मुख्य सामग्री पर जाएँ
ॐ दिव्य ग्रंथ

श्रीमद्भागवत दशम स्कन्ध अध्याय 78

श्रीमद्भागवत दशम स्कन्ध अध्याय 78 का उपलब्ध मूल पाठ दिव्य ग्रंथ पर पढ़ें। संस्करण और भाषा संबंधित पुस्तक के स्रोत नोट के अनुसार हैं।

श्रीमद्भागवत महापुराण के पुस्तक आवरण का चित्र
दिव्य ग्रंथ · मूल पाठ संग्रह

श्लोक 10.78.1

शिशुपालस्य शाल्वस्य पौण्ड्रकस्यापि दुर्मतिः । परलोकगतानां च कुर्वन् पारोक्ष्यसौहृदम् ॥ 1 ॥

श्लोक 10.78.2

एकः पदातिः सङ्क्रुद्धो गदापाणिः प्रकम्पयन् । पद्भ्याम् इमां महाराज महासत्त्वो व्यदृश्यत ॥ 2 ॥

श्लोक 10.78.3

तं तथायान्तम् आलोक्य गदाम् आदाय सत्वरः । अवप्लुत्य रथात् कृष्णः सिन्धुं वेलेव प्रत्यधात् ॥ 3 ॥

श्लोक 10.78.4

गदाम् उद्यम्य कारूषो मुकुन्दं प्राह दुर्मदः । दिष्ट्या दिष्ट्या भवान् अद्य मम दृष्टिपथं गतः ॥ 4 ॥

श्लोक 10.78.5

त्वं मातुलेयो नः कृष्ण मित्रध्रुङ् मां जिघांससि । अतस् त्वां गदया मन्द हनिष्ये वज्रकल्पया ॥ 5 ॥

श्लोक 10.78.6

तर्ह्य् आनृण्यम् उपैम्य् अज्ञ मित्राणां मित्रवत्सलः । बन्धुरूपम् अरिं हत्वा व्याधिं देहचरं यथा ॥ 6 ॥

श्लोक 10.78.7

एवं रूक्षैस् तुदन् वाक्यैः कृष्णं तोत्रैर् इव द्विपम् । गदयाताडयन् मूर्ध्नि सिंहवद् व्यनदच् च सः ॥ 7 ॥

श्लोक 10.78.8

गदयाभिहतो ऽप्य् आजौ न चचाल यदूद्वहः । कृष्णो ऽपि तम् अहन् गुर्व्या कौमोदक्या स्तनान्तरे ॥ 8 ॥

श्लोक 10.78.9

गदानिर्भिन्नहृदय उद्वमन् रुधिरं मुखात् । प्रसार्य केशबाह्व्अङ्घ्रीन् धरण्यां न्यपतद् व्यसुः ॥ 9 ॥

श्लोक 10.78.10

ततः सूक्ष्मतरं ज्योतिः कृष्णम् आविशद् अद्भुतम् । पश्यतां सर्वभूतानां यथा चैद्यवधे नृप ॥ 10 ॥

श्लोक 10.78.11

विदूरथस् तु तद्भ्राता भ्रातृशोकपरिप्लुतः । आगच्छद् असिचर्माभ्याम् उच्छ्वसंस् तज्जिघांसया ॥ 11 ॥

श्लोक 10.78.12

तस्य चापततः कृष्णश् चक्रेण क्षुरनेमिना । शिरो जहार राजेन्द्र सकिरीटं सकुण्डलम् ॥ 12 ॥

श्लोक 10.78.13

एवं सौभं च शाल्वं च दन्तवक्रं सहानुजम् । हत्वा दुर्विषहान् अन्यैर् ईडितः सुरमानवैः ॥ 13 ॥

श्लोक 10.78.14

मुनिभिः सिद्धगन्धर्वैर् विद्याधरमहोरगैः । अप्सरोभिः पितृगणैर् यक्षैः किन्नरचारणैः ॥ 14 ॥

श्लोक 10.78.15

उपगीयमानविजयः कुसुमैर् अभिवर्षितः । वृतश् च वृष्णिप्रवरैर् विवेशालङ्कृतां पुरीम् ॥ 15 ॥

श्लोक 10.78.16

एवं योगेश्वरः कृष्णो भगवान् जगद्ईश्वरः । ईयते पशुदृष्टीनां निर्जितो जयतीति सः ॥ 16 ॥

श्लोक 10.78.17

श्रुत्वा युद्धोद्यमं रामः कुरूणां सह पाण्डवैः । तीर्थाभिषेकव्याजेन मध्यस्थः प्रययौ किल ॥ 17 ॥

श्लोक 10.78.18

स्नात्वा प्रभासे सन्तर्प्य देवर्षिपितृमानवान् । सरस्वतीं प्रतिस्रोतं ययौ ब्राह्मणसंवृतः ॥ 18 ॥

श्लोक 10.78.19

पृथूदकं बिन्दुसरस् त्रितकूपं सुदर्शनम् । विशालं ब्रह्मतीर्थं च चक्रं प्राचीं सरस्वतीम् ॥ 19 ॥

