध्यद् आसुरीं मायां स शाल्वप्रसृतां मयोदिताम् ॥ 28 ॥

श्लोक 10.77.29

न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यद् अच्युतः । स्वाप्नं यथा चाम्बरचारिणं रिपुं सौभस्थम् आलोक्य निहन्तुम् उद्यतः ॥ 29 ॥

श्लोक 10.77.30

एवं वदन्ति राजर्षे ऋषयः के च नान्विताः । यत् स्ववाचो विरुध्येत नूनं ते न स्मरन्त्य् उत ॥ 30 ॥

श्लोक 10.77.31

क्व शोकमोहौ स्नेहो वा भयं वा ये ऽज्ञसम्भवाः । क्व चाखण्डितविज्ञानज्ञानैश्वर्यस् त्व् अखण्डितः ॥ 31 ॥

श्लोक 10.77.32

यत्पादसेवोर्जितयात्मविद्यया हिन्वन्त्य् अनाद्यात्मविपर्ययग्रहम् । लभन्त आत्मीयम् अनन्तम् ऐश्वरं कुतो नु मोहः परमस्य सद्गतेः ॥ 32 ॥

श्लोक 10.77.33

तं शस्त्रपूगैः प्रहरन्तम् ओजसा शाल्वं शरैः शौरिर् अमोघविक्रमः &अम्प्; विद्ध्वाच्छिनद् वर्म धनुः शिरोमणिं सौभं च शत्रोर् गदया रुरोज ह ॥ 33 ॥

श्लोक 10.77.34

तत् कृष्णहस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा । विसृज्य तद् भूतलम् आस्थितो गदाम् उद्यम्य शाल्वो ऽच्युतम् अभ्यगाद् द्रुतम् ॥ 34 ॥

श्लोक 10.77.35

आधावतः सगदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्गम् अद्भुतम् । वधाय शाल्वस्य लयार्कसन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः ॥ 35 ॥

श्लोक 10.77.36

जहार तेनैव शिरः सकुण्डलं किरीटयुक्तं पुरुमायिनो हरिः । वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस् तदा नृणाम् ॥ 36 ॥

श्लोक 10.77.37

तस्मिन् निपतिते पापे सौभे च गदया हते । नेदुर् दुन्दुभयो राजन् दिवि देवगणेरिताः । सखीनाम् अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात् ॥ 37 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