श्लोक 10.78.20

यमुनाम् अनु यान्य् एव गङ्गाम् अनु च भारत । जगाम नैमिषं यत्र ऋषयः सत्रम् आसते ॥ 20 ॥

श्लोक 10.78.21

तम् आगतम् अभिप्रेत्य मुनयो दीर्घसत्रिणः । अभिनन्द्य यथान्यायं प्रणम्योत्थाय चार्चयन् ॥ 21 ॥

श्लोक 10.78.22

सो ऽर्चितः सपरीवारः कृतासनपरिग्रहः । रोमहर्षणम् आसीनं महर्षेः शिष्यम् ऐक्षत ॥ 22 ॥

श्लोक 10.78.23

अप्रत्युत्थायिनं सूतम् अकृतप्रह्वणाञ्जलिम् । अध्यासीनं च तान् विप्रांश् चुकोपोद्वीक्ष्य माधवः ॥ 23 ॥

श्लोक 10.78.24

यस्माद् असाव् इमान् विप्रान् अध्यास्ते प्रतिलोमजः । धर्मपालांस् तथैवास्मान् वधम् अर्हति दुर्मतिः ॥ 24 ॥

श्लोक 10.78.25

ऋषेर् भगवतो भूत्वा शिष्यो ऽधीत्य बहूनि च । सेतिहासपुराणानि धर्मशास्त्राणि सर्वशः ॥ 25 ॥

श्लोक 10.78.26

अदान्तस्याविनीतस्य वृथा पण्डितमानिनः । न गुणाय भवन्ति स्म नटस्येवाजितात्मनः ॥ 26 ॥

श्लोक 10.78.27

एतद्अर्थो हि लोके ऽस्मिन्न् अवतारो मया कृतः । वध्या मे धर्मध्वजिनस् ते हि पातकिनो ऽधिकाः ॥ 27 ॥

श्लोक 10.78.28

एतावद् उक्त्वा भगवान् निवृत्तो ऽसद्वधाद् अपि । भावित्वात् तं कुशाग्रेण करस्थेनाहनत् प्रभुः ॥ 28 ॥

श्लोक 10.78.29

हाहेतिवादिनः सर्वे मुनयः खिन्नमानसाः । ऊचुः सङ्कर्षणं देवम् अधर्मस् ते कृतः प्रभो ॥ 29 ॥

श्लोक 10.78.30

अस्य ब्रह्मासनं दत्तम् अस्माभिर् यदुनन्दन । आयुश् चात्माक्लमं तावद् यावत् सत्रं समाप्यते ॥ 30 ॥

श्लोक 10.78.31

अजानतैवाचरितस् त्वया ब्रह्मवधो यथा । योगेश्वरस्य भवतो नाम्नायो ऽपि नियामकः ॥ 31 ॥

श्लोक 10.78.32

यद्य् एतद्ब्रह्महत्यायाः पावनं लोकपावन । चरिष्यति भवांल् लोकसङ्ग्रहो ऽनन्यचोदितः ॥ 32 ॥

श्लोक 10.78.33

चरिष्ये वधनिर्वेशं लोकानुग्रहकाम्यया । नियमः प्रथमे कल्पे यावान् स तु विधीयताम् ॥ 33 ॥

श्लोक 10.78.34

दीर्घम् आयुर् बतैतस्य सत्त्वम् इन्द्रियम् एव च । आशासितं यत् तद् ब्रूते साधये योगमायया ॥ 34 ॥

श्लोक 10.78.35

अस्त्रस्य तव वीर्यस्य मृत्योर् अस्माकम् एव च । यथा भवेद् वचः सत्यं तथा राम विधीयताम् ॥ 35 ॥

श्लोक 10.78.36

आत्मा वै पुत्र उत्पन्न इति वेदानुशासनम् । तस्माद् अस्य भवेद् वक्ता आयुर्इन्द्रियसत्त्ववान् ॥ 36 ॥

श्लोक 10.78.37

किं वः कामो मुनिश्रेष्ठा ब्रूताहं करवाण्य् अथ । अजानतस् त्व् अपचितिं यथा मे चिन्त्यतां बुधाः ॥ 37 ॥

श्लोक 10.78.38

इल्वलस्य सुतो घोरो बल्वलो नाम दानवः । स दूषयति नः सत्रम् एत्य पर्वणि पर्वणि ॥ 38 ॥

श्लोक 10.78.39

तं पापं जहि दाशार्ह तन् नः शुश्रूषणं परम् । पूयशोणितविन्मूत्रसुरामांसाभिवर्षिणम् ॥ 39 ॥

श्लोक 10.78.40

ततश् च भारतं वर्षं परीत्य सुसमाहितः । चरित्वा द्वादशमासांस् तीर्थस्नायी विशुध्यसि ॥ 40 ॥

मूल पुस्तक के इंटरैक्टिव पाठक में पढ़ें · सभी मूल पाठ